Fetching Data .

Loading verse structure and chapter context.

GyanDweepBeta
HomeLearnLibrary
eGurukulsDiscoverTemplesPanchanga
Sign Up
Sign Up

aSTakam

varuṇakṛtam

वरुणकृतम्

Verse

कल्याणशैलपरिकल्पितकार्मुकाय मौर्वीकृताखिलमहोरगनायकाय । पृथ्वीरथाय कमलापतिसायकाय हालास्यमध्यनिलयाय नमः शिवाय ॥१॥

Verse

भक्तार्तिभञ्जनपराय परात्पराय कालाभ्रकान्तिगरलाङ्कितकन्धराय । भूतेश्वराय भुवनत्रयकारणाय हालास्यमध्यनिलयाय नमः शिवाय ॥२॥

Verse

भूदारमूर्तिपरिमृग्यपदांबुजाय हंसाब्जसंभवसुदूरसुमस्तकाय । ज्योतिर्मयस्फुरितदिव्यवपुर्धराय हालास्यमध्यनिलयाय नमः शिवाय ॥३॥

Verse

कादंबकानन निवास कुतूहलाय कान्तार्धभाग कमनीयकलेबराय । कालान्तकाय करुणामृतसागराय हालास्यमध्यनिलयाय नमः शिवाय ॥४॥

Verse

विश्वेश्वराय विबुधेश्वरपूजिताय विद्याविशिष्ट विदितात्म सुवैभवाय । विद्याप्रदाय विमलेन्द्रविमानगाय हालास्यमध्यनिलयाय नमः शिवाय ॥५॥

Verse

संपत्प्रदाय सकलागममस्तकेषु संघोषितात्मविभवाय सदाशिवाय । सर्वात्मने सकलदुःखसमूलहन्त्रे हालास्यमध्यनिलयाय नमः शिवाय ॥६॥

Verse

गङ्गाधराय गरुडध्वजवन्दिताय गण्डस्फुरत्भुजगकुण्डलमण्डिताय । गन्धर्वकिन्नरसुगीत गुणात्मकाय हालास्यमध्यनिलयाय नमः शिवाय ॥७॥

Verse

पाणिं प्रगृह्य मलयध्वजभूपपुत्र्याः पाण्ड्येश्वरः स्वयमभूत् परमेश्वरो यः । तस्मै जगत् प्रथितसुन्दरपाण्ड्यनाम्ने हालास्यमध्यनिलयाय नमः शिवाय ॥८॥

Verse

गीर्वाणदेशिकगिरामपि दूरगं यत् वक्तुं महत्वमिह को भवतः प्रवीणः । शंभो क्षमस्व भगवच्चरणारविन्द- भक्त्या कृतां स्तुतिमिमां मम सुन्दरेश ॥९॥

śrīśaṃkarācāryakṛtaṃ
patañjalikṛtam

सा विद्या या विमुक्तये

Built with Sankalpa at Gyaandweep

Gyaandweep

© 2022-2026 Granthajyoti Pvt Ltd.

Privacy & Terms