veda sUktAni
jayādi-homaḥ
जयादि-होमः
Verse
एतत्कर्मसमृद्ध्यर्थं जयादिहोमं करिष्ये॥
Verse
१. चि॒त्तं च॒ स्वाहा᳚। चित्तायेदं न मम॥
Verse
२. चित्ति॑श्च॒ स्वाहा᳚। चित्त्या इदं न मम॥
Verse
३. आकू॑तं च॒ स्वाहा᳚। आकूतायेदं न मम॥
Verse
४. आकू॑तिश्च॒ स्वाहा᳚। आकूत्या इदं न मम॥
Verse
५. विज्ञा॑तं च॒ स्वाहा᳚। विज्ञातायेदं न मम॥
Verse
६. वि॒ज्ञानं॑ च॒ स्वाहा᳚। विज्ञानायेदं न मम॥
Verse
७. मन॑श्च॒ स्वाहा᳚। मनस इदं न मम॥
Verse
८. शक्व॑रीश्च॒ स्वाहा᳚। शक्वरीभ्य इदं न मम॥
Verse
९. दर्श॑श्च॒ स्वाहा᳚। दर्शायेदं न मम॥
Verse
१०. पू॒र्णमा॑सश्च॒ स्वाहा᳚। पूर्णमासायेदं न मम॥
Verse
११. बृ॒हच्च॒ स्वाहा᳚। बृहत इदं न मम॥
Verse
१२. र॒थ॒न्त॒रं च॒ स्वाहा᳚। रथन्तरायेदं न मम॥
Verse
१३. प्र॒जाप॑ति॒र्जया॒निन्द्रा॑य॒ वृष्णे॒ प्राय॑च्छदु॒ग्रः पृ॑त॒नाज्ये॑षु॒ तस्मै॒ विशः॒ सम॑नमन्त॒ सर्वाः॒ स उ॒ग्रः स हि॒ हव्यो॑ ब॒भूव॒ स्वाहा᳚। प्रजापतय इदं न मम॥
Verse
१. अ॒ग्निर्भू॒ताना॒मधि॑पतिः॒ स मा॑ऽवत्व॒स्मिन् ब्रह्म॑न्न॒स्मिन् क्ष॒त्रे᳚ऽस्यामा॒शिष्य॒स्यां पु॑रो॒धाया॑म॒स्मिन् कर्म॑न्न॒स्यां दे॒वहू᳚त्या॒ꣴ॒ स्वाहा᳚। अग्नय इदं न मम॥
Verse
२. इन्द्रो᳚ ज्ये॒ष्ठाना॒मधि॑पतिः॒ स मा॑ऽवत्व॒स्मिन् ब्रह्म॑न्न॒स्मिन् क्ष॒त्रे᳚ऽस्यामा॒शिष्य॒स्यां पु॑रो॒धाया॑म॒स्मिन् कर्म॑न्न॒स्यां दे॒वहू᳚त्या॒ꣴ॒ स्वाहा᳚। इन्द्रायेदं न मम॥
Verse
३. य॒मः पृ॑थि॒व्या अधि॑पतिः॒ स मा॑ऽवत्व॒स्मिन् ब्रह्म॑न्न॒स्मिन् क्ष॒त्रे᳚ऽस्यामा॒शिष्य॒स्यां पु॑रो॒धाया॑म॒स्मिन् कर्म॑न्न॒स्यां दे॒वहू᳚त्या॒ꣴ॒ स्वाहा᳚। यमायेदं न मम॥
Verse
४. वा॒युर॒न्तरि॑क्ष॒स्याधि॑पतिः॒ स मा॑ऽवत्व॒स्मिन् ब्रह्म॑न्न॒स्मिन् क्ष॒त्रे᳚ऽस्यामा॒शिष्य॒स्यां पु॑रो॒धाया॑म॒स्मिन् कर्म॑न्न॒स्यां दे॒वहू᳚त्या॒ꣴ॒ स्वाहा᳚। वायव इदं न मम॥
Verse
५. सूर्यो॑ दि॒वोऽधि॑पतिः॒ स मा॑ऽवत्व॒स्मिन् ब्रह्म॑न्न॒स्मिन् क्ष॒त्रे᳚ऽस्यामा॒शिष्य॒स्यां पु॑रो॒धाया॑म॒स्मिन् कर्म॑न्न॒स्यां दे॒वहू᳚त्या॒ꣴ॒ स्वाहा᳚। सूर्यायेदं न मम॥
Verse
६. च॒न्द्रमा॒ नक्ष॑त्राणा॒मधि॑पतिः॒ स मा॑ऽवत्व॒स्मिन् ब्रह्म॑न्न॒स्मिन् क्ष॒त्रे᳚ऽस्यामा॒शिष्य॒स्यां पु॑रो॒धाया॑म॒स्मिन् कर्म॑न्न॒स्यां दे॒वहू᳚त्या॒ꣴ॒ स्वाहा᳚। चन्द्रमस इदं न मम॥
Verse
७. बृह॒स्पति॒र्ब्रह्म॒णोऽधि॑पतिः॒ स मा॑ऽवत्व॒स्मिन् ब्रह्म॑न्न॒स्मिन् क्ष॒त्रे᳚ऽस्यामा॒शिष्य॒स्यां पु॑रो॒धाया॑म॒स्मिन् कर्म॑न्न॒स्यां दे॒वहू᳚त्या॒ꣴ॒ स्वाहा᳚। बृहस्पतय इदं न मम॥
Verse
८. मि॒त्रः स॒त्याना॒मधि॑पतिः॒ स मा॑ऽवत्व॒स्मिन् ब्रह्म॑न्न॒स्मिन् क्ष॒त्रे᳚ऽस्यामा॒शिष्य॒स्यां पु॑रो॒धाया॑म॒स्मिन् कर्म॑न्न॒स्यां दे॒वहू᳚त्या॒ꣴ॒ स्वाहा᳚। मित्रायेदं न मम॥
Verse
९. वरु॑णो॒ऽपामधि॑पतिः॒ स मा॑ऽवत्व॒स्मिन् ब्रह्म॑न्न॒स्मिन् क्ष॒त्रे᳚ऽस्यामा॒शिष्य॒स्यां पु॑रो॒धाया॑म॒स्मिन् कर्म॑न्न॒स्यां दे॒वहू᳚त्या॒ꣴ॒ स्वाहा᳚। वरुणायेदं न मम॥
Verse
१०. स॒मु॒द्रः स्रो॒त्याना॒मधि॑पतिः॒ स मा॑ऽवत्व॒स्मिन् ब्रह्म॑न्न॒स्मिन् क्ष॒त्रे᳚ऽस्यामा॒शिष्य॒स्यां पु॑रो॒धाया॑म॒स्मिन् कर्म॑न्न॒स्यां दे॒वहू᳚त्या॒ꣴ॒ स्वाहा᳚। समुद्रायेदं न मम॥
Verse
११. अन्न॒ꣳ॒ साम्रा᳚ज्याना॒मधि॑पति॒ तन्मा॑वत्व॒स्मिन् ब्रह्म॑न्न॒स्मिन् क्ष॒त्रे᳚ऽस्यामा॒शिष्य॒स्यां पु॑रो॒धाया॑म॒स्मिन् कर्म॑न्न॒स्यां दे॒वहू᳚त्या॒ꣴ॒ स्वाहा᳚। अन्नायेदं न मम॥
Verse
१२. सोम॒ ओष॑धीना॒मधि॑पतिः॒ स मा॑ऽवत्व॒स्मिन् ब्रह्म॑न्न॒स्मिन् क्ष॒त्रे᳚ऽस्यामा॒शिष्य॒स्यां पु॑रो॒धाया॑म॒स्मिन् कर्म॑न्न॒स्यां दे॒वहू᳚त्या॒ꣴ॒ स्वाहा᳚। सोमायेदं न मम॥
Verse
१३. स॒वि॒ता प्र॑स॒वाना॒मधि॑पतिः॒ स मा॑ऽवत्व॒स्मिन् ब्रह्म॑न्न॒स्मिन् क्ष॒त्रे᳚ऽस्यामा॒शिष्य॒स्यां पु॑रो॒धाया॑म॒स्मिन् कर्म॑न्न॒स्यां दे॒वहू᳚त्या॒ꣴ॒ स्वाहा᳚। सवित्र इदं न मम॥
Verse
१४. रु॒द्रः प॑शू॒नामधि॑पतिः॒ स मा॑ऽवत्व॒स्मिन् ब्रह्म॑न्न॒स्मिन् क्ष॒त्रे᳚ऽस्यामा॒शिष्य॒स्यां पु॑रो॒धाया॑म॒स्मिन् कर्म॑न्न॒स्यां दे॒वहू᳚त्या॒ꣴ॒ स्वाहा᳚। रुद्रायेदं न मम॥
Verse
१५. त्वष्टा॑ रू॒पाणा॒मधि॑पतिः॒ स मा॑ऽवत्व॒स्मिन् ब्रह्म॑न्न॒स्मिन् क्ष॒त्रे᳚ऽस्यामा॒शिष्य॒स्यां पु॑रो॒धाया॑म॒स्मिन् कर्म॑न्न॒स्यां दे॒वहू᳚त्या॒ꣴ॒ स्वाहा᳚। त्वष्ट्र इदं न मम॥
Verse
१६. विष्णुः॒ पर्व॑ताना॒मधि॑पतिः॒ स मा॑ऽवत्व॒स्मिन् ब्रह्म॑न्न॒स्मिन् क्ष॒त्रे᳚ऽस्यामा॒शिष्य॒स्यां पु॑रो॒धाया॑म॒स्मिन् कर्म॑न्न॒स्यां दे॒वहू᳚त्या॒ꣴ॒ स्वाहा᳚। विष्णव इदं न मम॥
Verse
१७. म॒रुतो॑ ग॒णाना॒मधि॑पतय॒स्ते मा॑ऽवन्त्व॒स्मिन् ब्रह्म॑न्न॒स्मिन् क्ष॒त्रे᳚ऽस्यामा॒शिष्य॒स्यां पु॑रो॒धाया॑म॒स्मिन् कर्म॑न्न॒स्यां दे॒वहू᳚त्या॒ꣴ॒ स्वाहा᳚। मरुद्भ्य इदं न मम॥
Verse
१८. पित॑रः पितामहाः परेऽवरे॒ तता॑॑स्ततामहा इ॒ह मा॑ऽवत। अ॒स्मिन् ब्रह्म॑न्न॒स्मिन् क्ष॒त्रे᳚ऽस्यामा॒शिष्य॒स्यां पु॑रो॒धाया॑म॒स्मिन् कर्म॑न्न॒स्यां दे॒वहू᳚त्या॒ꣴ॒ स्वाहा᳚। पितृभ्य इदं न मम॥
Verse
१. ऋ॒ता॒षाडृ॒तधा॑मा॒ ऽग्नि र्ग॑न्ध॒र्वस्त स्यौष॑धयो ऽफ्स॒रस॒ ऊर्जो॒ नाम॒ स इ॒दं ब्रह्म॑ क्ष॒त्रं पा॑तु॒ ता इ॒दं ब्रह्म॑ क्ष॒त्रं पा᳚न्तु॒ तस्मै॒ स्वाहा᳚। अग्नये गन्धर्वायेदं न मम॥ ताभ्यः॒ स्वाहा᳚। ओषधीभ्य अफ्सरोभ्य इदं न मम॥
Verse
२. स॒ꣳ॒हि॒तो वि॒श्वसा॑मा॒ सूर्यो॑ गन्ध॒र्वस्तस्य॒ मरी॑चयो ऽफ्स॒रस॑ आ॒युवो॒ नाम॒ स इ॒दं ब्रह्म॑ क्ष॒त्रं पा॑तु॒ ता इ॒दं ब्रह्म॑ क्ष॒त्रं पा᳚न्तु॒ तस्मै॒ स्वाहा᳚। सूर्याय गन्धर्वायेदं न मम॥ ताभ्यः॒ स्वाहा᳚। मरीचिभ्योऽफ्सरोभ्य इदं न मम॥
Verse
३. सु॒षु॒म्नः सूर्य॑रश्मि श्च॒न्द्रमा॑ गन्ध॒र्वस्तस्य॒ नक्ष॑त्राण्य फ्स॒रसो॑ बे॒कुर॑यो॒ नाम॒ स इ॒दं ब्रह्म॑ क्ष॒त्रं पा॑तु॒ ता इ॒दं ब्रह्म॑ क्ष॒त्रं पा᳚न्तु॒ तस्मै॒ स्वाहा᳚। चन्द्रमसे गन्धर्वायेदं न मम॥ ताभ्यः॒ स्वाहा᳚। नक्षत्रेभ्योऽफ्सरोभ्य इदं न मम॥
Verse
४. भु॒ज्युः सु॑प॒र्णो य॒ज्ञो ग॑न्ध॒र्वस्तस्य॒ दक्षि॑णा अफ्स॒रसः॑ स्त॒वा नाम॒ स इ॒दं ब्रह्म॑ क्ष॒त्रं पा॑तु॒ ता इ॒दं ब्रह्म॑ क्ष॒त्रं पा᳚न्तु॒ तस्मै॒ स्वाहा᳚। यज्ञाय गन्धर्वायेदं न मम॥ ताभ्यः॒ स्वाहा᳚। दक्षिणाभ्योऽफ्सरोभ्य इदं न मम॥
Verse
५. प्र॒जाप॑तिर्वि॒श्वक॑र्मा॒ मनो॑ गन्ध॒र्वस्तस्य॑ र्ख्सा॒मान्य॑ फ्स॒रसो॒ वह्न॑यो॒ नाम॒ स इ॒दं ब्रह्म॑ क्ष॒त्रं पा॑तु॒ ता इ॒दं ब्रह्म॑ क्ष॒त्रं पा᳚न्तु॒ तस्मै॒ स्वाहा᳚। मनसे गन्धर्वायेदं न मम॥ ताभ्यः॒ स्वाहा᳚। ऋख्सामेभ्योऽफ्सरोभ्य इदं न मम॥
Verse
६. इ॒षि॒रो वि॒श्वव्य॑चा॒ वातो॑ गन्ध॒र्वस्तस्या ऽऽपो᳚ ऽफ्स॒रसो॑ मु॒दा नाम॒ स इ॒दं ब्रह्म॑ क्ष॒त्रं पा॑तु॒ ता इ॒दं ब्रह्म॑ क्ष॒त्रं पा᳚न्तु॒ तस्मै॒ स्वाहा᳚। वाताय गन्धर्वायेदं न मम॥ ताभ्यः॒ स्वाहा᳚। अद्भ्योऽफ्सरोभ्य इदं न मम॥
Verse
७. भुव॑नस्य पते॒ यस्य॑ त उ॒परि॑ गृ॒हा इ॒ह च॑। स नो॑ रा॒स्वाज्या॑निꣳ रा॒यस्पोषꣳ॑ सु॒वीर्यꣳ॑ संवत्स॒रीणाꣴ॑ स्व॒स्तिꣴ स्वाहा᳚॥
Verse
भुवनस्य पत्य इदं न मम॥
Verse
८. प॒र॒मे॒ष्ठ्यधि॑पति र्मृ॒त्यु र्ग॑न्ध॒र्वस्तस्य॒ विश्व॑म फ्स॒रसो॒ भुवो॒ नाम॒ स इ॒दं ब्रह्म॑ क्ष॒त्रं पा॑तु॒ ता इ॒दं ब्रह्म॑ क्ष॒त्रं पा᳚न्तु॒ तस्मै॒ स्वाहा᳚। मृत्यवे गन्धर्वायेदं न मम॥ ताभ्यः॒ स्वाहा᳚। विश्वस्मा अफ्सरोभ्य इदं न मम॥
Verse
९. सु॒क्षि॒तिः सुभू॑तिर्भद्र॒कृत् सुव॑र्वान् प॒र्जन्यो॑ गन्ध॒र्वस्तस्य॑ वि॒द्युतो॑॑ ऽफ्स॒रसो॒ रुचो॒ नाम॒ स इ॒दं ब्रह्म॑ क्ष॒त्रं पा॑तु॒ ता इ॒दं ब्रह्म॑ क्ष॒त्रं पा᳚न्तु॒ तस्मै॒ स्वाहा᳚। पर्जन्याय गन्धर्वाय इदं न मम॥ ताभ्यः॒ स्वाहा᳚। विद्युद्भ्योऽफ्सरोभ्य इदं न मम॥
Verse
१०. दू॒रे हे॑तिरमृड॒यो मृ॒त्यु र्ग॑न्ध॒र्वस्तस्य॑ प्र॒जा अ॑फ्स॒रसो॑ भी॒रुवो॒ नाम॒ स इ॒दं ब्रह्म॑ क्ष॒त्रं पा॑तु॒ ता इ॒दं ब्रह्म॑ क्ष॒त्रं पा᳚न्तु॒ तस्मै॒ स्वाहा᳚। मृत्यवे गन्धर्वायेदं न मम॥ ताभ्यः॒ स्वाहा᳚। प्रजाभ्योऽफ्सरोभ्य इदं न मम॥
Verse
११. चारुः॑ कृपणका॒शी कामो॑ गन्ध॒र्वस्तस्या॒ ऽऽधयो᳚ ऽफ्स॒रसः॑ शो॒चय॑न्ती॒र् नाम॒ स इ॒दं ब्रह्म॑ क्ष॒त्रं पा॑तु॒ ता इ॒दं ब्रह्म॑ क्ष॒त्रं पा᳚न्तु॒ तस्मै॒ स्वाहा᳚। कामाय गन्धर्वायेदं न मम॥ ताभ्यः॒ स्वाहा᳚। आधिभ्योऽफ्सरोभ्य इदं न मम॥
Verse
१२. स नो॑ भुवनस्य पते॒ यस्य॑ त उ॒परि॑ गृ॒हा इ॒ह च॑। उ॒रु ब्रह्म॑णे॒ऽस्मै क्ष॒त्राय॒ महि॒ शर्म॑ यच्छ॒ स्वाहा᳚॥ भुवनस्य पत्य ब्रह्मण इदं न मम॥
Verse
प्रजा॑पते॒ न त्वदे॒तान्य॒न्यो विश्वा॑ जा॒तानि॒ परि॒ ता ब॑भू॒व।
Verse
यत्का॑मास्ते जुहु॒मस्तन्नो॑ अस्तु व॒यꣴ स्या॑म॒ पत॑यो रयी॒णाꣴ स्वाहा᳚।
Verse
प्रजापतय इदं न मम॥
Verse
भूः स्वाहा᳚। अग्नय इदं न मम॥
Verse
भुवः॒ स्वाहा᳚। वायव इदं न मम॥
Verse
सुवः॒ स्वाहा᳚। सूर्याय इदं न मम॥
Verse
यद॑स्य॒ कर्म॒णोऽत्यरी॑रिचं॒ यद्वा॒ न्यू॑नमि॒हाक॑रम्।
Verse
अ॒ग्नि॒ष्टत् स्वि॑ष्ट॒कृद् वि॒द्वान् सर्व॒ꣴ॒ स्वि॑ष्ट॒ꣳ॒ सुहु॑तं करोतु॒ स्वाहा᳚।
Verse
अग्नये स्विष्टकृत इदं न मम॥
