Fetching Data .

Loading verse structure and chapter context.

GyanDweepBeta
HomeLearnLibrary
eGurukulsDiscoverTemplesPanchanga
Sign Up
Sign Up

aSTakam

śrī śaṃkarācāryakṛtam

श्री शंकराचार्यकृतम्

Verse

विश्वं दर्पणदृश्यमाननगरीतुल्यं निजान्तर्गतं पश्यन्नात्मनि मायया बहिरिवोद्भूतं यथा निद्रया । यः साक्षात्कुरुते प्रबोधसमये स्वात्मानमेवाद्वयं तस्मै श्री गुरुमूर्तये नम इदं श्रीदक्षिणामूर्तये ॥१॥

Verse

बीजस्यान्तरिवाङ्कुरो जगदिदं प्राङ्निर्विकल्पं पुनर्- मायाकल्पितदेशकालकलनावैचित्र्यचित्रीकृतम् । मायावीव विजृंभयत्यपि महायोगीव यः स्वेच्छया तस्मै श्री गुरुमूर्तये नम इदं श्रीदक्षिणामूर्तये ॥२॥

Verse

यस्यैव स्फुरणं सदात्मकमसत्कल्पार्थकं भासते साक्षात्तत्त्वमसीति वेदवचसा यो बोधयत्याश्रितान् । यत्साक्षात्करणाद्भवेन्नपुनरावृत्तिर्भवाम्भोनिधौ तस्मै श्री गुरुमूर्तये नम इदं श्रीदक्षिणामूर्तये ॥३॥

Verse

नानाच्छिद्रघटोदरस्थितमहादीपप्रभाभासुरं ज्ञानं यस्यतु चक्षुरादिकरणद्वारा बहिः स्पन्दते । जानामीति तमेव भान्तमनुभात्येतत्समस्तं जगत् तस्मै श्री गुरुमूर्तये नम इदं श्रीदक्षिणामूर्तये ॥४॥

Verse

देहं प्राणमपीन्द्रियाण्यपि चलां बुद्धिं च शून्यं विदुः स्त्रीबालान्धजडोपमास्त्वहमिति भ्रान्ता भृशं वादिनः । मायाशक्तिविलासकल्पितमहाव्यामोहसंहारिणे तस्मै श्री गुरुमूर्तये नम इदं श्रीदक्षिणामूर्तये ॥५॥

Verse

राहुग्रस्तदिवाकरेन्दुसदृशो मायासमाच्छादनात् सन्मात्रः करणोपसंहरणतो योऽभूत्सुषुप्तः पुमान् । प्रागस्वाप्समिति प्रबोधसमये यः प्रत्यभिज्ञायते तस्मै श्री गुरुमूर्तये नम इदं श्रीदक्षिणामूर्तये ॥६॥

Verse

बाल्यादिष्वपि जाग्रदादिषु तथा सर्वास्ववस्थास्वपि व्यावृत्तास्वनुवर्तमानमहमित्यन्तः स्फुरन्तं सदा । स्वात्मानं प्रकटीकरोति भजतां यो मुद्रया भद्रया तस्मै श्री गुरुमूर्तये नम इदं श्रीदक्षिणामूर्तये ॥७॥

Verse

विश्वं पश्यति कार्यकारणतया स्वस्वामिसंबन्धतः शिष्याचार्यतया तथैव पितृपुत्राद्यात्मना भेदतः । स्वप्ने जाग्रति वा य एष पुरुषो मायापरिभ्रामितः तस्मै श्री गुरुमूर्तये नम इदं श्रीदक्षिणामूर्तये ॥८॥

Verse

भूरंभांस्यनलोऽनिलोऽम्बरमहर्नाथो हिमांशुः पुमा- नित्याभाति चराचरात्मकमिदं यस्यैव मूर्त्यष्टकम् । नान्यत् किञ्चन विद्यते विमृशतां यस्मात् परस्माद्विभोः तस्मै श्री गुरुमूर्तये नम इदं श्रीदक्षिणामूर्तये ॥९॥

Verse

सर्वात्मत्वमिति स्फुटीकृतमिदं यस्मादमुष्मिंस्तवे तेनास्य श्रवणात्तदर्थमननाद्ध्यानाच्च संकीर्तनात् । सर्वात्मत्वमहाविभूतिसहितं स्यादीश्वरत्वं स्वतः सिद्ध्येत्तत्पुनरष्टधा परिणतं चैश्वर्यमव्याहतम् ॥१०॥

śrīmīnākṣīmaṇimālāṣṭakam
śrīśaṃkarācāryakṛtaṃ

Read next

More on शंकराचार्यकृतम्

  • श्री शंकराचार्यकृतम्Ashtakam
  • श्री शंकराचार्यकृतंAshtakam
  • श्रीशंकराचार्यकृतंAshtakam
  • श्री शंकराचार्यकृतम्Ashtakam
  • श्री शंकराचर्यकृतम्Ashtakam
  • श्री शंकराचार्यकृतम्Ashtakam

सा विद्या या विमुक्तये

Built with Sankalpa at Gyaandweep

Gyaandweep

© 2022-2026 Granthajyoti Pvt Ltd.

Privacy & Terms