Fetching Data .

Loading verse structure and chapter context.

GyanDweepBeta
HomeLearnLibrary
eGurukulsDiscoverTemplesPanchanga
Sign Up
Sign Up

aSTakam

śrī śaṃkarācāryakṛtam

श्री शंकराचार्यकृतम्

Verse

चाञ्चल्यारुणलोचनाञ्चितकृपां चन्द्रार्धचूडामणिं चारुस्मेरमुखां चराचरजगत्संरक्षणे तत्पराम् । चञ्चच्चम्पकनासिकाग्रविलसन्मुक्तामणीरञ्जितां श्रीशैलस्थलवासिनीं भगवतीं श्रीमातरं भावये ॥१॥

Verse

कस्तूरीतिलकाञ्चितेन्दुविलसत्प्रोद्भासिफालस्थलीं कर्पूरद्रवमिश्रचूर्णखदिरामोदोल्लसद्वीटिकाम् । लोलापाङ्गतरङ्गितैरधिकृपासारैर्नतानन्दिनीं श्रीशैलस्थलवासिनीं भगवतीं श्रीमातरं भावये ॥२॥

Verse

राजन्मत्तमरालमन्दगमनां राजीवपत्रेक्षणां राजीवप्रभवादिदेवमकुटाराजत्पदांभोरुहाम् । राजीवायतपत्रमण्डितकुचां राजाधिराजेश्वरीं श्रीशैलस्थलवासिनीं भगवतीं श्रीमातरं भावये ॥३॥

Verse

षट्कोणाङ्गणदीपिकां शिवसतीं षड्वैरिवर्गापाहां षट्चक्रान्तरसंस्थितां वरसुतां षड्योगिनीवेष्टिताम् । षट्चक्राञ्चितपादुकाञ्चितपदां षड्भावगां षोडशीं श्रीशैलस्थलवासिनीं भगवतीं श्रीमातरं भावये ॥४॥

Verse

श्रीनाथाकृतिपालितत्रिभुवनां श्रीचक्रसञ्चारिणीं ज्ञानासक्तमनोजयौवनलसत् गन्धर्वकन्यावृताम् । दीनानामतिवेलभाग्यकलनीं दिव्याम्बरालङ्कृतां श्रीशैलस्थलवासिनीं भगवतीं श्रीमातरं भावये ॥५॥

Verse

लावण्याधिकभूषिताङ्गलतिकां लाक्षारसद्राविणीं सेवायातसमस्तदेववनितां सीमन्तभूषान्विताम् । भावोल्लासवशीकृतप्रियतमां भण्डासुरच्छेदिनीम् श्रीशैलस्थलवासिनीं भगवतीं श्रीमातरं भावये ॥६॥

Verse

धन्यां सोमविभावनीयचरितां धाराधरश्यामलां मान्याराधनमेदिनीं सुमनसां मुक्तिप्रदानव्रताम् । कन्यापूजनसुप्रसन्नहृदयां काञ्चीलसन्मध्यमां श्रीशैलस्थलवासिनीं भगवतीं श्रीमातरं भावये ॥७॥

Verse

कर्पूरागरुकुङ्कुमाङ्कितकुचां कर्पूरवर्णस्थितां कृष्टोत्कृष्टसुकृष्टकर्मदहनां कामेश्वरीं कामिनीम् । कामाक्षीं करुणारसार्द्रहृदयां कल्पान्तरस्थायिनीं श्रीशैलस्थलवासिनीं भगवतीं श्रीमातरं भावये ॥८॥

Verse

गायत्रीं गरुडध्वजां गगनगां गान्धर्वगानप्रियां गंभीरां गजगामिनीं गिरिसुतां गन्धाक्षतालंकृताम् । गंगागौतमगर्गसन्नुतपदां गां गौतमीं गोमतीं श्रीशैलस्थलवासिनीं भगवतीं श्रीमातरं भावये ॥९॥

śoṇādrināthāṣṭakam
śrī śaṃkarācāryakṛtaṃ

Read next

More on शंकराचार्यकृतम्

  • श्री शंकराचार्यकृतंAshtakam
  • श्री शंकराचार्यकृतम्Ashtakam
  • श्रीशंकराचार्यकृतंAshtakam
  • श्री शंकराचार्यकृतम्Ashtakam
  • श्री शंकराचर्यकृतम्Ashtakam
  • श्री शंकराचार्यकृतम्Ashtakam

सा विद्या या विमुक्तये

Built with Sankalpa at Gyaandweep

Gyaandweep

© 2022-2026 Granthajyoti Pvt Ltd.

Privacy & Terms