aSTakam
kapālīśvarāṣṭakam
कपालीश्वराष्टकम्
Verse
असितगिरिसमं स्यात् कज्जलं सिन्धुः पात्रं सुरतरुवरशाखा लेखनी पत्रमूर्वी । लिखति यदि गृहीत्वा सारदा सर्वकालं तदपि तव गुणानामीश पारं न याति ॥
Verse
मधुस्पीता वाचः परमममृतं निर्मितवत- स्तव ब्रह्मन् किं वागपि सुरगुरोर्विस्मयपदम् । मम त्वेतां वाणीं गुणकथनपुण्येन भवतः पुनामीत्यर्थेऽस्मिन् पुरमथन बुद्धिर्व्यवस्थिता ॥
Verse
तद्वाग्विसर्गो जनताघविप्लवो यस्मिन् प्रतिश्लोकमबद्धवत्यपि । नामान्यनन्तस्य यशोऽङ्कितानि यच्छृण्वन्ति गायन्ति गृणन्ति साधवः ॥
Verse
ये यथा मां प्रपद्यन्ते तांस्तथैव भजाम्यहम् । मम वर्त्मानुवर्तन्ते मनुष्याः पार्थ सर्वशः ॥
Verse
लिङ्ग्यतेऽनेन इति लिङ्गम्।
Verse
गच्छन्ति भूतानि संहारे निखिलानि च। निर्गच्छन्ति यतश्चापि लिङ्गोक्तिस्तेन हेतुना ॥
Verse
ब्रह्मा विष्णुश्च रुद्रश्च त्रिखण्डमिति कथ्यते ।
Verse
ऊर्ध्वं तु शिवभागस्यात् विष्णुभागस्तु मध्यमः । ब्रह्माभागस्त्वधः प्रोक्तः शास्त्रज्ञैर्लिङ्गकुम्भयोः ॥
Verse
लिङ्गरूपी -लीनमर्थं गमयतीति लिङ्गम्।
Verse
तद्रूपी लिङ्गरूपी ।
Verse
अविद्यातिरोहित-जडप्रपञ्चस्य गमकत्वं प्रकाशात्मकस्य चैतन्यस्य, तद्रूपी परमेश्वरः इत्यर्थः।
Verse
तदुक्तं स्कान्दे - सूतः: - अथातः संप्रवक्ष्यामि शिवलिङ्गं समासतः ।
Verse
यस्य विज्ञानमात्रेण विमुक्तो मानवो भवेत् ॥शिव एव स्वयं लिङ्गं गमकमेव हि । शिवेन गम्यते सर्वं शिवो नान्येन गम्यते ॥
Verse
शंभुरेव तदा पूज्यो नान्ये विष्ण्वादयस्सुराः ।
Verse
यत्तत्र सर्वेऽपि सुरास्तिष्ठन्ति शिवसन्निधौ ॥अतस्तस्यार्चनं पूजा कथागुणगणस्तवम् ।
Verse
तन्मन्त्रस्य जपश्चैव कर्तव्यो मोक्षकांक्षिभिः ॥दारिद्र्यदुःखतान्धानां एतद्दिव्याञ्जनं स्मृतम् । ऋणार्णवनिमग्नानां उडुपोऽयं सुतारकः ॥
Verse
प्रदोषे पार्वतीनाथे महत्तन्वति ताण्डवम् ।
Verse
वाग्देवी वल्लवीन्धत्ते मृदङ्गं गरुडध्वजः ।
Verse
रमा गानकलां ब्रह्मा तालं वेणुं दिवस्पतिः ॥सर्वे चान्ये सुपर्वाणः सेवन्ते तं महेश्वरम् ।
Verse
पुण्यक्षेत्रं समासाद्य महालिङ्गं निषेव्य च ॥पञ्चकृत्वा नमस्कुर्यात् साष्टाङ्गं भक्तिपूर्वकम् ।
Verse
पांसूनां अङ्गलग्नानां एकैकस्य नमस्कृतौ ॥दिव्यवर्षसहस्रंतु शिवलोके महीयते।
Verse
दर्शनं वन्दनं लिङ्गप्रदक्षिणञ्च तर्पणम् ।
Verse
प्रदोषे ऋणमुक्तेः स्यात् भवतूलमहानिलः ।
Verse
भुक्तिर्मैथुनमभ्यङ्गं हरिदर्शनकीर्तने । व्यर्थालापं प्रदोषे तु वर्जयेद्वैदिको जनः ॥
Verse
ॐ ऋतं सत्यं परं ब्रह्म पुरुषं नृकेसरि विग्रहम् । कृष्णपिंगल-मूर्ध्वरेतं विरूपाक्षं शंकरं नीललोहितं उमापतिं पशुपतिं पिनाकिनं ह्यमितद्युति-मीशानः---॥
Verse
दिनमेतत् ततः पुण्यं भविष्यति महत्तरम् । शिवरात्रिरिति ख्याता तिथिरेषा मम प्रिया ॥
Verse
भोगावहं इदं लिङ्गं भुक्तिमुक्त्येक साधनम् ।
Verse
दर्शन-स्पर्शन-ध्यानाज्जन्तूनां जन्म मोचनम् ॥अनलाचल-संकाशं यदिदं लिङ्गमुत्थितम् । अरुणाचलमित्येव तदिदं ख्यातमेष्यति ॥
Verse
(तेजोलिङ्गम्।)।
Verse
विषया विनिवर्तन्ते निराहारस्य देहिनः।
Verse
माघकृष्णचतुर्दश्यां उपवासोऽतिदुर्लभः । तत्रापि दुर्लभं मन्ये रात्रौ जागरणं नृणाम् ॥
Verse
अतीव दुर्लभं तत्र शिवलिङ्गस्य दर्शनम् । सुदुर्लभतरं तत्र पूजनं परमेशितुः ॥
Verse
भव-कोटि-शतोपात्त-पुण्य-राशि-विपाकतः । लभ्यते वा पुनस्तत्र बिल्व-पत्रार्पणं विभोः ॥
Verse
वर्षाणामयुतं येन स्नातं गङ्गासरिज्जले । सकृद् बिल्वार्चनेनैव तत्फलं लभ्यते नरैः ॥
Verse
अत्रोपवासः केनापि कृतः क्रतुशतायते । रात्रौ जागरणं पुण्यं वर्ष-कोटि-तपोधिकम् ॥
Verse
एकेन बिल्व-पत्रेण शिव-लिङ्गार्चने कृते । त्रैलोक्ये तस्य पुण्यस्य को वा सादृश्यमृच्छति ॥
Verse
अहो बलवती माया येन शैवी महातिथिः । नोपास्यते जनै-र्मूढैः अतिमूर्खैरिव त्रयी ॥
Verse
उपवासो जागरणं सन्निधिः परमेशितुः । गोकर्णं शिवलोकस्य नृणां सोपान-पद्धतिः ॥
Verse
ऋषभारूढः।
Verse
"वृष सेचने" वर्षणात् सर्वकामानांवृषभः, धर्मरूपतया सर्वकामप्रदत्वात्, तमारूढः; वृषभवाहनः इत्यर्थः।
Verse
रथस्थं वामनं दृष्ट्वा पुनर्जन्म न विद्यते ।
Verse
आत्मानं रथिनं विद्धि शरीरं रथमेव च । बुद्धिं तु सारथिं विद्धि मनः प्रग्रहमेव च ॥
Verse
अङ्गुष्ठमात्रः पुरुषो मध्य आत्मनि तिष्ठति । ईशानं भूतभव्यस्य न ततो विजुगुप्सते ॥
Verse
निरपेक्षं मुनिं शान्तं निर्वैरं समदर्शनम् ।
Verse
अनुव्रजाम्यहं नित्यं पूययेत्यङ्घ्रिरेणुभिः कामेश-बद्ध-माङ्गल्यसूत्र-शोभित-कन्धरा।
Verse
अम्बिकानाथः अम्बिकाया नाथः पतिः।
Verse
इदं चार्थतः श्रुति-प्रसिद्धं नाम।
Verse
"नमो हिरण्य-बाहवे हिरण्य-वर्णाय हिरण्य-रूपाय हिरण्य-पतयेऽम्बिका-पतय उमा-पतये पशु-पतये नमोनमः। संसारार्णव-मग्नानां समुद्धरण हेतुः - संसारः जननमरणादिसमूहः स एवार्णवः, समुद्रः अपारत्वात्, तत्र मग्नानां सर्वदा दुःखनुभवितॄणां, दुःखनाशकरप्लवादिरहितानां, समुद्धरणे, तेषां दुःखनाशने हेतुः कारणं वेदान्तमहावाक्यजन्य- वृत्त्यारूढः सन् संसरपाशविच्छेदकरत्वात् ॥
Verse
"ज्ञात्वा देवं सर्वपाशापहानिरिति।" श्रुतिः ॥
Verse
विषयार्णवमग्नानां समुद्धरणसेतुः - विषयशब्देन विषयानुभवरूपसंसार उच्यते॥स एवार्णवः समुद्रः विषयार्णवः, तस्मिन् संसारसमुद्रे महति, अविद्याकामकर्मप्रभवदुःखोदके तीव्ररोगजरामृत्युमहाग्राहे अनादावनन्तेऽपारे निरालम्बे विषयेन्द्रियजनितसुखलवलक्षणविभ्रमे, पञ्चेन्द्रियोत्थतृण्मारुत-विक्षोभोत्थितानर्थशतमहोर्मिणि, महापातकाद्यनेकनिरयगते, (दुर्वारवारिचरगर्भे) हाहेत्यादि- कूजिताक्रोशनोद्भूतमहार्णवे मग्नानं समुद्धरणे सम्यगुद्धरणे सेतुरिव सेतुः ।
Verse
"त्रिरुन्नतं स्थाप्य समं शरीरं हृदीन्द्रियाणि मनसा सन्निवेश्य । ब्रह्मोडुपेन प्रतरेव विद्वान् स्रोतांसि सर्वाणि भयावहानि॥" इति श्रुतिः ॥
Verse
संसार-सागर-निमज्जन-मुह्यमानं दीनं विलोकय विभो करुणानिधे माम् । प्रह्लाद-खेद-परिहार-परावतार- लक्ष्मीनृसिंह मम देहि करावलम्बम्॥
Verse
प्रह्लाद-खेद-परिहार-परावतार।
Verse
तेषामहं समुद्धर्ता मृत्युसंसारसागरात् । भवामि न चिरात्पार्थ मय्यावेशिअतचेतसाम् ॥
Verse
सर्वभूतानि कौन्तेय प्रकृतिं यान्ति मामिकाम् । कल्पक्षये पुनस्तानि कल्पादौ विसृजाम्यहम् ॥
Verse
कपालीति -कपालं ब्रह्मकपालं अस्यास्तीति कपाली।
Verse
एतेन अनेक-ब्रह्मात्यय-दर्शित्व-लक्षणं सनातनत्वमुक्तं भवति ।
Verse
सदा मोहाटव्यां चरति युवतीनां कुच-गिरौ नटत्याशाशाखावटति ज़्हटिति स्वैरमभितः । कपालिन्! भिक्षो! मे हृदय-कपिमत्यन्त-चपलं दृढं बध्वा शिव भवदधीनं कुरु विभो! ॥
Verse
मायां तु प्रकृतिं विद्यान्मायिनं तु महेश्वरम् ।
Verse
शिवो मङ्गलरूपः।
Verse
निर्माष्ठ-निखिल-दुःखानुषङ्ग-परमानन्द-रूप इत्यर्थः ।
Verse
सर्वमङ्गलमाङ्गल्ये शिवे सर्वार्थसाधिके । शरण्ये त्र्यम्बिके गौरि नारायणि नमोऽस्तु ते ॥
Verse
यः शिवो नमरूपाभ्यां या देवी सर्वमङ्गला । तयोः संस्मरणात् पुंसां सर्वतो जय मङ्गलम् ॥
Verse
उमासहायं परमेश्वरं प्रभुं त्रिलोचनं नीलकण्ठं प्रशान्तम् । ध्यात्वा मुनिर्गच्छति भूतयोनिं समस्तसाक्षिं तमसः परस्तात् ॥
Verse
कल्पकाम्बा-कपालीशौ भक्तरक्षण-तत्परौ । तयोः अनुग्रहो यत्र वर्तते तत्र मङ्गलम् ॥
Verse
॥श्री कपालीश्वराष्टकम् ॥
Verse
कपालि-नामधेयकं कलापि-पुर्यधीश्वरं कलाधरार्ध-शेखरं करीन्द्र-चर्म-भूषितम् ।
Verse
कृपा-रसार्द्र-लोचनं कुलाचल-प्रपूजित,। म्व् कुबेर-मित्रमूर्जितं गणेश-पूजितं भजे ॥१॥
Verse
भजे भुजङ्ग-भूषणं भवाब्धि-भीति-भञ्जनं भवोद्भवं भयापहं सुखप्रदं सुरेश्वरम् । रवीन्दु-वह्नि-लोचनं रमा-धवार्चितं वरं ह्युमा-धवं सुमाधवी-सुभूषिअतं महागुरुम् ॥२॥
Verse
गुरुं गिरीन्द्र-धन्विनं गुह-प्रियं गुहाशयं गिरि-प्रियं नग-प्रिया-समन्वितं वर-प्रदम् । सुर-प्रियं रवि-प्रभं सुरेन्द्र-पूजितं प्रभुं नरेन्द्र-पीठ-दायकं नमाम्यहं महेश्वरम् ॥३॥
Verse
महेश्वरं सुरेश्वरं धनेश्वर-प्रियेश्वर।
Verse
म् वनेश्वरं विशुद्ध-चित्त वासिनं परात्परम् । प्रमत्तवेष-धारिणं प्रकृष्ट-चित्स्वरूपिणं विरुद्ध-कर्म-कारिणं सुशिक्षकं स्मराम्यहम् ॥४॥
Verse
स्मराम्यहं स्मरान्तकं मुरारि-सेविताङ्घ्रिकं परारि-नाशन-क्षमं पुरारि रूपिणं शुभम् । स्पुअरत्-सहस्र-भानु-तुल्य तेजसं महौजसं सु-चण्डिकेश पूजितं मृडं समाश्रये सदा ॥५॥
Verse
सदा प्रहृष्ट-रूपिणं सतां प्रहर्ष-वर्षिणं भिदा विनाश-कारण प्रमाणगोचरं परम् । मुदा प्रवृत्त-नर्तनं जगत्पवित्र-कीर्तनं निदानमेकमद्भुतं नितान्तमाश्रयेह्यहम् ॥६॥
Verse
अहं-ममादि दूषणं महेन्द्र-रत्न-भूषणं महा-वृषेन्द्र-वाहनं ह्यहीन्द्र-भूषणान्वितम् । वृषाकपि-स्वरूपिणं मृषा-पदार्थ-धारिणं मृकण्डुसूनु संस्तुतं ह्यभीतिदं नमामि तम् ॥७॥
Verse
नमामि तं महामतिं नतेष्टदान-चक्षणं नतार्ति-भञ्जनोद्यतं नगेन्द्र-वासिनं विभुम् । अगेन्द्रजा समन्वितं मृगेन्द्र विक्रमान्वितं खगेन्द्र-वाहन-प्रियं सुखस्वरूपमव्ययम् ॥८॥
Verse
सुकल्पकाम्बिका-पति-प्रियंत्विदं मनोहरं सुगूडकाञ्चिरामकृष्ण योगिशिष्य संस्तुतम् । महाप्रदोष पुण्यकाल कीर्तनात्शुभप्रदं भजामहे सदामुदा कपालि मङ्गळाष्टकम् ॥९॥
Verse
कपालि तुष्टिदायकं महापदि प्रपालकं त्वभीष्ट-सिद्धि-दायकं विशिष्ट-मङ्गलाष्टकम् । पठेत्सुभक्तितः कपालि सन्निधौ क्रमात् अवाप्य सर्वमायुरादि मोदते सुमङ्गलम् ॥१०॥
Verse
इति गूडलूर् श्रीरामकृष्णानन्द यतीन्द्र शिष्य श्री रामचन्द्रेण विरचितं ॥
Verse
श्री कपालीश्वराष्टकं सम्पूर्णम् ॥
