stotrasangraha
dhanvantari-stotram (matsya purāṇāntargatam)
धन्वन्तरि-स्तोत्रम् (मत्स्य पुराणान्तर्गतम्)
Verse
क्षीरोदमथनोद्भूतं दिव्य-गन्धानुलेपनम् । सुधा-कलश-हस्तं तं वन्दे धन्वन्तरिं हरिम् ॥
Verse
नमो लोक-त्र्याध्यक्ष तेजसा जित-भास्कर । नमो विष्णो नमो जिष्णो नमस्ते कैटभार्दन ॥१॥
Verse
नमः सर्ग-क्रिया-कर्त्रे जगत् पालयते नमः । नमः स्मृतार्ति-नाशाय नमः पुष्कर मालिने ॥२॥
Verse
दिव्यौषधि-स्वरूपाय सुधा-कलश-पाणये । शङ्ख-चक्र-गदा-पद्म-धारिणे वनमालिने ॥३॥
Verse
देवेन्द्रादि-सुरेड्याय नमः क्षीराब्धि-जन्मने । निर्गुणाय विशेषाय हरये ब्रह्म-रूपिणे ॥४॥
Verse
जगत् प्रतिष्ठितं यत्र जगतां यो न दृश्यते । नमः सूक्ष्मातिसूक्ष्माय तस्मै देवाय शङ्खिने ॥५॥
Verse
यं न पश्यन्ति पश्यन्तं जगदप्यखिलं नराः । अपश्यद्भिर्जगद् यश्च दृश्यते हृदि संस्थितः ॥६॥
Verse
यस्मिन् वनानि पर्वता नद्यश्चैवाखिलं जगत् । तस्मै नमोऽस्तु जगताम् आधाराय नमो नमः ॥७॥
Verse
आद्य-प्रजापतिर्यश्च यः पितॄणां परः पतिः । पतिः सुराणां यस्तस्मै नमः कृष्णाय वेधसे ॥८॥
Verse
यः प्रवृत्तौ निवृत्तौ च इज्यते कर्मभिः स्वकैः । स्वर्गापवर्ग-फल-दो नमस्तस्मै गदा-भृते ॥९॥
Verse
यश्चिन्त्यमानो मनसा सद्यः पापं व्यपोहति । नमस्तस्मै विशुद्धाय पराय हरि-मेधसे ॥१०॥
Verse
यं बुद्ध्वा सर्वभूतानि देव-देवेशमव्ययम् । न पुनर्जन्म-मरणे प्राप्नुवन्ति नमामि तम् ॥११॥
Verse
यो यज्ञे यज्ञ-परमैरिज्यते यज्ञ-संज्ञितः । तं यज्ञ-पुरुषं विष्णुं नमामि प्रभुमीश्वरम् ॥१२॥
Verse
गीयते सर्व-वेदेषु वेद-विद्भिर्विदां गतिः । यस्तस्मै वेद-वेद्याय विष्णवे जिष्णवे नमः ॥१३॥
Verse
यो विश्वं समुत्पन्नं यस्मिंश्च लयमेष्यति । विश्वोद्भव-प्रतिष्ठाय नमस्तस्मै महात्मने ॥१४॥
Verse
ब्रह्मादि-स्तम्ब-पर्यन्तं येन विश्वमिदं ततम् । माया जालं समुत्तर्त्तं तमुपेन्द्रं नमाम्यहम् ॥१५॥
Verse
विषाद-तोष-रोषाद्यैर्योऽजस्रं सुख-दुःखजम् । नृत्यत्यखिल-भूत-स्थस्तमुपेन्द्रं नमाम्यहम् ॥१६॥
Verse
यमाराध्य विशुद्धेन कर्मणा मनसा गिरा । तरन्त्यविद्याम् अखिलाम् आदि-वैद्यं नमाम्यहम् ॥१७॥
Verse
यः स्थितो विश्व-रूपेण बिभर्ति ह्यखिलौषधीः । तं रत्न-कलशोद्भासि-हस्तं धन्वन्तरिं नुमः ॥१८॥
Verse
विश्वं विश्व-पतिं विष्णुं तं नमामि प्रजापतिम् । मूर्त्या चासुरमय्या तु तद्विधान् विनिहन्ति यः ॥१९॥
Verse
रात्रि-रूपं सूर्य-रूपं भजेत्तं सान्ध्य-रूपिणम् । हन्ति विद्या-प्रदानेन यो वा अज्ञान-जं तमः ॥२०॥
Verse
यस्तु भेषज-रूपेण जगदाप्याययेत् सदा । यस्याक्षिणी चन्द्र-सूर्यौ सर्व-लोक-शुभङ्करः । पश्यतः कर्म सततं तं च धन्वन्तरिं नुमः ॥२१॥
Verse
यस्मिन् सर्वेश्वरे वश्यं जगत् स्थावर-जङ्गमम् । आभाति तमजं विष्णुं नमामि प्रभुमव्ययम् ॥२२॥
Verse
॥इति मत्स्य-पुराणान्तर्गतं धन्वन्तरि-स्तोत्रं सम्पूर्णम्॥
