Fetching Data .

Loading verse structure and chapter context.

GyanDweepBeta
HomeLearnLibrary
eGurukulsDiscoverTemplesPanchanga
Sign Up
Sign Up

aSTakam

bhāvanāṣṭakam

भावनाष्टकम्

Verse

अंगनामंगनामन्तरे विग्रहं कुण्डलोद्भासितं दिव्यकर्णद्वयम् । बिभृतं सुस्थितं योगपीठोत्तमे सन्ततं भावये श्रीपतीशात्मजम् ॥१॥

Verse

मोहनीयाननं शृङ्गपर्वस्थितं काननेषु प्रियावासमत्यद्भुतम् । दीनसंरक्षणकं वासवेनार्चितं सन्ततं भावये श्रीपतीशात्मजम् ॥२॥

Verse

कोमळम् कुन्तळं स्निग्धमत्यद्भुतं बिभृतं मोहनं नीलवर्णाञ्चितम् । कामदं निर्मलं भूतवृन्दावृतं सन्ततं भावये श्रीपतीशात्मजम् ॥३॥

Verse

अंबरं दिव्यनीलद्युतिं शोभनं अंबुवर्णोपमं गात्रशोभाकरम् । बिम्बमत्यद्भुताकारजं बिभृतं सन्ततं भावये श्रीपतीशात्मजम् ॥४॥

Verse

वाहनं तुङ्गमश्वोत्तमं सुन्दरं सैन्धवं संश्रितं विश्ववश्याकृतिम् । बान्धवं बन्धुहीनाश्रितं मोहनं सन्ततं भावये श्रीपतीशात्मजम् ॥५॥

Verse

भासितं वक्षसा हारमुक्ताञ्चितं देवदेवार्चितं केरळेसुस्थितम् । भूसुरैर्वन्दितं दिव्यपीठस्थितं सन्ततं भावये श्रीपतीशात्मजम् ॥६॥

Verse

पावनं पङ्कजं दिव्यपादद्वयं बिभृतं भक्तसंघ प्रशोभ्यंघ्रिकम् । कामदं मोक्षदं तारकं सादरं सन्ततं भावये श्रीपतीशात्मजम् ॥७॥

Verse

विग्रहं मङ्गळं सर्वकामार्थदं अग्रिमैर्वन्दितं दीनरक्षात्मकम् । भूषणैर्मण्डितं मालयाराजितं सन्ततं भावये श्रीपतीशात्मजम् ॥८॥

Verse

इति भावनाष्टकं संपूर्णम् ॥

bālāmbikāṣṭakam
maṇikarṇikāṣṭakam

सा विद्या या विमुक्तये

Built with Sankalpa at Gyaandweep

Gyaandweep

© 2022-2026 Granthajyoti Pvt Ltd.

Privacy & Terms