aSTakam
dhārāhyanugrahāṣṭakam
धाराह्यनुग्रहाष्टकम्
Verse
ईश्वर उवाच मातर्जगद्रचन- नाटक- सूत्रधार स्त्वद्रूपमाकलयितुं परमार्थतोऽयम् । ईशोऽप्यमीश्वरपदं समुपैति तादृक् कोऽन्यः स्तवं किमिव तावकमादधातु ॥१॥
Verse
नामानि किन्तु गृणतस्तव लोकतुण्डे नाडम्बरं स्पृशति दण्डधरस्य दण्डः । यल्लेशलम्बित- भवाम्बुनिधिर्यतो यत् त्वन्नामसंसृतिरियं ननु नः स्तुतिस्ते ॥२॥
Verse
त्वच्चिन्तनादर- समुल्लसदप्रमेया- ऽऽनन्दोदयात् समुदितः स्फुटरामहर्षः । मातर्नमामि सुदिनानि सदेत्यमुं त्वा- मभ्यर्थयेऽर्थमिति पूरयताद् दयालो ॥३॥
Verse
इन्द्रेन्दुमौलि- विजि- केशवमौलिरत्न- रोचिश्चयोज्ज्वलित पादसरोजयुग्मे । चेतो मतौ मम सदा प्रतिविम्बिता त्वं भूया भवानि विदधातु सदोरुहारे ॥४॥
Verse
लीलोद्धृतक्षितितलस्य वराहमूर्ते- र्वाराहमूर्तिरखिलार्थकरी त्वमेव । प्रालेयरश्मिसुकलोल्लसितावतंसा त्वं देवि वामतनुभागहरा रहस्य ॥५॥
Verse
त्वामम्ब तप्तकन कोज्ज्वलकान्तिमन्त- र्ये चिन्तयन्ति युवतीतनुमागलान्ताम् । चक्रायुधत्रिनयनाम्बरपोतृवक्त्रां तेषां पदाम्बुजयुगं प्रणमन्ति देवाः ॥६॥
Verse
त्वत्सेवनस्खलित पापचयस्य घास- र्मोक्षोऽपि यत्र न सतां गणनानुफैति । देवासुरोरगनृपालनमस्य पाद- स्तत्र श्रियः पटुगिरः कियषेवमस्तु ॥७॥
Verse
किं दुष्करं त्वयि मनोविषयं गतायां किं दुर्लभं त्वयि विधानवदर्चितायाम् । किं दुष्करं त्वयि सकृत्स्मृतिमागतायां किं दुर्जयं त्वयि कृतस्तुतिवादपुसाम् ॥८॥
Verse
॥ इति श्री धाराह्यनुग्रहाष्टकं सम्पूर्णम् ॥
