aSTakam
kṛṣṇāṣṭakaṃ
कृष्णाष्टकं
Verse
कृष्ण प्रेममयी राधा राधा प्रेममयो हरिः । जीवनेन धने नित्यं राधाकृष्ण गतिर्मम ॥
Verse
कृष्णस्य द्रविणं राधा राधायाः द्रविणं हरिः । जीवनेन धने नित्यं राधाकृष्ण गतिर्मम ॥
Verse
कृष्ण प्राणमयी राधा राधा प्राणमयो हरिः । जीवनेन धने नित्यं राधाकृष्ण गतिर्मम ॥
Verse
कृष्ण द्रवामयी राधा राधा द्रवामयो हरिः । जीवनेन धने नित्यं राधाकृष्ण गतिर्मम ॥
Verse
कृष्णगेहे स्थितां राधा राधागेहे स्थितो हरिः । जीवनेन धने नित्यं राधाकृष्ण गतिर्मम ॥
Verse
कृष्णचित्ता स्थितां राधा राधाचित्त स्थितो हरिः । जीवनेन धने नित्यं राधाकृष्ण गतिर्मम ॥
Verse
नीलाम्बरा धरा राधा पीताम्बरा धरो हरिः । जीवनेन धने नित्यं राधाकृष्ण गतिर्मम ॥
Verse
वृन्दावनेश्वरी राधौ कृष्णो वृन्दावनेश्वरः । जीवनेन धने नित्यं राधाकृष्ण गतिर्मम ॥
Verse
इति श्री वल्लभाचार्यकृतं कृष्णाष्टकं संपूर्णम् ॥
