aSTakam
mukundāṣṭakam
मुकुन्दाष्टकम्
Verse
करारविन्देन पदारविन्दं मुखारविन्दे विनिवेशयन्तम् । वटस्यपत्रस्य पुटे शयानं बालं मुकुन्दं मनसा स्मरामि ॥१॥
Verse
संहृत्यलोकान् वटपत्रमध्येशयानमाद्यन्तविहीनरूपम् । सर्वेश्वरं सर्वहितावतारं बालं मुकुन्दं मनसा स्मरामि ॥२॥
Verse
आलोक्यमातुर्मुखमादरेण स्तन्यं पिबन्तं सरसीरुहाक्षम् । सच्चिन्मयं देवमनन्तरूपं बालं मुकुन्दं मनसा स्मरामि ॥३॥
Verse
इन्दीवरश्यामलकोमलाङ्गं इन्द्रादिदेवार्चितपादपद्मम् । सन्तानकल्पद्रुममाश्रितानां बालं मुकुन्दं मनसा स्मरामि ॥४॥
Verse
कलिन्दजान्तस्थितकालियस्य फणाग्ररङ्गे नटनप्रियं तम् । तत्पुच्छहस्तं शरदिन्दुवक्त्रं बालं मुकुन्दं मनसा स्मरामि ॥५॥
Verse
शिक्येनिधायाज्यपयोदधीनि कार्यात्गतायां व्रजनायिकायाम् । भुक्त्वा यथेष्टं कपटेन सुप्तं बालं मुकुन्दं मनसा स्मरामि ॥६॥
Verse
लम्बालकं लम्बितहारयष्टिं शृङ्गारलीलाङ्कुरदंतपंक्तिम् । बिम्बाधरापूरितवेणुनादं बालं मुकुन्दं मनसा स्मरामि ॥७॥
Verse
उलूखले बद्धमुदारचौर्यं उत्तुङ्गयुग्मार्जुनभङ्गलीलम् । उत्फुल्ल्पद्मायतचारुनेत्रम् बालं मुकुन्दं मनसा स्मरामि ॥९॥
Verse
एवं मुकुन्दाष्टकमादरेण सकृत् पठेद्यस्सलभते नित्यम् । ज्ञानप्रदं पापहरं पवित्रं श्रियं च विद्यां च यशश्च मुक्तिम् ॥१०॥
