stotrasangraha
gāyatrī-rāmāyaṇam
गायत्री-रामायणम्
Verse
शुक्लाम्बरधरं विष्णुं शशिवर्णं चतुर्भुजम् । प्रसन्नवदनं ध्यायेत् सर्वविघ्नोपशान्तये ॥
Verse
वागीशाद्याः सुमनसः सर्वार्थानामुपक्रमे । यं नत्वा कृतकृत्याः स्युस्तं नमामि गजाननम् ॥
Verse
गुरुर्ब्रह्मा गुरुर्विष्णुर्गुरुर्देवो महेश्वरः । गुरुः साक्षात् परं ब्रह्म तस्मै श्री-गुरवे नमः ॥
Verse
सदाशिवसमारम्भां शङ्कराचार्यमध्यमाम् । अस्मदाचार्यपर्यन्तां वन्दे गुरुपरम्पराम् ॥
Verse
अखण्डमण्डलाकारं व्याप्तं येन चराचरम् । तत्पदं दर्शितं येन तस्मै श्री-गुरवे नमः ॥
Verse
दोर्भिर्युक्ता चतुर्भिः स्फटिकमणिनिभैरक्षमालां दधाना हस्तेनैकेन पद्मं सितमपि च शुकं पुस्तकं चापरेण । भासा कुन्देन्दुशङ्खस्फटिकमणिनिभा भासमानाऽसमाना सा मे वाग्देवतेयं निवसतु वदने सर्वदा सुप्रसन्ना ॥
Verse
कूजन्तं राम रामेति मधुरं मधुराक्षरम् । आरुह्य कविताशाखां वन्दे वाल्मीकिकोकिलम् ॥१॥
Verse
वाल्मीकेर्मुनिसिंहस्य कवितावनचारिणः । शृण्वन् रामकथानादं को न याति परां गतिम् ॥२॥
Verse
यः पिबन् सततं रामचरितामृतसागरम् । अतृप्तस्तं मुनिं वन्दे प्राचेतसमकल्मषम् ॥३॥
Verse
गोष्पदीकृत-वाराशिं मशकीकृत-राक्षसम् । रामायण-महामाला-रत्नं वन्देऽनिलात्मजम् ॥१॥
Verse
अञ्जनानन्दनं वीरं जानकीशोकनाशनम् । कपीशमक्षहन्तारं वन्दे लङ्काभयङ्करम् ॥२॥
Verse
उल्लङ्घ्य सिन्धोः सलिलं सलीलं यः शोकवह्निं जनकात्मजायाः । आदाय तेनैव ददाह लङ्कां नमामि तं प्राञ्जलिराञ्जनेयम् ॥३॥
Verse
आञ्जनेयमतिपाटलाननं काञ्चनाद्रि-कमनीय-विग्रहम् । पारिजात-तरुमूल-वासिनं भावयामि पवमान-नन्दनम् ॥४॥
Verse
यत्र यत्र रघुनाथकीर्तनं तत्र तत्र कृतमस्तकाञ्जलिम् । बाष्पवारिपरिपूर्णलोचनं मारुतिं नमत राक्षसान्तकम् ॥५॥
Verse
मनोजवं मारुततुल्यवेगं जितेन्द्रियं बुद्धिमतां वरिष्ठम् । वातात्मजं वानरयूथमुख्यं श्रीरामदूतं शिरसा नमामि ॥६॥
Verse
यः कर्णाञ्जलिसम्पुटैरहरहः सम्यक् पिबत्यादरात् वाल्मीकेर्वदनारविन्दगलितं रामायणाख्यं मधु । जन्म-व्याधि-जरा-विपत्ति-मरणैरत्यन्त-सोपद्रवं संसारं स विहाय गच्छति पुमान् विष्णोः पदं शाश्वतम् ॥१॥
Verse
तदुपगत-समास-सन्धियोगं सममधुरोपनतार्थ-वाक्यबद्धम् । रघुवरचरितं मुनिप्रणीतं दशशिरसश्च वधं निशामयध्वम् ॥२॥
Verse
वाल्मीकि-गिरिसम्भूता रामसागरगामिनी । पुनातु भुवनं पुण्या रामायणमहानदी ॥३॥
Verse
श्लोकसारजलाकीर्णं सर्गकल्लोलसङ्कुलम् । काण्डग्राहमहामीनं वन्दे रामायणार्णवम् ॥४॥
Verse
वेदवेद्ये परे पुंसि जाते दशरथात्मजे । वेदः प्राचेतसादासीत् साक्षाद्रामायणात्मना ॥५॥
Verse
वैदेहीसहितं सुरद्रुमतले हैमे महामण्डपे मध्ये पुष्पकमासने मणिमये वीरासने सुस्थितम् । अग्रे वाचयति प्रभञ्जनसुते तत्त्वं मुनिभ्यः परं व्याख्यान्तं भरतादिभिः परिवृतं रामं भजे श्यामलम् ॥१॥
Verse
वामे भूमिसुता पुरश्च हनुमान् पश्चात् सुमित्रासुतः शत्रुघ्नो भरतश्च पार्श्वदलयोर्वाय्वादिकोणेषु च । सुग्रीवश्च विभीषणश्च युवराट् तारासुतो जाम्बवान् मध्ये नीलसरोजकोमलरुचिं रामं भजे श्यामलम् ॥२॥
Verse
रामं रामानुजं सीतां भरतं भरतानुजम् । सुग्रीवं वायुसूनुं च प्रणमामि पुनः पुनः ॥३॥
Verse
नमोऽस्तु रामाय सलक्ष्मणाय देव्यै च तस्यै जनकात्मजायै । नमोऽस्तु रुद्रेन्द्रयमानिलेभ्यो नमोऽस्तु चन्द्रार्कमरुद्गणेभ्यः ॥४॥
Verse
ॐ श्री-गुरुभ्यो नमः।
Verse
तपः स्वाध्यायनिरतं तपस्वी वाग्विदां वरम् । नारदं परिपप्रच्छ वाल्मीकिर्मुनिपुङ्गवम् ॥१॥
Verse
स हत्वा राक्षसान् सर्वान् यज्ञघ्नान् रघुनन्दनः । ऋषिभिः पूजितः सम्यक् यथेन्द्रो विजये पुरा ॥२॥
Verse
विश्वामित्रस्तु धर्मात्मा श्रुत्वा जनकभाषितम् । वत्स राम धनुः पश्य इति राघवमब्रवीत् ॥३॥
Verse
तुष्टावास्य तदा वंशं प्रविश्य च विशाम्पतेः । शयनीयं नरेन्द्रस्य तदासाद्य व्यतिष्ठत ॥४॥
Verse
वनवासं हि सङ्ख्याय वासांस्याभरणानि च । भर्तारमनुगच्छन्त्यै सीतायै श्वशुरो ददौ ॥५॥
Verse
राजा सत्यं च धर्मं च राजा कुलवतां कुलम् । राजा माता पिता चैव राजा हितकरो नृणाम् ॥६॥
Verse
निरीक्ष्य स मुहूर्तं तु ददर्श भरतो गुरुम् । उटजे राममासीनं जटामण्डलधारिणम् ॥७॥
Verse
यदि बुद्धिः कृता द्रष्टुम् अगस्त्यं तं महामुनिम् । अद्यैव गमने बुद्धिं रोचयस्व महायशाः ॥८॥
Verse
भरतस्यार्यपुत्रस्य श्वश्रूणां मम च प्रभो । मृगरूपमिदं व्यक्तं विस्मयं जनयिष्यति ॥९॥
Verse
गच्छ शीघ्रमितो राम सुग्रीवं तं महाबलम् । वयस्यं तं कुरु क्षिप्रमितो गत्वाऽद्य राघव ॥१०॥
Verse
देशकालौ प्रतीक्षस्व क्षममाणः प्रियाप्रिये । सुखदुःखसहः काले सुग्रीववशगो भव ॥११॥
Verse
वन्द्यास्ते तु तपः सिद्धास्तपसा वीतकल्मषाः । प्रष्टव्याश्चापि सीतायाः प्रवृत्तिं विनयान्वितैः ॥१२॥
Verse
स निर्जित्य पुरीं श्रेष्ठां लङ्कां तां कामरूपिणीम् । विक्रमेण महातेजा हनूमान्मारुतात्मजः ॥१३॥
Verse
धन्या देवाः सगन्धर्वाः सिद्धाश्च परमर्षयः । मम पश्यन्ति ये नाथं रामं राजीवलोचनम् ॥१४॥
Verse
मङ्गलाभिमुखी तस्य सा तदासीन्महाकपेः । उपतस्थे विशालाक्षी प्रयता हव्यवाहनम् ॥१५॥
Verse
हितं महार्थं मृदु हेतुसंहितं व्यतीतकालायतिसम्प्रतिक्षमम् । निशम्य तद्वाक्यमुपस्थितज्वरः प्रसङ्गवानुत्तरमेतदब्रवीत् ॥१६॥
Verse
धर्मात्मा रक्षसां श्रेष्ठः सम्प्राप्तोऽयं विभीषणः । लङ्कैश्वर्यं ध्रुवं श्रीमानयं प्राप्नोत्यकण्टकम् ॥१७॥
Verse
यो वज्रपाताशनिसन्निपातान् न चुक्षुभे नापि चचाल राजा । स रामबाणाभिहतो भृशार्तः चचाल चापं च मुमोच वीरः ॥१८॥
Verse
यस्य विक्रममासाद्य राक्षसा निधनं गताः । तं मन्ये राघवं वीरं नारायणमनामयम् ॥१९॥
Verse
न ते ददर्शिरे रामं दहन्तमरिवाहिनीम् । मोहिताः परमास्त्रेण गान्धर्वेण महात्मना ॥२०॥
Verse
प्रणम्य देवताभ्यश्च ब्राह्मणेभ्यश्च मैथिली । बद्धाञ्जलिपुटा चेदमुवाचाग्निसमीपतः ॥२१॥
Verse
चालनात्पर्वतेन्द्रस्य गणा देवाश्च कम्पिताः । चचाल पार्वती चापि तदाऽऽश्लिष्टा महेश्वरम् ॥२२॥
Verse
दाराः पुत्राः पुरं राष्ट्रं भोगाच्छादनभोजनम् । सर्वमेवाविभक्तं नौ भविष्यति हरीश्वर ॥२३॥
Verse
यामेव रात्रिं शत्रुघ्नः पर्णशालां समाविशत् । तामेव रात्रिं सीताऽपि प्रसूता दारकद्वयम् ॥२४॥
Verse
इदं रामायणं कृत्स्नं गायत्रीबीजसंयुतम् । त्रिसन्ध्यं यः पठेन्नित्यं सर्वपापैः प्रमुच्यते ॥
Verse
॥इति श्री-गायत्री रामायणं सम्पूर्णम्॥
Verse
स्वस्ति प्रजाभ्यः परिपालयन्तां न्याय्येन मार्गेण महीं महीशाः । गोब्राह्मणेभ्यः शुभमस्तु नित्यं लोकाः समस्ताः सुखिनो भवन्तु ॥१॥
Verse
काले वर्षतु पर्जन्यः पृथिवी सस्यशालिनी । देशोऽयं क्षोभरहितो ब्राह्मणाः सन्तु निर्भयाः ॥२॥
Verse
अपुत्राः पुत्रिणः सन्तु पुत्रिणः सन्तु पौत्रिणः । अधनाः सधनाः सन्तु जीवन्तु शरदां शतम् ॥३॥
Verse
चरितं रघुनाथस्य शतकोटि-प्रविस्तरम् । एकैकमक्षरं पुंसां महापातकनाशनम् ॥४॥
Verse
शृण्वन् रामायणं भक्त्या यः पादं पदमेव वा । स याति ब्रह्मणः स्थानं ब्रह्मणा पूज्यते सदा ॥५॥
Verse
रामाय रामभद्राय रामचन्द्राय वेधसे । रघुनाथाय नाथाय सीतायाः पतये नमः ॥६॥
Verse
यन्मङ्गलं सहस्राक्षे सर्वदेवनमस्कृते । वृत्रनाशे समभवत् तत् ते भवतु मङ्गलम् ॥७॥
Verse
यन्मङ्गलं सुपर्णस्य विनताऽकल्पयत् पुरा । अमृतं प्रार्थयानस्य तत् ते भवतु मङ्गलम् ॥८॥
Verse
अमृतोत्पादने दैत्यान् घ्नतो वज्रधरस्य यत् । अदितिर्मङ्गलं प्रादात् तत् ते भवतु मङ्गलम् ॥९॥
Verse
त्रीन् विक्रमान् प्रक्रमतो विष्णोरमिततेजसः । यदासीन्मङ्गलं राम तत् ते भवतु मङ्गलम् ॥१०॥
Verse
ऋषयः सागरा द्वीपा वेदा लोका दिशश्च ते । मङ्गलानि महाबाहो दिशन्तु तव सर्वदा ॥११॥
Verse
मङ्गलं कोसलेन्द्राय महनीयगुणात्मने । चक्रवर्तितनूजाय सार्वभौमाय मङ्गलम् ॥१२॥
Verse
यदक्षरपदभ्रष्टं मात्राहीनं तु यद् भवेत् । तत् सर्वं क्षम्यतां देव नारायण नमोऽस्तुते ॥
Verse
विसर्गबिन्दुमात्राश्च पदपादाक्षराणि च । न्यूनानि चातिरिक्तानि क्षमस्व पुरुषोत्तम ॥
Verse
यज्ञेशाच्युत गोविन्द माधवानन्त केशव । कृष्ण विष्णो हृषीकेश वासुदेव नमोऽस्तुते ॥
Verse
कायेन वाचा मनसेन्द्रियैर्वा बुद्ध्याऽऽत्मना वा प्रकृतेः स्वभावात् । करोमि यद्यत् सकलं परस्मै नारायणायेति समर्पयामि ॥
