stotrasangraha
gakārādi śrī-gaṇapati sahasranāma-stotram
गकारादि श्री-गणपति सहस्रनाम-स्तोत्रम्
Verse
अस्य श्रीगणपतिगकारादिसहस्रनाममालामन्त्रस्य। दुर्वासा ऋषिः। अनुष्टुप् छन्दः। श्री-गणपतिर्देवता। गं बीजम्। स्वाहा शक्तिः। ग्लौं कीलकम् । सकलाभीष्टसिद्ध्यर्थे जपे विनियोगः ॥
Verse
ओं अङ्गुष्ठाभ्यां नमः। श्रीं तर्जनीभ्यां नमः। ह्रीं मध्यमाभ्यां नमः। क्रीं अनामिकाभ्यां नमः। ग्लौं कनिष्ठिकाभ्यां नमः। गं करतलकरपृष्ठाभ्यां नमः। एवं हृदयादिन्यासः। अथवा षड्दीर्घभाजागमितिबीजेन कराङ्गन्यासः॥
Verse
ओङ्कार-सन्निभमिभाननमिन्दुभालं मुक्ताग्रबिन्दुममलद्युतिमेकदन्तम् । लम्बोदरं कलचतुर्भुजमादिदेवं ध्यायेन्महागणपतिं मतिसिद्धिकान्तम् ॥
Verse
ओं गणेश्वरो गणाध्यक्षो गणाराध्यो गणप्रियः । गणनाथो गणस्वामी गणेशो गणनायकः ॥१॥
Verse
गणमूर्तिर्गणपतिर्गणत्राता गणञ्जयः । गणपोऽथ गणक्रीडो गणदेवो गणाधिपः ॥२॥
Verse
गणज्येष्ठो गणश्रेष्ठो गणप्रेष्ठो गणाधिराट् । गणराड् गणगोप्ताथ गणाङ्गो गणदैवतम् ॥३॥
Verse
गणबन्धुर्गणसुहृद्गणाधीशो गणप्रथः । गणप्रियसखः शश्वद्गणप्रियसुहृत् तथा ॥४॥
Verse
गणप्रियरतो नित्यं गणप्रीतिविवर्धनः । गणमण्डलमध्यस्थो गणकेलिपरायणः ॥५॥
Verse
गणाग्रणीर्गणेशानो गणगीतो गणोच्छ्रयः । गण्यो गणहितो गर्जद्गणसेनो गणोद्धतः ॥६॥
Verse
गणभीतिप्रमथनो गणभीत्यपहारकः । गणनार्हो गणप्रौढो गणभर्ता गणप्रभुः ॥७॥
Verse
गणसेनो गणचरो गणप्रज्ञो गणैकराट् । गणाग्र्यो गणनामा च गणपालनतत्परः ॥८॥
Verse
गणजिद्गणगर्भस्थो गणप्रवणमानसः । गणगर्वपरीहर्ता गणो गणनमस्कृतः ॥९॥
Verse
गणार्चिताङ्घ्रियुगलो गणरक्षणकृत् सदा । गणध्यातो गणगुरुर्गणप्रणयतत्परः ॥१०॥
Verse
गणागणपरित्राता गणाधिहरणोद्धुरः । गणसेतुर्गणनुतो गणकेतुर्गणाग्रगः ॥११॥
Verse
गणहेतुर्गणग्राही गणानुग्रहकारकः । गणागणानुग्रहभूर्गणागणवरप्रदः ॥१२॥
Verse
गणस्तुतो गणप्राणो गणसर्वस्वदायकः । गणवल्लभमूर्तिश्च गणभूतिर्गणेष्टदः ॥१३॥
Verse
गणसौख्यप्रदाता च गणदुःखप्रणाशनः । गणप्रथितनामा च गणाभीष्टकरः सदा ॥१४॥
Verse
गणमान्यो गणख्यातो गणवीतो गणोत्कटः । गणपालो गणवरो गणगौरवदायकः ॥१५॥
Verse
गणगर्जितसन्तुष्टो गणस्वच्छन्दगः सदा । गणराजो गणश्रीदो गणाभयकरः क्षणात् ॥१६॥
Verse
गणमूर्धाभिषिक्तश्च गणसैन्यपुरस्सरः । गुणातीतो गुणमयो गुणत्रयविभागकृत् ॥१७॥
Verse
गुणी गुणाकृतिधरो गुणशाली गुणप्रियः । गुणपूर्णो गुणाम्भोधिर्गुणभाग् गुणदूरगः ॥१८॥
Verse
गुणागुणवपुर्गौणशरीरो गुणमण्डितः । गुणस्त्रष्टा गुणेशानो गुणेशोऽथ गुणेश्वरः ॥१९॥
Verse
गुणसृष्टजगत्सङ्घो गुणसङ्घो गुणैकराट् । गुणप्रवृष्टो गुणभूर्गुणीकृतचराचरः ॥२०॥
Verse
गुणप्रवणसन्तुष्टो गुणहीनपराङ्मुखः । गुणैकभूर्गुणश्रेष्ठो गुणज्येष्ठो गुणप्रभुः ॥२१॥
Verse
गुणज्ञो गुणसम्पूज्यो गुणैकसदनं सदा । गुणप्रणयवान् गौणप्रकृतिर्गुणभाजनम् ॥२२॥
Verse
गुणिप्रणतपादाब्जो गुणिगीतो गुणोज्ज्वलः । गुणवान् गुणसम्पन्नो गुणानन्दितमानसः ॥२३॥
Verse
गुणसञ्चारचतुरो गुणसञ्चयसुन्दरः । गुणगौरो गुणाधारो गुणसंवृतचेतनः ॥२४॥
Verse
गुणकृद्गुणभृन्नित्यं गुणाग्र्यो गुणपारदृक् । गुणप्रचारी गुणयुग् गुणागुणविवेककृत् ॥२५॥
Verse
गुणाकरो गुणकरो गुणप्रवणवर्धनः । गुणगूढचरो गौणसर्वसंसारचेष्टितः ॥२६॥
Verse
गुणदक्षिणसौहार्दो गुणलक्षणतत्त्ववित् । गुणहारी गुणकलो गुणसङ्घसखः सदा ॥२७॥
Verse
गुणसंस्कृतसंसारो गुणतत्त्वविवेचकः । गुणगर्वधरो गौणसुखदुःखोदयो गुणः ॥२८॥
Verse
गुणाधीशो गुणलयो गुणवीक्षणलालसः । गुणगौरवदाता च गुणदाता गुणप्रदः ॥२९॥
Verse
गुणकृद्गुणसम्बन्धो गुणभृद्गुणबन्धनः । गुणहृद्यो गुणस्थायी गुणदायी गुणोत्कटः ॥३०॥
Verse
गुणचक्रधरो गौणावतारो गुणबान्धवः । गुणबन्धुर्गुणप्रज्ञो गुणप्राज्ञो गुणालयः ॥३१॥
Verse
गुणधाता गुणप्राणो गुणगोपो गुणाश्रयः । गुणयायी गुणाधायी गुणपो गुणपालकः ॥३२॥
Verse
गुणाहृततनुर्गौणो गीर्वाणो गुणगौरवः । गुणवत्पूजितपदो गुणवत्प्रीतिदायकः ॥३३॥
Verse
गुणवद्गीतकीर्तिश्च गुणवद् बद्धसौहृदः । गुणवद्वरदो नित्यं गुणवत्प्रतिपालकः ॥३४॥
Verse
गुणवद्गुणसन्तुष्टो गुणवद्रचितस्तवः । गुणवद्रक्षणपरो गुणवत्प्रणयप्रियः ॥३५॥
Verse
गुणवच्चक्रसञ्चारो गुणवत्कीर्तिवर्धनः । गुणवद्गुणचित्तस्थो गुणवद्गुणरक्षकः ॥३६॥
Verse
गुणवत्पोषणकरो गुणवच्छत्रुसूदनः । गुणवत्सिद्धिदाता च गुणवद्गौरवप्रदः ॥३७॥
Verse
गुणवत्प्रवणस्वान्तो गुणवद्गुणभूषणः । गुणवत्कुलविद्वेषिविनाशकरणक्षमः ॥३८॥
Verse
गुणिस्तुतगुणो गर्जप्रलयाम्बुदनिःस्वनः । गजो गजपतिर्गर्जद्गजयुद्धविशारदः ॥३९॥
Verse
गजास्यो गजकर्णोऽथ गजराजो गजाननः । गजरूपधरो गर्जद्गजयूथोद्धुरध्वनिः ॥४०॥
Verse
गजाधीशो गजाधारो गजासुरजयोद्धुरः । गजदन्तो गजवरो गजकुम्भो गजध्वनिः ॥४१॥
Verse
गजमायो गजमयो गजश्रीर्गजगर्जितः । गजामयहरो नित्यं गजपुष्टिप्रदायकः ॥४२॥
Verse
गजोत्पत्तिर्गजत्राता गजहेतुर्गजाधिपः । गजमुख्यो गजकुलप्रवरो गजदैत्यहा ॥४३॥
Verse
गजकेतुर्गजाध्यक्षो गजसेतुर्गजाकृतिः । गजवन्द्यो गजप्राणो गजसेव्यो गजप्रभुः ॥४४॥
Verse
गजमत्तो गजेशानो गजेशो गजपुङ्गवः । गजदन्तधरो गुञ्जन्मधुपो गजवेषभृत् ॥४५॥
Verse
गजच्छन्नो गजाग्रस्थो गजयायी गजाजयः । गजराड्गजयूथस्थो गजगञ्जकभञ्जकः ॥४६॥
Verse
गर्जितोज्ञितदैत्यासुर्गर्जितत्रातविष्टपः । गानज्ञो गानकुशलो गानतत्त्वविवेचकः ॥४७॥
Verse
गानश्लाघी गानरसो गानज्ञानपरायणः । गानागमज्ञो गानाङ्गो गानप्रवणचेतनः ॥४८॥
Verse
गानकृद्गानचतुरो गानविद्याविशारदः । गानध्येयो गानगम्यो गानध्यानपरायणः ॥४९॥
Verse
गानभूर्गानशीलश्च गानशाली गतश्रमः । गानविज्ञानसम्पन्नो गानश्रवणलालसः ॥५०॥
Verse
गानयत्तो गानमयो गानप्रणयवान् सदा । गानध्याता गानबुद्धिर्गानोत्सुकमनाः पुनः ॥५१॥
Verse
गानोत्सुको गानभूमिर्गानसीमा गुणोज्ज्वलः । गानङ्गज्ञानवान् गानमानवान् गानपेशलः ॥५२॥
Verse
गानवत्प्रणयो गानसमुद्रो गानभूषणः । गानसिन्धुर्गानपरो गानप्राणो गणाश्रयः ॥५३॥
Verse
गानैकभूर्गानहृष्टो गानचक्षुर्गाणैकदृक् । गानमत्तो गानरुचिर्गानविद्गानवित्प्रियः ॥५४॥
Verse
गानान्तरात्मा गानाढ्यो गानभ्राजत्सभः सदा । गानमयो गानधरो गानविद्याविशोधकः ॥५५॥
Verse
गानाहितघ्रो गानेन्द्रो गानलीनो गतिप्रियः । गानाधीशो गानलयो गानाधारो गतीश्वरः ॥५६॥
Verse
गानवन्मानदो गानभूतिर्गानैकभूतिमान् । गानतानततो गानतानदानविमोहितः ॥५७॥
Verse
गुरुर्गुरुदरश्रोणिर्गुरुतत्त्वार्थदर्शनः । गुरुस्तुतो गुरुगुणो गुरुमायो गुरुप्रियः ॥५८॥
Verse
गुरुकीर्तिर्गुरुभुजो गुरुवक्षा गुरुप्रभः । गुरुलक्षणसम्पन्नो गुरुद्रोहपराङ्मुखः ॥५९॥
Verse
गुरुविद्यो गुरुप्राणो गुरुबाहुबलोच्छ्रयः । गुरुदैत्यप्राणहरो गुरुदैत्यापहारकः ॥६०॥
Verse
गुरुगर्वहरो गुह्यप्रवरो गुरुदर्पहा । गुरुगौरवदायी च गुरुभीत्यपहारकः ॥६१॥
Verse
गुरुशुण्डो गुरुस्कन्धो गुरुजङ्घो गुरुप्रथः । गुरुभालो गुरुगलो गुरुश्रीर्गुरुगर्वनुत् ॥६२॥
Verse
गुरूरुर्गुरुपीनांसो गुरुप्रणयलालसः । गुरुमुख्यो गुरुकुलस्थायी गुरुगुणः सदा ॥६३॥
Verse
गुरुसंशयभेत्ता च गुरुमानप्रदायकः । गुरुधर्मसदाराध्यो गुरुधर्मनिकेतनः ॥६४॥
Verse
गुरुदैत्यकुलच्छेत्ता गुरुसैन्यो गुरुद्युतिः ॥६५॥
Verse
गुरुधर्माग्रगण्योऽथ गुरुधर्मधुरन्धरः । गरिष्ठो गुरुसन्तापशमनो गुरुपूजितः ॥६६॥
Verse
गुरुधर्मधरो गौरधर्माधारो गदापहः । गुरुशास्त्रविचारज्ञो गुरुशास्त्रकृतोद्यमः ॥६७॥
Verse
गुरुशास्त्रार्थनिलयो गुरुशास्त्रालयः सदा । गुरुमन्त्रो गुरुशेष्ठो गुरुमन्त्रफलप्रदः ॥६८॥
Verse
गुरुस्त्रीगमनोद्दामप्रायश्चित्तनिवारकः । गुरुसंसारसुखदो गुरुसंसारदुःखभित् ॥६९॥
Verse
गुरुश्लाघापरो गौरभानुखण्डावतंसभृत् । गुरुप्रसन्नमूर्तिश्च गुरुशापविमोचकः ॥७०॥
Verse
गुरुकान्तिर्गुरुमयो गुरुशासनपालकः । गुरुतन्त्रो गुरुप्रज्ञो गुरुभो गुरुदैवतम् ॥७१॥
Verse
गुरुविक्रमसञ्चारो गुरुदृग्गुरुविक्रमः । गुरुक्रमो गुरुप्रेष्ठो गुरुपाखण्डखण्डकः ॥७२॥
Verse
गुरुगर्जितसम्पूर्णब्रह्माण्डो गुरुगर्जितः । गुरुपुत्रप्रियसखो गुरुपुत्रभयापहः ॥७३॥
Verse
गुरुपुत्रपरित्राता गुरुपुत्रवरप्रदः । गुरुपुत्रार्तिशमनो गुरुपुत्राधिनाशनः ॥७४॥
Verse
गुरुपुत्रप्राणदाता गुरुभक्तिपरायणः । गुरुविज्ञानविभवो गौरभानुवरप्रदः ॥७५॥
Verse
गौरभानुस्तुतो गौरभानुत्रासापहारकः । गौरभानुप्रियो गौरभानुर्गौरववर्धनः ॥७६॥
Verse
गौरभानुपरित्राता गौरभानुसखः सदा । गौरभानुर्प्रभुर्गौरभानुभीतिप्रणाशनः ॥७७॥
Verse
गौरीतेजःसमुत्पन्नो गौरीहृदयनन्दनः । गौरीस्तनन्धयो गौरीमनोवाञ्छितसिद्धिकृत् ॥७८॥
Verse
गौरो गौरगुणो गौरप्रकाशो गौरभैरवः । गौरीशनन्दनो गौरीप्रियपुत्रो गदाधरः ॥७९॥
Verse
गौरीवरप्रदो गौरीप्रणयो गौरसच्छविः । गौरीगणेश्वरो गौरीप्रवणो गौरभावनः ॥८०॥
Verse
गौरात्मा गौरकीर्तिश्च गौरभावो गरिष्ठदृक् । गौतमो गौतमीनाथो गौतमीप्राणवल्लभः ॥८१॥
Verse
गौतमाभीष्टवरदो गौतमाभयदायकः । गौतमप्रणयप्रह्वो गौतमाश्रमदुःखहा ॥८२॥
Verse
गौतमीतीरसञ्चारी गौतमीतीर्थनायकः । गौतमापत्परिहारो गौतमाधिविनाशनः ॥८३॥
Verse
गोपतिर्गोधनो गोपो गोपालप्रियदर्शनः । गोपालो गोगणाधीशो गोकश्मलनिवर्तकः ॥८४॥
Verse
गोसहस्रो गोपवरो गोपगोपीसुखावहः । गोवर्धनो गोपगोपो गोपो गोकुलवर्धनः ॥८५॥
Verse
गोचरो गोचराध्यक्षो गोचरप्रीतिवृद्धिकृत् । गोमी गोकष्टसन्त्राता गोसन्तापनिवर्तकः ॥८६॥
Verse
गोष्ठो गोष्ठाश्रयो गोष्ठपतिर्गोधनवर्धनः । गोष्ठप्रियो गोष्ठमयो गोष्ठामयनिवर्तकः ॥८७॥
Verse
गोलोको गोलको गोभृद्गोभर्ता गोसुखावहः । गोधुग्गोधुग्गणप्रेष्ठो गोदोग्धा गोमयप्रियः ॥८८॥
Verse
गोत्रं गोत्रपतिर्गोत्रप्रभुर्गोत्रभयापहः । गोत्रवृद्धिकरो गोत्रप्रियो गोत्रार्तिनाशनः ॥८९॥
Verse
गोत्रोद्धारपरो गोत्रप्रवरो गोत्रदैवतम् । गोत्रविख्यातनामा च गोत्री गोत्रप्रपालकः ॥९०॥
Verse
गोत्रसेतुर्गोत्रकेतुर्गोत्रहेतुर्गतक्लमः । गोत्रत्राणकरो गोत्रपतिर्गोत्रेशपूजितः ॥९१॥
Verse
गोत्रभिद्गोत्रभित्त्राता गोत्रभिद्वरदायकः । गोत्रभित्पूजितपदो गोत्रभिच्छत्रुसूदनः ॥९२॥
Verse
गोत्रभित्प्रीतिदो नित्यं गोत्रभिद्गोत्रपालकः । गोत्रभिद्गीतचरितो गोत्रभिद्राज्यरक्षकः ॥९३॥
Verse
गोत्रभिज्जयदायी च गोत्रभित्प्रणयः सदा । गोत्रभिद्भयसम्भेत्ता गोत्रभिन्मानदायकः ॥९४॥
Verse
गोत्रभिद्गोपनपरो गोत्रभित् सैन्यनायकः । गोत्राधिपप्रियो गोत्रपुत्रीपुत्रो गिरिप्रियः ॥९५॥
Verse
ग्रन्थज्ञो ग्रन्थकृद्ग्रन्थग्रन्थिभिद्ग्रन्थविघ्नहा । ग्रन्थादिर्ग्रन्थसञ्चारो ग्रन्थश्रवणलोलुपः ॥९६॥
Verse
ग्रन्थादीनक्रियो ग्रन्थप्रियो ग्रन्थार्थतत्त्ववित् । ग्रन्थसंशयसञ्छेदी ग्रन्थवक्ता ग्रहाग्रणीः ॥९७॥
Verse
ग्रन्थगीतगुणो ग्रन्थगीतो ग्रन्थादिपूजितः । ग्रन्थारम्भस्तुतो ग्रन्थग्राही ग्रन्थार्थपारदृक् ॥९८॥
Verse
ग्रन्थदृग्ग्रन्थविज्ञानो ग्रन्थसन्दर्भषोधकः । ग्रन्थकृत् पूजितो ग्रन्थकरो ग्रन्थपरायणः ॥९९॥
Verse
ग्रन्थपारायणपरो ग्रन्थसन्देहभञ्जकः । ग्रन्थकृद्वरदाता च ग्रन्थकृद्वन्दितः सदा ॥१००॥
Verse
ग्रन्थानुरक्तो ग्रन्थज्ञो ग्रन्थानुग्रहदायकः । ग्रन्थान्तरात्मा ग्रन्थार्थपण्डितो ग्रन्थसौहृदः ॥१०१॥
Verse
ग्रन्थपारङ्गमो ग्रन्थगुणविद्ग्रन्थविग्रहः । ग्रन्थसेतुर्ग्रन्थहेतुर्ग्रन्थकेतुर्ग्रहाग्रगः ॥१०२॥
Verse
ग्रन्थपूज्यो ग्रन्थगेयो ग्रन्थग्रथनलालसः । ग्रन्थभूमिर्ग्रहश्रेष्ठो ग्रहकेतुर्ग्रहाश्रयः ॥१०३॥
Verse
ग्रन्थकारो ग्रन्थकारमान्यो ग्रन्थप्रसारकः । ग्रन्थश्रमज्ञो ग्रन्थाङ्गो ग्रन्थभ्रमनिवारकः ॥१०४॥
Verse
ग्रन्थप्रवणसर्वाङ्गो ग्रन्थप्रणयतत्परः । गीतं गीतगुणो गीतकीर्तिर्गीतविशारदः ॥१०५॥
Verse
गीतस्फीतयशा गीतप्रणयो गीतचञ्चुरः । गीतप्रसन्नो गीतात्मा गीतलोलो गतस्पृहः ॥१०६॥
Verse
गीताश्रयो गीतमयो गीततत्त्वार्थकोविदः । गीतसंशयसञ्छेत्ता गीतसङ्गीतशासनः ॥१०७॥
Verse
गीतार्थज्ञो गीततत्त्वो गीतातत्त्वं गताश्रयः । गीतासारोऽथ गीताकृद्गीताकृद्विघ्ननाशनः ॥१०८॥
Verse
गीताशक्तो गीतलीनो गीताविगतसञ्ज्वरः । गीतैकदृग्गीतभूतिर्गीतप्रीतो गतालसः ॥१०९॥
Verse
गीतवाद्यपटुर्गीतप्रभुर्गीतार्थतत्त्ववित् । गीतागीतविवेकज्ञो गीताप्रवणचेतनः ॥११०॥
Verse
गतभीर्गतविद्वेषो गतसंसारबन्धनः । गतमायो गतत्रासो गतदुःखो गतज्वरः ॥१११॥
Verse
गतासुहृद्गतज्ञानो गतदुष्टाशयो गतः । गतार्तिर्गतसङ्कल्पो गतदुष्टविचेष्टितः ॥११२॥
Verse
गताहङ्कारसञ्चारो गतदर्पो गताहितः । गतविघ्नो गतभयो गतागतनिवारकः ॥११३॥
Verse
गतव्यथो गतापायो गतदोषो गतेः परः । गतसर्वविकारोऽथ गतगञ्जितकुञ्जरः ॥११४॥
Verse
गतकम्पितभूपृष्ठो गतरुग्गतकल्मषः । गतदैन्यो गतस्तैन्यो गतमानो गतश्रमः ॥११५॥
Verse
गतक्रोधो गतग्लानिर्गतम्लानो गतभ्रमः । गताभावो गतभवो गततत्त्वार्थसंशयः ॥११६॥
Verse
गयासुरशिरश्छेत्ता गयासुरवरप्रदः । गयावासो गयानाथो गयावासिनमस्कृतः ॥११७॥
Verse
गयातीर्थफलाध्यक्षो गयायात्राफलप्रदः । गयामयो गयाक्षेत्रं गयाक्षेत्रनिवासकृत् ॥११८॥
Verse
गयावासिस्तुतो गयान्मधुव्रतलसत्कटः । गायको गायकवरो गायकेष्टफलप्रदः ॥११९॥
Verse
गायकप्रणयी गाता गायकाभयदायकः । गायकप्रवणस्वान्तो गायकः प्रथमः सदा ॥१२०॥
Verse
गायकोद्गीतसम्प्रीतो गायकोत्कटविघ्नहा । गानगेयो गानकेशो गायकान्तरसञ्चरः ॥१२१॥
Verse
गायकप्रियदः शश्वद्गायकाधीनविग्रहः । गेयो गेयगुणो गेयचरितो गेयतत्त्ववित् ॥१२२॥
Verse
गायकत्रासहा ग्रन्थो ग्रन्थतत्त्वविवेचकः । गाढानुरागो गाढाङ्गो गाढागङ्गाजलोऽन्वहम् ॥१२३॥
Verse
गाढावगाढजलधिर्गाढप्रज्ञो गतामयः । गाढप्रत्यर्थिसैन्योऽथ गाढानुग्रहतत्परः ॥१२४॥
Verse
गाढश्लेषरसाभिज्ञो गाढनिर्वृतिसाधकः । गङ्गाधरेष्टवरदो गङ्गाधरभयापहः ॥१२५॥
Verse
गङ्गाधरगुरुर्गङ्गाधरध्यातपदः सदा । गङ्गाधरस्तुतो गङ्गाधराराध्यो गतस्मयः ॥१२६॥
Verse
गङ्गाधरप्रियो गङ्गाधरो गङ्गाम्बुसुन्दरः । गङ्गाजलरसास्वादचतुरो गाङ्गतीरयः ॥१२७॥
Verse
गङ्गाजलप्रणयवान् गङ्गातीरविहारकृत् । गङ्गाप्रियो गङ्गाजलावगाहनपरः सदा ॥१२८॥
Verse
गन्धमादनसंवासो गन्धमादनकेलिकृत् । गन्धानुलिप्तसर्वाङ्गो गन्धलुब्धमधुव्रतः ॥१२९॥
Verse
गन्धो गन्धर्वराजोऽथ गन्धर्वप्रियकृत् सदा । गन्धर्वविद्यातत्त्वज्ञो गन्धर्वप्रीतिवर्धनः ॥१३०॥
Verse
गकारबीजनिलयो गकारो गर्विगर्वनुत् । गन्धर्वगणसंसेव्यो गन्धर्ववरदायकः ॥१३१॥
Verse
गन्धर्वो गन्धमातङ्गो गन्धर्वकुलदैवतम् । गन्धर्वगर्वसञ्छेत्ता गन्धर्ववरदर्पहा ॥१३२॥
Verse
गन्धर्वप्रवणस्वान्तो गन्धर्वगणसंस्तुतः । गन्धर्वार्चितपादाब्जो गन्धर्वभयहारकः ॥१३३॥
Verse
गन्धर्वाभयदः शश्वद्गन्धर्वप्रतिपालकः । गन्धर्वगीतचरितो गन्धर्वप्रणयोत्सुकः ॥१३४॥
Verse
गन्धर्वगानश्रवणप्रणयी गर्वभञ्जनः । गन्धर्वत्राणसन्नद्धो गन्धर्वसमरक्षमः ॥१३५॥
Verse
गन्धर्वस्त्रीभिराराध्यो गानं गानपटुः सदा । गच्छो गच्छपतिर्गच्छनायको गच्छगर्वहा ॥१३६॥
Verse
गच्छराजोऽथ गच्छेशो गच्छराजनमस्कृतः । गच्छप्रियो गच्छगुरुर्गच्छत्राणकृतोद्यमः ॥१३७॥
Verse
गच्छप्रभुर्गच्छचरो गच्छप्रियकृतोद्यमः । गच्छगीतगुणो गच्छमर्यादाप्रतिपालकः ॥१३८॥
Verse
गच्छधाता गच्छभर्ता गच्छवन्द्यो गुरोर्गुरुः । गृत्सो गृत्समदो गृत्समदाभीष्टवरप्रदः ॥१३९॥
Verse
गीर्वाणगीतचरितो गीर्वाणगणसेवितः । गीर्वाणवरदाता च गीर्वाणभयनाशकृत् ॥१४०॥
Verse
गीर्वाणगुणसंवीतो गीर्वाणारातिसूदनः । गीर्वाणधाम गीर्वाणगोप्ता गीर्वाणगर्वहृत् ॥१४१॥
Verse
गीर्वाणार्तिहरो नित्यं गीर्वाणवरदायकः । गीर्वाणशरणं गीतनामा गीर्वाणसुन्दरः ॥१४२॥
Verse
गीर्वाणप्राणदो गन्ता गीर्वाणानीकरक्षकः । गुहेहापूरको गन्धमत्तो गीर्वाणपुष्टिदः ॥१४३॥
Verse
गीर्वाणप्रयुतत्राता गीतगोत्रो गताहितः । गीर्वाणसेवितपदो गीर्वाणप्रथितो गलत् ॥१४४॥
Verse
गीर्वाणगोत्रप्रवरो गीर्वाणफलदायकः । गीर्वाणप्रियकर्ता च गीर्वाणागमसारवित् ॥१४५॥
Verse
गीर्वाणागमसम्पत्तिर्गीर्वाणव्यसनापहः । गीर्वाणप्रणयो गीतग्रहणोत्सुकमानसः ॥१४६॥
Verse
गीर्वाणभ्रमसम्भेत्ता गीर्वाणगुरुपूजितः । ग्रहो ग्रहपतिर्ग्राहो ग्रहपीडाप्रणाशनः ॥१४७॥
Verse
ग्रहस्तुतो ग्रहाध्यक्षो ग्रहेशो ग्रहदैवतम् । ग्रहकृद्ग्रहभर्ता च ग्रहेशानो ग्रहेश्वरः ॥१४८॥
Verse
ग्रहाराध्यो ग्रहत्राता ग्रहगोप्ता ग्रहोत्कटः । ग्रहगीतगुणो ग्रन्थप्रणेता ग्रहवन्दितः ॥१४९॥
Verse
गवी गवीश्वरो गर्वी गर्विष्ठो गर्विगर्वहा । गवाम्प्रियो गवान्नाथो गवीशानो गवाम्पती ॥१५०॥
Verse
गव्यप्रियो गवाङ्गोप्ता गविसम्पत्तिसाधकः । गविरक्षणसन्नद्धो गवाम्भयहरः क्षणात् ॥१५१॥
Verse
गविगर्वहरो गोदो गोप्रदो गोजयप्रदः । गजायुतबलो गण्डगुञ्जन्मत्तमधुव्रतः ॥१५२॥
Verse
गण्डस्थललसद्दानमिलन्मत्तालिमण्डितः । गुडो गुडप्रियो गुण्डगलद्दानो गुडाशनः ॥१५३॥
Verse
गुडाकेशो गुडाकेशसहायो गुडलड्डुभुक् । गुडभुग्गुडभुग्गणयो गुडाकेशवरप्रदः ॥१५४॥
Verse
गुडाकेशार्चितपदो गुडाकेशसखः सदा । गदाधरार्चितपदो गदाधरवरप्रदः ॥१५५॥
Verse
गदायुधो गदापाणिर्गदायुद्धविशारदः । गदहा गददर्पघ्नो गदगर्वप्रणाशनः ॥१५६॥
Verse
गदग्रस्तपरित्राता गदाडम्बरखण्डकः । गुहो गुहाग्रजो गुप्तो गुहाशायी गुहाशयः ॥१५७॥
Verse
गुहप्रीतिकरो गूढो गूढगुल्फो गुणैकदृक् । गीर्गीष्पतिर्गिरीशानो गीर्देवीगीतसद्गुणः ॥१५८॥
Verse
गीर्देवो गीष्प्रियो गीर्भूर्गीरात्मा गीष्प्रियङ्करः । गीर्भूमिर्गीरसन्नोऽथ गीःप्रसन्नो गिरीश्वरः ॥१५९॥
Verse
गिरीशजो गिरौशायी गिरिराजसुखावहः । गिरिराजार्चितपदो गिरिराजनमस्कृतः ॥१६०॥
Verse
गिरिराजगुहाविष्टो गिरिराजाभयप्रदः । गिरिराजेष्टवरदो गिरिराजप्रपालकः ॥१६१॥
Verse
गिरिराजसुतासूनुर्गिरिराजजयप्रदः । गिरिव्रजवनस्थायी गिरिव्रजचरः सदा ॥१६२॥
Verse
गर्गो गर्गप्रियो गर्गदेहो गर्गनमस्कृतः । गर्गभीतिहरो गर्गवरदो गर्गसंस्तुतः ॥१६३॥
Verse
गर्गगीतप्रसन्नात्मा गर्गानन्दकरः सदा । गर्गप्रियो गर्गमानप्रदो गर्गारिभञ्जकः ॥१६४॥
Verse
गर्गवर्गपरित्राता गर्गसिद्धिप्रदायकः । गर्गग्लानिहरो गर्गभ्रमहृद्गर्गसङ्गतः ॥१६५॥
Verse
गर्गाचार्यो गर्गमुनिर्गर्गसम्मानभाजनः । गम्भीरो गणितप्रज्ञो गणितागमसारवित् ॥१६६॥
Verse
गणको गणकश्लाघ्यो गणकप्रणयोत्सुकः । गणकप्रवणस्वान्तो गणितो गणितागमः ॥१६७॥
Verse
गद्यं गद्यमयो गद्यपद्यविद्याविशारदः । गललग्नमहानागो गलदर्चिर्गलन्मदः ॥१६८॥
Verse
गलत्कुष्ठिव्यथाहन्ता गलत्कुष्ठिसुखप्रदः । गम्भीरनाभिर्गम्भीरस्वरो गम्भीरलोचनः ॥१६९॥
Verse
गम्भीरगुणसम्पन्नो गम्भीरगतिशोभनः । गर्भप्रदो गर्भरूपो गर्भापद्विनिवारकः ॥१७०॥
Verse
गर्भागमनसन्नाशो गर्भदो गर्भशोकनुत् । गर्भत्राता गर्भगोप्ता गर्भपुष्टिकरः सदा ॥१७१॥
Verse
गर्भाश्रयो गर्भमयो गर्भामयनिवारकः । गर्भाधारो गर्भधरो गर्भसन्तोषसाधकः ॥१७२॥
Verse
गर्भगौरवसन्धानसन्धानं गर्भवर्गहृत् । गरीयान् गर्वनुद्गर्वमर्दी गरदमर्दकः ॥१७३॥
Verse
गरसन्तापशमनो गुरुराज्यसुखप्रदः।
Verse
नाम्नां सहस्रमुदितं महद्गणपतेरिदम् ॥१७४॥
Verse
गकारादि जगद्वन्द्यं गोपनीयं प्रयत्नतः । य इदं प्रयतः प्रातस्त्रिसन्ध्यं वा पठेन्नरः ॥१७५॥
Verse
वाञ्छितं समवाप्नोति नात्र कार्या विचारणा । पुत्रार्थी लभते पुत्रान् धनार्थी लभते धनम् ॥१७६॥
Verse
विद्यार्थी लभते विद्यां सत्यं सत्यं न संशयः । भूर्जत्वचि समालिख्य कुङ्कुमेन समाहितः ॥१७७॥
Verse
चतुर्थां भौमवारो च चन्द्रसूर्योपरागके । पूजयित्वा गणाधीशं यथोक्तविधिना पुरा ॥१७८॥
Verse
पूजयेद्यो यथाशक्त्या जुहुयाच्च शमीदलैः । गुरुं सम्पूज्य वस्त्राद्यैः कृत्वा चापि प्रदक्षिणम् ॥१७९॥
Verse
धारयेद्यः प्रयत्नेन स साक्षाद् गणनायकः । सुराश्चासुरवर्याश्च पिशाचाः किन्नरोरगः ॥१८०॥
Verse
प्रणमन्ति सदा तं वै दुष्ट्वा विस्मितमानसाः । राजा सपदि वश्यः स्यात् कामिन्यस्तद्वशो स्थिराः ॥१८१॥
Verse
तस्य वंशो स्थिरा लक्ष्मीः कदाऽपि न विमुञ्चति । निष्कामो यः पठेदेतद्गणेश्वरपरायणः ॥१८२॥
Verse
स प्रतिष्ठां परां प्राप्य निजलोकमवाप्नुयात् । इदं ते कीर्तितं नाम्नां सहस्रं देवि पावनम् ॥१८३॥
Verse
न देयं कृपणायाथ शठाय गुरुविद्विषे । दत्त्वा च भ्रंशमाप्नोति देवतायाः प्रकोपतः ॥१८४॥
Verse
इति श्रुत्वा महादेवी तदा विस्मितमानसा । पूजयामास विधिवद्गणेश्वरपदद्वयम् ॥१८५॥
Verse
॥इति श्री-रुद्रयामले महागुप्तसारे शिवपार्वतीसंवादे गकारादि श्री-गणपतिसहस्रनामस्तोत्रं सम्पूर्णम्॥
