veda sUktAni
dūrvāsūktam (mahānārāyaṇopaniṣat)`
दूर्वासूक्तम् (महानारायणोपनिषत्)`
Verse
सहस्रपरमा देवी शतमूला शताङ्कुरा ॥
Verse
सर्वँ हरतु मे पापं दूर्वा दुस्स्वप्ननाशनी । काण्डात्काण्डात् प्ररोहन्ती परुषः परुषः परि॥
Verse
एवानो दूर्वे प्रतनु सहस्रेण शतेन च ॥
Verse
या शतेन प्रतनोषि सहस्रेण विरोहसि ॥
Verse
तस्यास्ते देवीष्टके विधेमं हविषा वयम् ॥
Verse
अश्वक्रान्ते रथक्रान्ते विष्णुक्रान्ते वसुन्धरा ।शिरसा धारयिष्यामि रक्षस्व मां पदेपदे ॥
