Preparing Your Space .

Settling the page into your current context.

GyanDweepBeta
HomeLearnLibrary
eGurukulsDiscoverTemplesPanchanga
Sign Up
Sign Up

stotrasangraha

kṛṣṇadvādaśanāmastotram

कृष्णद्वादशनामस्तोत्रम्

Verse

शृणुध्वं मुनयः सर्वे गोपालस्य महात्मनः । अनन्तस्याप्रमेयस्य नामद्वाशकं स्तवम् ॥

Verse

अर्जुनाय पुरा गीतं गोपालेन महात्मना । द्वारकायां प्रार्थयते यशोदायाश्च सन्निधौ ॥

Verse

जानुभ्यामपि धावन्तं बाहुभ्यामतिसुन्दरम् । सकुण्डलालकं बालं गोपालं चिन्तयेदुषः ॥

Verse

प्रथमं तु हरिं विद्याद् द्वितीयं केशवं तथा । तृतीयं पद्मनाभं तु चतुर्थं वामनं तथा ॥१॥

Verse

पञ्चमं वेदगर्भं च षष्ठं तु मधुसूदनम् । सप्तमं वासुदेवं च वराहं चाष्टमं तथा ॥२॥

Verse

नवमं पुण्डरीकाक्षं दशमं तु जनार्दनम् । कृष्णमेकादशं प्रोक्तं द्वादशं श्रीधरं तथा ॥३॥

Verse

एतद् द्वादशनामानि मया प्रोक्तानि फाल्गुन । कालत्रये पठेद् यस्तु तस्य पुण्यफलं शृणु ॥४॥

Verse

चान्द्रायणसहस्रस्य कन्यादानशतस्य च । अश्वमेधसहस्रस्य फलमाप्नोति मानवः ॥५॥

Verse

॥इति श्री-कृष्णद्वादशनामस्तोत्रं सम्पूर्णम्‌॥

bālamukundāṣṭakam
raṅganātha gadyam

सा विद्या या विमुक्तये

Built with Sankalpa at Gyaandweep

Gyaandweep

© 2022-2026 Granthajyoti Pvt Ltd.

Privacy & Terms