Preparing Your Space .

Settling the page into your current context.

GyanDweepBeta
HomeLearnLibrary
eGurukulsDiscoverTemplesPanchanga
Sign Up
Sign Up

stotrasangraha

gaṇāṣṭakam

गणाष्टकम्

Verse

एकदन्तं महाकायं तप्तकाञ्चनसन्निभम् । लम्बोदरं विशालाक्षं वन्देऽहं गणनायकम् ॥१॥

Verse

मौञ्जीकृष्णाजिनधरं नागयज्ञोपवीतिनम् । बालेन्दुशकलं मौलौ वन्देऽहं गणनायकम् ॥२॥

Verse

चित्ररत्न-विचित्राङ्ग-चित्रमालाविभूषितम् । कामरूपधरं देवं वन्देऽहं गणनायकम् ॥३॥

Verse

मूषकोत्तमम् आरुह्य देवासुरमहाहवे । योद्धुकामं महावीर्यं वन्देऽहं गणनायकम् ॥४॥

Verse

गजवक्त्रं सुरश्रेष्ठं कर्णचामरभूषितम् । पाशाङ्कुशधरं देवं वन्देऽहं गणनायकम् ॥५॥

Verse

यक्षकिन्नर-गन्धर्व-सिद्ध-विद्याधरैः सदा । स्तूयमानं महाबाहुं वन्देऽहं गणनायकम् ॥६॥

Verse

अम्बिकाहृदयानन्दं मातृभिः परिवेष्टितम् । भक्तप्रियं मदोन्मत्तं वन्देऽहं गणनायकम् ॥७॥

Verse

सर्वविघ्नकरं देवं सर्वविघ्नविवर्जितम् । सर्वसिद्धिप्रदातारं वन्देऽहं गणनायकम् ॥८॥

Verse

गणाष्टकमिदं पुण्यं यः पठेत् सततं नरः । सिद्‌ध्यन्ति सर्वकार्याणि विद्यावान् धनवान् भवेत् ॥

mahāgaṇeśapañcaratnam
gaṇapatistavaḥ

सा विद्या या विमुक्तये

Built with Sankalpa at Gyaandweep

Gyaandweep

© 2022-2026 Granthajyoti Pvt Ltd.

Privacy & Terms