Preparing Your Space .

Settling the page into your current context.

GyanDweepBeta
HomeLearnLibrary
eGurukulsDiscoverTemplesPanchanga
Sign Up
Sign Up

stotrasangraha

sūryaprātaḥsmaraṇastotram

सूर्यप्रातःस्मरणस्तोत्रम्

Verse

प्रातः स्मरामि खलु तत्सवितुर्वरेण्यं रूपं हि मण्डलमृचोऽथ तनुर्यजूंषि । सामानि यस्य किरणाः प्रभवादिहेतुं ब्रह्माहरात्मकमलक्ष्यमचिन्त्यरूपम् ॥१॥

Verse

प्रातर्नमामि तरणिं तनुवाङ्मनोभिर्- ब्रह्मेन्द्रपूर्वकसुरैर्नुतमर्चितं च । वृष्टिप्रमोचनविनिग्रहहेतुभूतं त्रैलोक्यपालनपरं त्रिगुणात्मकं च ॥२॥

Verse

प्रातर्भजामि सवितारमनन्तशक्तिं पापौघशत्रुभयरोगहरं परं च । तं सर्वलोककलनात्मककालमूर्तिं गोकण्ठबन्धनविमोचनमादिदेवम् ॥३॥

Verse

श्लोकत्रयमिदं भानोः प्रातः प्रातः पठेत् तु यः । स सर्वव्याधिनिर्मुक्तः परं सुखमवाप्नुयात् ॥

Verse

॥इति श्री-सूर्यप्रातःस्मरणस्तोत्रं सम्पूर्णम्॥

candragrahaṇa-pīḍāparihāraślokaḥ
ādityahṛdayam

सा विद्या या विमुक्तये

Built with Sankalpa at Gyaandweep

Gyaandweep

© 2022-2026 Granthajyoti Pvt Ltd.

Privacy & Terms