stotrasangraha
kalyāṇavṛṣṭistotram
कल्याणवृष्टिस्तोत्रम्
Verse
कल्याणवृष्टिभिरिवामृतपूरिताभिर्- लक्ष्मीस्वयंवरणमङ्गलदीपिकाभिः । सेवाभिरम्ब तव पादसरोजमूले नाकारि किं मनसि भक्तिमतां जनानाम् ॥१॥
Verse
एतावदेव जननि स्पृहणीयमास्ते त्वद्वन्दनेषु सलिलस्थगिते च नेत्रे । सान्निध्यमुद्यदरुणायुतसोदरस्य त्वद्विग्रहस्य परया सुधया प्लुतस्य ॥२॥
Verse
ईशित्वभावकलुषाः कति नाम सन्ति ब्रह्मादयः प्रतियुगं प्रलयाभिभूताः । एकः स एव जननि स्थिरसिद्धिरास्ते यः पादयोस्तव सकृत्प्रणतिं करोति ॥३॥
Verse
लब्ध्वा सकृत् त्रिपुरसुन्दरि तावकीनं कारुण्यकन्दलितकान्तिभरं कटाक्षम् । कन्दर्पकोटिसुभगास्त्वयि भक्तिभाजः सम्मोहयन्ति तरुणीर्भुवनत्रयेषु ॥४॥
Verse
ह्रीङ्कारमेव तव नाम गृणन्ति वेदा मातस्त्रिकोणनिलये त्रिपुरे त्रिनेत्रे । त्वत्संस्मृतौ यमभटादिभयं विहाय दीव्यन्ति नन्दनवने सह लोकपालैः ॥५॥
Verse
हन्तुः पुरामधिगलं परिपूर्यमाणः क्रूरः कथं न भविता गरलस्य वेगः । आश्वासनाय किल मातरिदं तवार्धं देहस्य शश्वदमृताप्लुतशीतलस्य ॥६॥
Verse
सर्वज्ञतां सदसि वाक्पटुतां प्रसूते देवि त्वदङ्घ्रिसरसीरुहयोः प्रणामः । किं च स्फुरन्मकुटमुज्ज्वलमातपत्रं द्वे चामरे च वसुधां महतीं ददाति ॥७॥
Verse
कल्पद्रुमैरभिमतप्रतिपादनेषु कारुण्यवारिधिभिरम्ब भवत्कटाक्षैः । आलोकय त्रिपुरसुन्दरि मामनाथं त्वय्येव भक्तिभरितं त्वयि दत्तदृष्टिम् ॥८॥
Verse
हन्तेतरेष्वपि मनांसि निधाय चान्ये भक्तिं वहन्ति किल पामरदैवतेषु । त्वामेव देवि मनसा वचसा स्मरामि त्वामेव नौमि शरणं जगति त्वमेव ॥९॥
Verse
लक्ष्येषु सत्स्वपि तवाक्षिविलोकनानाम् आलोकय त्रिपुरसुन्दरि मां कथञ्चित् । नूनं मयाऽपि सदृशं करुणैकपात्रं जातो जनिष्यति जनो न च जायते च ॥१०॥
Verse
ह्रीं ह्रीमिति प्रतिदिनं जपतां जनानां किं नाम दुर्लभमिह त्रिपुराधिवासे । मालाकिरीटमदवारणमाननीयान्स्- तान् सेवते वसुमती स्वयमेव लक्ष्मीः ॥११॥
Verse
सम्पत्कराणि सकलेन्द्रियनन्दनानि साम्राज्यदानकुशलानि सरोरुहाक्षि । त्वद्वन्दनानि दुरितौघहरोद्यतानि मामेव मातरनिशं कलयन्तु नान्यम् ॥१२॥
Verse
कल्पोपसंहरण-कल्पित-ताण्डवस्य देवस्य खण्डपरशोः परमेश्वरस्य । पाशाङ्कुशैक्षव-शरासन-पुष्पबाणा सा साक्षिणी विजयते तव मूर्तिरेका ॥१३॥
Verse
लग्नं सदा भवतु मातरिदं तवार्धं तेजः परं बहुल-कुङ्कुम-पङ्क-शोणम् । भास्वत्किरीटममृतांशुकलावतंसं मध्ये त्रिकोणमुदितं परमामृतार्द्रम् ॥१४॥
Verse
ह्रीङ्कारमेव तव नाम तदेव रूपं त्वन्नाम सुन्दरि सरोजनिवासमूले । त्वत्तेजसा परिणतं वियदादि भूतं सौख्यं तनोति सरसीरुहसम्भवादेः ॥१५॥
Verse
ह्रीङ्कारत्रयसम्पुटेन महता मन्त्रेण सन्दीपितं स्तोत्रं यः प्रतिवासरं तव पुरो मातर्जपेन्मन्त्रवित् । तस्य क्षोणिभुजो भवन्ति वशगा लक्ष्मीश्चिरस्थायिनी वाणी निर्मलसूक्तिभारभरिता जागर्ति दीर्घं वयः ॥१६॥
Verse
॥इति श्रीमत्परमहंसपरिव्राजकाचार्यस्य श्री-गोविन्द-भगवत्पूज्य-पाद-शिष्यस्य श्रीमच्छङ्करभगवतः कृतौ श्री-कल्याणवृष्टिस्तोत्रं सम्पूर्णम्॥
