Preparing Your Space .

Settling the page into your current context.

GyanDweepBeta
HomeLearnLibrary
eGurukulsDiscoverTemplesPanchanga
Sign Up
Sign Up

stotrasangraha

sūryakavacam

सूर्यकवचम्

Verse

शृणुष्व मुनिशार्दूल सूर्यस्य कवचं शुभम् । शरीरारोग्यदं दिव्यं सर्वसौभाग्यदायकम् ॥१॥

Verse

देदीप्यमानमुकुटं स्फुरन्मकरकुण्डलम् । ध्यात्वा सहस्रकिरणं स्तोत्रमेतदुदीरयेत् ॥२॥

Verse

शिरो मे भास्करः पातु ललाटं मेऽमितद्युतिः । नेत्रे दिनमणिः पातु श्रवणे वासरेश्वरः ॥३॥

Verse

घ्राणं घर्मघृणिः पातु वदनं वेदवाहनः । जिह्वां मे मानदः पातु कण्ठं मे सुरवन्दितः ॥४॥

Verse

स्कन्धौ प्रभाकरः पातु वक्षः पातु जनप्रियः । पातु पादौ द्वादशात्मा सर्वाङ्गं सकलेश्वरः ॥५॥

Verse

सूर्यरक्षात्मकं स्तोत्रं लिखित्वा भूर्जपत्रके । दधाति यः करे तस्य वशगाः सर्वसिद्धयः ॥६॥

Verse

सुस्नातो यो जपेत् सम्यग् योऽधीते स्वस्थमानसः । स रोगमुक्तो दीर्घायुः सुखं पुष्टिं च विन्दति ॥७॥

Verse

॥इति श्री-याज्ञवल्क्यमुनिविरचितं श्री-सूर्यकवचस्तोत्रं सम्पूर्णम्॥

ādityahṛdayam
sūryamaṇḍala-stotram

Read next

More on सूर्यकवचम्

  • श्रीसूर्यकवचम्Kavach
  • सूर्यकवचं त्रैलोक्यमङ्गलं नामKavach
  • सूर्यकवचम्Kavach
  • श्रीसूर्यकवचम्Kavach
  • सूर्यकवचम्Kavach

सा विद्या या विमुक्तये

Built with Sankalpa at Gyaandweep

Gyaandweep

© 2022-2026 Granthajyoti Pvt Ltd.

Privacy & Terms