veda sUktAni
trisuparṇamantrāḥ
त्रिसुपर्णमन्त्राः
Verse
(तैत्तिरीयारण्यकम्/प्रपाठकः – १०/अनुवाकः – ३८–४०) ॐ। स॒ह ना॑ववतु। स॒ह नौ॑ भुनक्तु। स॒ह वी॒र्यं॑ करवावहै। ते॒ज॒स्विना॒ऽवधी॑तमस्तु॒ मा वि॑द्विषा॒वहै᳚॥ ॐ शान्तिः॒ शान्तिः॒ शान्तिः॑॥
Verse
ब्रह्म॑मेतु॒ माम्। मधु॑मेतु॒ माम्। ब्रह्म॑मे॒व मधु॑मेतु॒ माम्। यास्ते॑ सोम प्र॒जाव॒थ्सोभि॒ सो अ॒हम्। दुःस्व॑प्न॒हन्दु॑रुष्षह। यास्ते॑ सोम प्रा॒णाꣴस्तां जु॑होमि। त्रिसु॑पर्ण॒मया॑चितं ब्राह्म॒णाय॑ दद्यात्। ब्र॒ह्म॒ह॒त्यां वा ए॒ते घ्न॑न्ति। ये ब्रा᳚ह्म॒णास्त्रिसु॑पर्णं॒ पठ॑न्ति। ते सोमं॒ प्राप्नु॑वन्ति। आ॒स॒ह॒स्रात्प॒ङ्क्तिं पुन॑न्ति। ओम्॥५५॥
Verse
ब्रह्म॑ मे॒धया᳚। मधु॑ मे॒धया᳚। ब्रह्म॑मे॒व मधु॑ मे॒धया᳚। अ॒द्या नो॑ देव सवितः प्र॒जाव॑थ्सावीः॒ सौभ॑गम्। परा॑ दुः॒ष्वप्नि॑यꣳ सुव। विश्वा॑नि देव सवितर्दुरि॒तानि॒ परा॑ सुव। यद्भ॒द्रं तन्म॒ आ सु॑व। मधु॒ वाता॑ ऋताय॒ते मधु॑ क्षरन्ति॒ सिन्ध॑वः। माध्वी᳚र्नः स॒न्त्वोष॑धीः। मधु॒ नक्त॑मु॒तोषसि॒ मधु॑म॒त्पार्थि॑व॒ꣳ॒ रजः॑। मधु॒ द्यौर॑स्तु नः पि॒ता। मधु॑मान्नो॒ वन॒स्पति॒र्मधु॑माꣳ अस्तु॒ सूर्यः॑। माध्वी॒र्गावो॑ भवन्तु नः। य इ॒मं त्रिसु॑पर्ण॒मया॑चितं ब्राह्म॒णाय॑ दद्यात्। भ्रू॒ण॒ह॒त्यां वा ए॒ते घ्न॑न्ति। ये ब्रा᳚ह्म॒णास्त्रिसु॑पर्णं॒ पठ॑न्ति। ते सोमं॒ प्राप्नु॑वन्ति। आ॒स॒ह॒स्रात्प॒ङ्क्तिं पुन॑न्ति। ओम्॥५६॥
Verse
ब्रह्म॑ मे॒धवा᳚। मधु॑ मे॒धवा᳚। ब्रह्म॑मे॒व मधु॑ मे॒धवा᳚। ब्र॒ह्मा दे॒वानां᳚ पद॒वीः क॑वी॒नामृषि॒र्विप्रा॑णां महि॒षो मृ॒गाणा᳚म्। श्ये॒नो गृध्रा॑णा॒ꣴ॒ स्वधि॑ति॒र्वना॑ना॒ꣳ॒ सोमः॑ प॒वित्र॒मत्ये॑ति॒ रेभन्॑। ह॒ꣳ॒सः शु॑चि॒षद्वसु॑रन्तरिक्ष॒सद्धोता॑ वेदि॒षदति॑थिर्दुरोण॒सत्। नृ॒षद्व॑र॒सदृ॑त॒सद्व्यो॑म॒सद॒ब्जा गो॒जा ऋ॑त॒जा अ॑द्रि॒जा ऋ॒तं बृ॒हत्। ऋ॒चे त्वा॑ रु॒चे त्वा॒ समिथ्स्र॑वन्ति स॒रितो॒ न धेनाः᳚। अ॒न्तर्हृ॒दा मन॑सा पू॒यमा॑नाः। घृ॒तस्य॒ धारा॑ अ॒भिचा॑कशीमि। हि॒र॒ण्ययो॑ वेत॒सो मध्य॑ आसाम्। तस्मि ᳚ न्थ्सु प॒र्णो म॑धु॒कृत्कु॑ला॒यी भज॑न्नास्ते॒ मधु॑दे॒वता᳚भ्यः। तस्या॑ऽऽसते॒ हर॑यः स॒प्ततीरे᳚ स्व॒धां दुहा॑ना अ॒मृत॑स्य॒ धारा᳚म्। य इ॒दं त्रिसु॑पर्ण॒मया॑चितं ब्राह्म॒णाय॑ दद्यात्। वी॒र॒ह॒त्यां वा ए॒ते घ्न॑न्ति। ये ब्रा᳚ह्म॒णास्त्रिसु॑पर्णं॒ पठ॑न्ति। ते सोमं॒ प्राप्नु॑वन्ति। आ॒स॒ह॒स्रात्प॒ङ्क्तिं पुन॑न्ति। ओम्॥५७॥
Verse
ॐ। स॒ह ना॑ववतु। स॒ह नौ॑ भुनक्तु। स॒ह वी॒र्यं॑ करवावहै। ते॒ज॒स्विना॒ऽवधी॑तमस्तु॒ मा वि॑द्विषा॒वहै᳚॥ ॐ शान्तिः॒ शान्तिः॒ शान्तिः॑॥
