stotrasangraha
navagrahapīḍāharastotram
नवग्रहपीडाहरस्तोत्रम्
Verse
ग्रहाणामादिरादित्यो लोकरक्षणकारकः । विषमस्थानसम्भूतां पीडां हरतु मे रविः ॥१॥
Verse
रोहिणीशः सुधामूर्तिः सुधागात्रः सुधाशनः । विषमस्थानसम्भूतां पीडां हरतु मे विधुः ॥२॥
Verse
भूमिपुत्रो महातेजा जगतां भयकृत् सदा । वृष्टिकृद्वृष्टिहर्ता च पीडां हरतु मे कुजः ॥३॥
Verse
उत्पातरूपो जगतां चन्द्रपुत्रो महाद्युतिः । सूर्यप्रियकरो विद्वान् पीडां हरतु मे बुधः ॥४॥
Verse
देवमन्त्री विशालाक्षः सदा लोकहिते रतः । अनेकशिष्यसम्पूर्णः पीडां हरतु मे गुरुः ॥५॥
Verse
दैत्यमन्त्री गुरुस्तेषां प्राणदश्च महामतिः । प्रभुस्ताराग्रहाणां च पीडां हरतु मे भृगुः ॥६॥
Verse
सूर्यपुत्रो दीर्घदेहो विशालाक्षः शिवप्रियः । मन्दचारः प्रसन्नात्मा पीडां हरतु मे शनिः ॥७॥
Verse
महाशिरा महावक्त्रो दीर्घदंष्ट्रो महाबलः । अतनुश्चोर्ध्वकेशश्च पीडां हरतु मे शिखी ॥८॥
Verse
अनेकरूपवर्णैश्च शतशोऽथ सहस्रशः । उत्पातरूपो जगतां पीडां हरतु मे तमः ॥९॥
Verse
॥इति ब्रह्माण्डपुराणोक्तं नवग्रहपीडाहरस्तोत्रं सम्पूर्णम्॥
Verse
आरोग्यं प्रददातु नो दिनकरश्चन्द्रो यशो निर्मलं भूतिं भूमिसुतः सुधांशुतनयः प्रज्ञां गुरुर्गौरवम् । काव्यः कोमलवाग्विलासमतुलं मन्दो मुदं सर्वदा राहुर्बाहुबलं विरोधशमनं केतुः कुलस्योन्नतिम् ॥
