stotrasangraha
śrī-skāndapurāṇāntargata-mārgaśīrṣa-māhātmye kṛṣṇa-nāma-māhātmyam
श्री-स्कान्दपुराणान्तर्गत-मार्गशीर्ष-माहात्म्ये कृष्ण-नाम-माहात्म्यम्
Verse
वक्तव्यमेव यत् प्रोक्तं तच्छृणुष्व समाहितः । कथयिष्ये तव प्रीत्या अपि गुह्यतरं मम ॥३२॥
Verse
मम नाम प्रवक्तव्यं सहे चैव विशेषतः । कृष्णकृष्णेति वक्तव्यं मम प्रीतिकरं परम् ॥३३॥
Verse
प्रतिज्ञैषा च मे पुत्र न जानन्ति सुरासुराः । मनसा कर्मणा वाचा यो मे शरणमागतः ॥३४॥
Verse
स हि सर्वामवाप्नोति कामनामिह लौकिकीम् । सर्वोत्कृष्टं च वैकुण्ठं मत्प्रियां कमलामपि ॥३५॥
Verse
कृष्णकृष्णेति कृष्णेति यो मां स्मरति नित्यशः । जलं भित्त्वा यथा पद्मं नरकादुद्धराम्यहम् ॥३६॥
Verse
विनोदेनापि दम्भेन मौढ्याल्लोभाच्छलादपि । यो मां भजत्यसौ वत्स मद्भक्तो नावसीदति ॥३७॥
Verse
ये वै पठन्ति कृष्णेति मरणे पर्युपस्थिते । यदि पापयुताः पुत्र न पश्यन्ति यमं क्वचित् ॥३८॥
Verse
पूर्वे वयसि पापानि कृतान्यपि च कृत्स्नशः । अन्तकाले च कृष्णेति स्मृत्वा मामेत्यसंशयम् ॥३९॥
Verse
नमः कृष्णाय महते विवशोऽपि वदेद्यदि । ध्रुवं पदमवाप्नोति मरणे पर्युपस्थिते ॥४०॥
Verse
श्रीकृष्णेति कृतोच्चारैः प्राणैर्यदि वियुज्यते । दूरस्थः पश्यति च तं स्वर्गतं प्रेतनायकः ॥४१॥
Verse
श्मशाने यदि रथ्यायां कृष्णकृष्णेति जल्पति । म्रियते यदि चेत् पुत्र मामेवैति न संशयः ॥४२॥
Verse
दर्शनान्मम भक्तानां मृत्युमाप्नोति यः क्वचित् । विना मत्स्मरणात् पुत्र मुक्तिमेति स मानवः ॥४३॥
Verse
पापानलस्य दीप्तस्य भयं मा कुरु पुत्रक । श्रीकृष्णनाममेघोत्थैः सिच्यते नीरबिन्दुभिः ॥४४॥
Verse
कलिकालभुजङ्गस्य तीक्ष्णदंष्ट्रस्य किं भयम् । श्रीकृष्णनामदारूत्थवह्निदग्धः स नश्यति ॥४५॥
Verse
पापपावकदग्धानां कर्मचेष्टावियोगिनाम् । भेषजं नास्ति मर्त्यानां श्रीकृष्णस्मरणं विना ॥४६॥
Verse
प्रयागे वै यथा गङ्गा शुक्लतीर्थे च नर्मदा । सरस्वती कुरुक्षेत्रे तद्वच्छ्रीकृष्णकीर्तनम् ॥४७॥
Verse
भवाम्भोधिनिमग्नानां महापापोर्मिपातिनाम् । न गतिर्मानवानां च श्रीकृष्णस्मरणं विना ॥४८॥
Verse
मृत्युकालेऽपि मर्त्यानां पापिनां तदनिच्छताम् । गच्छतां नास्ति पाथेयं श्रीकृष्णस्मरणं विना ॥४९॥
Verse
तत्र पुत्र गया काशी पुष्करं कुरुजाङ्गलम् । प्रत्यहं मन्दिरे यस्य कृष्णकृष्णेति कीर्तनम् ॥५०॥
Verse
जीवितं जन्मसाफल्यं सुखं तस्यैव सार्थकम् । सततं रसना यस्य कृष्णकृष्णेति जल्पति ॥५१॥
Verse
सकृदुच्चरितं येन हरिरित्यक्षरद्वयम् । बद्धः परिकरस्तेन मोक्षाय गमनं प्रति ॥५२॥
Verse
नाम्नोऽस्य यावती शक्तिः पापनिर्दहने मम । तावत् कर्तुं न शक्नोति पातकं पातकी जनः ॥५३॥
Verse
नापविद्धं भवेत् तस्य शरीरं नैव मानसम् । न पापं न च वैक्लव्यं कृष्णकृष्णेति कीर्तनात् ॥५४॥
Verse
श्रीकृष्णेति वचः पथ्यं न त्यजेद् यः कलौ नरः । पापामयो वै न भवेत् कलौ तस्यैव मानसे ॥५५॥
Verse
श्रीकृष्णेति प्रजल्पन्तं दक्षिणाशापतिर्नरम् । श्रुत्वा मार्जयते पापं तस्य जन्मशतार्जितम् ॥५६॥
Verse
चान्द्रायणशतैः पापं पराकाणां सहस्रकैः । यन्नापयाति तद्याति कृष्णकृष्णेति कीर्तनात् ॥५७॥
Verse
नान्याभिर्नामकोटीभिस्तोषो मम भवेत् क्वचित् । श्रीकृष्णेति कृतोच्चारे प्रीतिरेवाधिकाधिका ॥५८॥
Verse
चन्द्रसूर्योपरागैस्तु कोटीभिर्यत् फलं स्मृतम् । तत्फलं समवाप्नोति कृष्णकृष्णेति कीर्तनात् ॥५९॥
Verse
गुरुदाराभिगमनं हेमस्तेयादि पातकम् । श्रीकृष्णकीर्तनाद् याति घर्मतप्तं हिमं यथा ॥६०॥
Verse
युक्तो यदि महापापैरगम्यागमनादिभिः । मुच्यते चान्तकालेऽपि सकृच्छ्रीकृष्णकीर्तनात् ॥६१॥
Verse
अविशुद्धमना यस्तु विनाऽप्याचारवर्तनात् । प्रेतत्वं सोऽपि नाऽऽप्नोति अन्ते श्रीकृष्णकीर्तनात् ॥६२॥
Verse
मुखे भवतु मा जिह्वाऽसती यातु रसातलम् । न सा चेत् कलिकाले या श्रीकृष्णगुणवादिनी ॥६३॥
Verse
स्ववक्त्रे परवक्त्रे च वन्द्या जिह्वा प्रयत्नतः । कुरुते या कलौ पुत्र श्रीकृष्णगुणकीर्तनम् ॥६४॥
Verse
पापवल्ली मुखे तस्य जिह्वारूपेण कीर्त्यते । या न वक्ति दिवारात्रौ श्रीकृष्णगुणकीर्तनम् ॥६५॥
Verse
पततां शतखण्डा तु सा जिह्वा रोगरूपिणी । श्रीकृष्णकृष्णकृष्णेति श्रीकृष्णेति न जल्पति ॥६६॥
Verse
श्रीकृष्णनाममाहात्म्यं प्रातरुत्थाय यः पठेत् । तस्याहं श्रेयसां दाता भवाम्येव न संशयः ॥६७॥
Verse
श्रीकृष्णनाममाहात्म्यं त्रिसन्ध्यं हि पठेत् तु यः । सर्वान् कामानवाप्नोति स मृतः परमां गतिम् ॥६८॥
Verse
॥इति श्रीस्कान्दे महापुराणे एकाशीतिसाहस्र्यां संहितायां द्वितीये वैष्णवखण्डे ब्रह्मविष्णुसंवादे मार्गशीर्षमासमाहात्म्ये श्रीकृष्णनाममाहात्म्यवर्णनं नाम पञ्चदशोऽध्यायः॥
