Preparing Your Space .

Settling the page into your current context.

GyanDweepBeta
HomeLearnLibrary
eGurukulsDiscoverTemplesPanchanga
Sign Up
Sign Up

stotrasangraha

acyutāṣṭakam

अच्युताष्टकम्

Verse

अच्युतं केशवं राम-नारायणं कृष्ण-दामोदरं वासुदेवं हरिम् । श्रीधरं माधवं गोपिकावल्लभं जानकीनायकं रामचन्द्रं भजे ॥१॥

Verse

अच्युतं केशवं सत्यभामाधवं माधवं श्रीधरं राधिकाराधितम् । इन्दिरा मन्दिरं चेतसा सुन्दरं देवकीनन्दनं नन्दनं सन्दधे ॥२॥

Verse

विष्णवे जिष्णवे शङ्खिने चक्रिणे रुक्मिणी-रागिने जानकी-जानये । वल्लवी-वल्लभायाऽर्चितायात्मने कंस-विध्वंसिने वंशिने ते नमः ॥३॥

Verse

कृष्ण गोविन्द हे राम नारायण श्रीपते वासुदेवार्जित-श्रीनिधे । अच्युतानन्त हे माधवाधोक्षज द्वारका-नायक द्रौपदी-रक्षक ॥४॥

Verse

राक्षसक्षोभितः सीतया शोभितो दण्डकारण्य-भू-पुण्यता-कारणः । लक्ष्मणेनान्वितो वानरैः सेवितो- ऽगस्त्यसम्पूजितो राघवः पातु माम् ॥५॥

Verse

धेनुकारिष्टकोऽनिष्टकृद् द्वेषिणां केशिहा कंसहृद् वंशिकावादकः । पूतनाकोपकः सूरजा-खेलनो बाल-गोपालकः पातु मां सर्वदा ॥६॥

Verse

विद्युदाद्योतवान् प्रस्फुरद्वाससं प्रावृडम्भोदवत् प्रोल्लसद्विग्रहम् । वन्यया मालया शोभितोरस्थलं लोहिताङ्घ्रिद्वयं वारिजाक्षं भजे ॥७॥

Verse

कुञ्चितैः कुन्तलैर्भ्राजिमानाननं रत्नमौलिं लसत् कुण्डलं गण्डयोः । हारकेयूरकं कङ्कण-प्रोज्ज्वलं किङ्किणी-मञ्जुलं श्यामलं तं भजे ॥८॥

Verse

अच्युतस्याष्टकं यः पठेदिष्टदं प्रेमतः प्रत्यहं पूरुषः सस्पृहम् । वृत्ततः सुन्दरं वेद्यविश्वम्बरं तस्य वश्यो हरिर्जायते सत्वरम् ॥

Verse

॥इति श्रीमत्परमहंसपरिव्राजकाचार्यस्य श्री-गोविन्द-भगवत्पूज्य-पाद-शिष्यस्य श्रीमच्छङ्करभगवतः कृतौ श्री-अच्युताष्टकं सम्पूर्णम्॥

madhurāṣṭakam
bālamukundāṣṭakam

Read next

More on अच्युताष्टकम्

  • अच्युताष्टकंAshtakam

सा विद्या या विमुक्तये

Built with Sankalpa at Gyaandweep

Gyaandweep

© 2022-2026 Granthajyoti Pvt Ltd.

Privacy & Terms