Fetching Data .

Loading verse structure and chapter context.

GyanDweepBeta
HomeLearnLibrary
eGurukulsDiscoverTemplesPanchanga
Sign Up
Sign Up

aSTakam

bhagavatyaṣṭakam

भगवत्यष्टकम्

Verse

नमोऽस्तु ते सरस्वति त्रिशूल- चक्र- धारिणि सिताम्बरावृते शुभे मृगेन्द्रपीठसंस्थिते । सुवर्णबन्धुराधरे सुझल्लरीशिरोरुहे सुवर्णपद्मभूषिते नमोऽस्तु ते महेश्वरि ॥१॥

Verse

पितामहादिभिर्नुते स्वकान्तिलुप्तचन्द्रभे सरत्नमालयावृते भवाब्धिकष्टहारिणि । तमालहस्तमण्डिते तमाल- भाल- शोभिते गिरामगोचरे इले नमोऽस्तु ते महेश्वरि ॥२॥

Verse

स्वभक्तवत्सलेऽनघे सदापवर्गभोगदे दरिद्र- दुखहारिणि त्रिलोकशंकरीश्वरि । भवानि भीम अम्बिके प्रचण्डतेज- उज्ज्वले भुजाकलापमण्डिते नमोऽस्तु ते महेश्वरि ॥३॥

Verse

प्रपन्नभीतिनाशिके प्रसूनमाल्यकन्धरे धियस्तमोनिवारिके विशुद्धबुद्धिकारिके । सुरार्चिताऽङ्घ्रिपंकजे प्रचण्डविक्रमेऽक्षरे विशालपद्मलोचने नमोऽस्तु ते महेश्वरि ॥४॥

Verse

हतस्त्वया स दैत्यधूम्रलोचनो यदा रणे तदा प्रसूनवृष्टयस्त्रिविष्टपे सुरैः कृताः । निरीक्ष्य तत्र ते प्रभामलज्जत प्रभाकर- स्त्वयि दयाकरे ध्रुवे नमोऽस्तु ते महेश्वरि ॥५॥

Verse

ननाद केसरी यदा चचाल मेदिनी तदा जगाम दैत्यनायकः स्वसेनया द्रुतं भिया । सकोप- कम्पदच्छदे सचण्ड- मुण्डघातिके मृगेन्द्रनादनादिते नमोऽस्तु ते महेश्वरि ॥६॥

Verse

कुचन्दनार्चितालके सितोष्णवारणाधरे सवर्करानने वरे निशुम्भ- शुम्भ- मर्दिके । प्रसीद चण्डिके अजे समस्त- दोषघातिके शुभामतिप्रदेऽचले नमोऽस्तु ते महेश्वरि ॥७॥

Verse

त्वमेव विश्वधारिणी त्वमेव विश्वकारिणी त्वमेव सर्वहारिणी न गम्यसेऽजितात्मभिः । दिवौकसां हिते रता करोषि दैत्यनाशन शताक्षि रक्तदन्तिके नमोऽस्तु ते महेश्वरि ॥८॥

Verse

पठन्ति ये समाहिता इमं स्तवं सदा नराः अनन्यभक्तिसंयुताः अहर्मुखेऽनुवासरम् । भवन्ति ते तु पण्डिताः सुपुत्रधान्य- संयुताः कलत्रभूतिसंयुता व्रजन्ति चाऽमृतं सुखम् ॥९॥

Verse

॥ इति श्रीमद्मरदासविरचितं भगवत्यष्टकं समाप्तम् ॥

bhavānyāṣṭakaṃ
dhārāhyanugrahāṣṭakam

Read next

More on भगवत्यष्टकम्

  • भगवत्यष्टकम्Ashtakam

सा विद्या या विमुक्तये

Built with Sankalpa at Gyaandweep

Gyaandweep

© 2022-2026 Granthajyoti Pvt Ltd.

Privacy & Terms