stuti
janakakṛta-rāmastutiḥ
जनककृत-रामस्तुतिः
Verse
त्वत्पादाम्बुधरो ब्रह्मा सृष्टिचक्रप्रवर्तकः । बलिस्त्वत्पादसलिलं धृत्वाऽभूद्दिविजाधिपः ॥७३॥
Verse
त्वत्पादपांसुसंस्पर्शादहल्या भर्तृशापतः । सद्य एव विनिर्मुक्ता कोऽन्यस्त्वत्तोऽधिरक्षिता ॥७४॥
Verse
यत् पादपङ्कजपरागसुरागयोगि- वृन्दैर्जितं भवभयं जितकालचक्रैः । यन्नामकीर्तनपरा जितदुःखशोका देवास्तमेव शरणं सततं प्रपद्ये ॥७५॥
Verse
॥इति श्रीमदध्यात्मरामायणे उमामहेश्वरसंवादे बालकाण्डे षष्ठे सर्गे जनककृत-रामस्तुतिः सम्पूर्णा॥
