aSTakam
śrīgaṇeśāya namaḥ ॥
श्रीगणेशाय नमः ॥
Verse
सत्यं ब्रवीमि परलोकहितं ब्रव्रीमि सारं ब्रवीम्युपनिषद्धृदयं ब्रवीमि । संसारमुल्बणमसारमवाप्य जन्तोः सारोऽयमीश्वरपदाम्बुरुहस्य सेवा ॥१॥
Verse
ये नार्चयन्ति गिरिशं समये प्रदोषे ये नार्चितं शिवमपि प्रणमन्ति चान्ये । एतत्कथां श्रुतिपुटैर्न पिबन्ति मूढास्ते जन्मजन्मसु भवन्ति नरा दरिद्राः ॥२॥
Verse
ये वै प्रदोषसमये परमेश्वरस्य, कुर्वन्त्यनन्यमनसोंऽघ्रिसरोजपूजाम् । नित्यं प्रवृद्धधनधान्यकलत्रपुत्रसौभाग्य- सम्पदधिकास्त इहैव लोके ॥३॥
Verse
कैलासशैलभुवने त्रिजगज्जनित्रीं गौरीं निवेश्य कनकाचितरत्नपीठे । नृत्यं विधातुमभिवाञ्छति शूलपाणौ देवाः प्रदोषसमये नु भजन्ति सर्वे ॥४॥
Verse
वाग्देवी धृतवल्लकी शतमखो वेणुं दधत्पद्मज- स्तालोन्निद्रकरो रमा भगवती गेयप्रयोगान्विता । विष्णुः सान्द्रमृदङ्गवादनपटुर्देवाः समन्तात्स्थिताः सेवन्ते तमनु प्रदोषसमये देवं मृडानीपतिम् ॥५॥
Verse
गन्धर्वयक्षपतगोरगसिद्धसाध्य- विद्याधरामरवराप्सरसां गणांश्च । येऽन्ये त्रिलोकनिलया सहभूतवर्गाः प्राप्ते प्रदोषसमये हरपार्श्वसंस्थाः ॥६॥
Verse
अतः प्रदोषे शिव एक एव पूज्योऽथ नान्ये हरिपद्मजाद्याः । तस्मिन्महेशे विधिनेज्यमाने सर्वे प्रसीदन्ति सुराधिनाथाः ॥७॥
Verse
एष ते तनयः पूर्वजन्मनि ब्राह्मणोत्तमः । प्रतिग्रहैर्वयो निन्ये न दानाद्यैः सुकर्मभिः ॥८॥
Verse
अतो दारिद्र्यमापन्नः पुत्रस्ते द्विजभामिनि । तद्दोषपरिहारार्थं शरणां यातु शङ्करम् ॥९॥
Verse
॥इति श्रीस्कान्दोक्तं प्रदोषस्तोत्राष्टकं सम्पूर्णम् ॥
