Preparing Your Space .

Settling the page into your current context.

GyanDweepBeta
HomeLearnLibrary
eGurukulsDiscoverTemplesPanchanga
Sign Up
Sign Up

stotrasangraha

mūkasāraḥ

मूकसारः

Verse

[कारण-पर-चिद्रूपा काञ्चीपुर-सीम्नि कामपीठगता । काचन विहरति करुणा काश्मीर-स्तबक-कोमलाङ्गलता] ॥१॥

Verse

कुण्डलि कुमारि कुटिले चण्डि चराचर-सवित्रि चामुण्डे । गुणिनि गुहारिणि गुह्ये गुरुमूर्ते त्वां नमामि कामाक्षि ॥२॥

Verse

अभिदाकृतिर्भिदाकृतिरचिदाकृतिरपि चिदाकृतिर्मातः । अनहन्ता त्वमहन्ता भ्रमयसि कामाक्षि शाश्वती विश्वम् ॥३॥

Verse

काम-परिपन्थि-कामिनि कामेश्वरि काम-पीठ-मध्य-गते । काम-दुघा भव कमले काम-कले कामकोटि कामाक्षि ॥४॥

Verse

लीये पुर-हर-जाये माये तव तरुण-पल्लव-च्छाये । चरणे चन्द्रा-भरणे काञ्ची-शरणे नतार्ति-संहरणे ॥५॥

Verse

स्मर-मथन-वरण-लोला मन्मथ-हेला-विलास-मणि-शाला । कनक-रुचि-चौर्य-शीला त्वमम्ब बाला कराब्ज-धृत-माला ॥६॥

Verse

अन्तरपि बहिरपि त्वं जन्तुततेरन्तकान्तकृदहन्ते । चिन्तितसन्तानवतां सन्ततमपि तन्तनीषि महिमानम् ॥७॥

Verse

[जय जय जगदम्ब शिवे जय जय कामाक्षि जय जयाद्रिसुते । जय जय महेशदयिते जय जय चिद्गगनकौमुदीधारे] ॥८॥

Verse

जपालक्ष्मीशोणो जनितपरमज्ञाननलिनी- विकासव्यासङ्गो विफलितजगज्जाड्यगरिमा । मनःपूर्वाद्रिं मे तिलकयतु कामाक्षि तरसा तमस्काण्डद्रोही तव चरणपाथोजरमणः ॥९॥

Verse

गिरां दूरौ चोरौ जडिमतिमिराणां कृतजगत् परित्राणौ शोणौ मुनिहृदयलीलैकनिपुणौ । नखैः स्मेरौ सारौ निगमवचसां खण्डितभव- ग्रहोन्मादौ पादौ तव जननि कामाक्षि कलये ॥१०॥

Verse

भवाम्भोधौ नौकां जडिमविपिने पावकशिखाम् अमर्त्येन्द्रादीनामधिमुकुटमुत्तंसकलिकाम् । जगत्तापे ज्योत्स्नामकृतकवचःपञ्जरपुटे शुकस्त्रीं कामाक्ष्या मनसि कलये पादयुगलीम् ॥११॥

Verse

कवित्वश्रीमिश्रीकरणनिपुणौ रक्षणचणौ विपन्नानां श्रीमन्नलिनमसृणौ शोणकिरणौ । मुनीन्द्राणामन्तःकरणशरणौ मन्दसरणौ मनोज्ञौ कामाक्ष्या दुरितहरणौ नौमि चरणौ ॥१२॥

Verse

परस्मात्सर्वस्मादपि च परयोर्मुक्तिकरयोः नखश्रीभिर्ज्योत्स्नाकलिततुलयोस्ताम्रतलयोः । निलीये कामाक्ष्या निगमनुतयोर्नाकिनतयोः निरस्तप्रोन्मीलन्नलिनमदयोरेव पदयोः ॥१३॥

Verse

रणन्मञ्जीराभ्यां ललितगमनाभ्यां सुकृतिनां मनोवास्तव्याभ्यां मथिततिमिराभ्यां नखरुचा । निधेयाभ्यां पत्या निजशिरसि कामाक्षि सततं नमस्ते पादाभ्यां नलिनमृदुलाभ्यां गिरिसुते ॥१४॥

Verse

यशः सूते मातर्मधुरकवितां पक्ष्मलयते श्रियं दत्ते चित्ते कमपि परिपाकं प्रथयते । सतां पाशग्रन्थिं शिथिलयति किं किं न कुरुते प्रपन्ने कामाक्ष्याः प्रणतिपरिपाटी चरणयोः ॥१५॥

Verse

मनीषां माहेन्द्रीं ककुभमिव ते कामपि दशां प्रधत्ते कामाक्ष्याश्चरणतरुणादित्यकिरणः । यदीये सम्पर्के धृतरसमरन्दा कवयतां परीपाकं धत्ते परिमलवती सूक्तिनलिनी ॥१६॥

Verse

[श्यामा काचन चन्द्रिका त्रिभुवने पुण्यात्मनामानने सीमाशून्यकवित्ववर्षजननी या काऽपि कादम्बिनी । मारारातिमनोविमोहनविधौ काचित्तमःकन्दली कामाक्ष्याः करुणाकटाक्षलहरी कामाय मे कल्पताम्] ॥१७॥

Verse

राकाचन्द्रसमानकान्तिवदना नाकाधिराजस्तुता मूकानामपि कुर्वती सुरधुनीनीकाशवाग्वैभवम् । श्रीकाञ्चीनगरीविहाररसिका शोकापहन्त्री सताम् एका पुण्यपरम्परा पशुपतेराकारिणी राजते ॥१८॥

Verse

जाता शीतल-शैलतः सुकृतिनां दृश्या परं देहिनां लोकानां क्षण-मात्र-संस्मरणतः सन्ताप-विच्छेदिनी । आश्चर्यं बहु खेलनं वितनुते नैश्चल्य-माबिभ्रती कम्पायास्तट-सीम्नि काऽपि तटिनी कारुण्य-पाथोमयी ॥१९॥

Verse

वरीवर्तु स्थेमा त्वयि मम गिरां देवि मनसो नरीनर्तु प्रौढा वदनकमले वाक्यलहरी । चरीचर्तु प्रज्ञाजननि जडिमानः परजने सरीसर्तु स्वैरं जननि मयि कामाक्षि करुणा ॥२०॥

Verse

परा विद्या हृद्याश्रितमदनविद्या मरकत- प्रभानीला लीलापरवशितशूलायुधमनाः । तमःपूरं दूरं चरणनतपौरन्दरपुरी- मृगाक्षी कामाक्षी कमलतरलाक्षी नयतु मे ॥२१॥

Verse

यस्या वाटी हृदयकमलं कौसुमी योगभाजां यस्याः पीठी सततशिशिरा शीकरैर्माकरन्दैः । यस्याः पेटी श्रुतिपरिचलन्मौलिरत्नस्य काञ्ची सा मे सोमाभरणमहिषी साधयेत्काङ्क्षितानि ॥२२॥

Verse

परामृतझरीप्लुता जयति नित्यमन्तश्चरी भुवामपि बहिश्चरी परमसंविदेकात्मिका । महद्भिरपरोक्षिता सततमेव काञ्चीपुरे ममान्वहमहम्मतिर्मनसि भातु माहेश्वरी ॥२३॥

Verse

चराचरजगन्मयीं सकलहृन्मयीं चिन्मयीं गुणत्रयमयीं जगत्त्रयमयीं त्रिधामामयीम् । परापरमयीं सदा दशदिशां निशाहर्मयीं परां सततसन्मयीं मनसि चिन्मयीं शीलये ॥२४॥

Verse

भुवनजननि भूषाभूतचन्द्रे नमस्ते कलुषशमनि कम्पातीरगेहे नमस्ते । निखिलनिगमवेद्ये नित्यरूपे नमस्ते परशिवमयि पाशच्छेदहस्ते नमस्ते ॥२५॥

Verse

समरविजयकोटी साधकानन्दधाटी मृदुगुणपरिपेटी मुख्यकादम्बवाटी । मुनिनुतपरिपाटी मोहिताजाण्डकोटी परमशिववधूटी पातु मां कामकोटी ॥२६॥

Verse

मातर्जयन्ति ममता-ग्रह-मोक्षणानि माहेन्द्र-नील-रुचि-शिक्षण-दक्षिणानि । कामाक्षि कल्पित-जगत्त्रय-रक्षणानि त्वद्वीक्षणानि वरदान-विचक्षणानि ॥२७॥

Verse

नीलोऽपि रागमधिकं जनयन् पुरारेः लोलोऽपि भक्तिमधिकां दृढयन्नराणाम् । वक्रोऽपि देवि नमतां समतां वितन्वन् कामाक्षि नृत्यतु मयि त्वदपाङ्गपातः ॥२८॥

Verse

अत्यन्त-शीतलमतन्द्रयतु क्षणार्धम् अस्तोक-विभ्रममनङ्गविलासकन्दम् । अल्प-स्मितादृतमपारकृपाप्रवाहम् अक्षि-प्ररोहमचिरान्मयि कामकोटि ॥२९॥

Verse

मातः क्षणं स्नपय मां तव वीक्षितेन मन्दाक्षितेन सुजनैरपरोक्षितेन । कामाक्षि कर्म-तिमिरोत्कर-भास्करेण श्रेयस्करेण मधुप-द्युति-तस्करेण ॥३०॥

Verse

कैवल्यदाय करुणारसकिङ्कराय कामाक्षि कन्दलितविभ्रमशङ्कराय । आलोकनाय तव भक्तशिवङ्कराय मातर्नमोऽस्तु परतन्त्रितशङ्कराय ॥३१॥

Verse

संसारघर्मपरितापजुषां नराणां कामाक्षि शीतलतराणि तवेक्षितानि । चन्द्रातपन्ति घनचन्दनकर्दमन्ति मुक्तागुणन्ति हिमवारिनिषेचनन्ति ॥३२॥

Verse

बाणेन पुष्पधनुषः परिकल्प्यमान- त्राणेन भक्तमनसां करुणाकरेण । कोणेन कोमलदृशस्तव कामकोटि शोणेन शोषय शिवे मम शोकसिन्धुम् ॥३३॥

Verse

अज्ञातभक्तिरसमप्रसरद्विवेकम् अत्यन्तगर्वमनधीतसमस्तशास्त्रम् । अप्राप्तसत्यमसमीपगतं च मुक्तेः कामाक्षि मामवतु ते करुणाकटाक्षः ॥३४॥

Verse

कर्पूरैरमृतैर्जगज्जननि ते कामाक्षि चन्द्रातपैः मुक्ताहारगुणैर्मृणालवलयैर्मुग्धस्मितश्रीरियम् । श्रीकाञ्चीपुरनायिके समतया संस्तूयते सज्जनैः तत्तादृङ्मम तापशान्तिविधये किं देवि मन्दायते ॥३५॥

Verse

चेतः शीतलयन्तु नः पशुपतेरानन्दजीवातवो नम्राणां नयनाध्वसीमसु शरच्चन्द्रातपोपक्रमाः । संसाराख्यसरोरुहाकरखलीकारे तुषारोत्कराः कामाक्षि स्मरकीर्तिबीजनिकरास्त्वन्मन्दहासाङ्कुराः ॥३६॥

Verse

सूतिः श्वेतिमकन्दलस्य वसतिः शृङ्गारसारश्रियः पूर्तिः सूक्तिझरीरसस्य लहरी कारुण्यपाथोनिधेः । वाटी काचन कौसुमी मधुरिमस्वाराज्यलक्ष्म्यास्तव श्रीकामाक्षि ममास्तु मङ्गलकरी हासप्रभाचातुरी ॥३७॥

Verse

इन्धाने भववीतिहोत्रनिवहे कर्मौघचण्डानिल- प्रौढिम्ना बहुलीकृते निपतितं सन्तापचिन्ताकुलम् । मातर्मां परिषिञ्च किञ्चिदमलैः पीयूषवर्षैरिव श्रीकामाक्षि तव स्मितद्युतिकणैः शैशिर्यलीलाकरैः ॥३८॥

Verse

क्रीडालोलकृपासरोरुहमुखीसौधाङ्गणेभ्यः कवि- श्रेणीवाक्परिपाटिकामृतझरीसूतीगृहेभ्यः शिवे । निर्वाणाङ्कुरसार्वभौमपदवीसिंहासनेभ्यस्तव श्रीकामाक्षि मनोज्ञमन्दहसितज्योतिष्कणेभ्यो नमः ॥३९॥

Verse

आर्यामेव विभावयन् मनसि यः पादारविन्दं पुरः पश्यन्नारभते स्तुतिं स नियतं लब्ध्वा कटाक्ष-च्छविम् । कामाक्ष्या मृदुल-स्मितांशु-लहरी-ज्योत्स्ना-वयस्यान्विताम् आरोहत्यपवर्ग-सौध-वलभीमानन्द-वीची-मयीम् ॥४०॥

Verse

॥इति श्री-काञ्चीजगद्गुरु-श्री-चन्द्रशेखरेन्द्रसरस्वती-श्रीचरणैः श्री-मूकमहाकविप्रणीतायाः मूकपञ्चशत्याः सङ्ग्रहीतः मूकसारः सम्पूर्णः॥

lalitāpañcaratnam
gaurīdaśakam

सा विद्या या विमुक्तये

Built with Sankalpa at Gyaandweep

Gyaandweep

© 2022-2026 Granthajyoti Pvt Ltd.

Privacy & Terms