Fetching Data .

Loading verse structure and chapter context.

GyanDweepBeta
HomeLearnLibrary
eGurukulsDiscoverTemplesPanchanga
Sign Up
Sign Up

veda sUktAni

devīsūktam

देवीसूक्तम्

Verse

ऋग्वेद-संहिताः ( मण्डलम् – १० अष्टकम् – ८ सूक्तम्-१२५ ) ॐ॥

Verse

अहं रुद्रेभिर्वसुभिश्चराम्यहमादित्यैरुत विश्वदेवैः । अहं मित्रावरुणोभा बिभर्म्यहमिन्द्राग्नी अहमश्विनोभा ॥१॥

Verse

अहं सोममाहनसं बिभर्म्यहं त्वष्टारमुत पूषणं भगम् । अहं दधामि द्रविणं हविष्मते सुप्राव्ये ए यजमानाय सुन्वते ॥२॥

Verse

अहं राष्ट्री संगमनी वसूनां चिकितुषी प्रथमा यज्ञियानाम् । तां मा देवा व्यदधुः पुरुत्रा भूरिस्थात्रां भूर्यां वेशयन्तीम् ॥३॥

Verse

मया सोऽन्नमत्ति यो विपश्यति यः प्राणिति य ईं शृणोत्युक्तम् । अमन्तवोमान्त उपक्षियन्ति श्रुधिश्रुत श्रद्धिवंते वदामि ॥४॥

Verse

अहमेव स्वयमिदं वदामि जुष्टं देवेभिरुत मानुषेभिः । यं कामये तं तमुग्रं कृणोमि तं तं ब्रह्माणं तमृषिं तं सुमेधाम् ॥५॥

Verse

अहं रुद्राय धनुरातनोमि ब्रह्मद्विषे शरवेहन्त वा उ । अहं जनाय समदं कृणोम्यहं द्यावापृथिवी आविवेश ॥६॥

Verse

अहं सुवे पितरमस्य मूर्धन् मम योनिरप्स्व(अ)न्तः समुद्रे । ततो वितिष्ठे भुवनानु विश्वोतामूं द्यां वर्ष्मणोपस्पृशामि ॥७॥

Verse

अहमेव वातऽइव प्रवाम्यारभमाणा भुवनानि विश्वा । परो दिवा पर एना पृथिव्यै तावती महिना संबभूव ॥८॥

Verse

ॐ शान्तिः शान्तिः शान्तिः ॥

medhāsūktam
bhāgyasūktam

सा विद्या या विमुक्तये

Built with Sankalpa at Gyaandweep

Gyaandweep

© 2022-2026 Granthajyoti Pvt Ltd.

Privacy & Terms