sahasranAma
śrīgopālasahasranāmastotram
श्रीगोपालसहस्रनामस्तोत्रम्
Verse
पार्वत्युवाच– कैलासशिखरे रम्ये गौरी पृच्छति शङ्करम् । ब्रह्माण्डाखिलनाथस्त्वं सृष्टिसंहारकारकः ॥१॥
Verse
त्वमेव पूज्यसे लोकैर्ब्रह्मविष्णुशिवादिभिः नित्यं पठसि देवेश कस्य स्तोत्रं महेश्वर ॥२॥
Verse
आश्चर्यमिदमत्यन्तं जायते मम शङ्कर । तत्प्राणेश महाप्राज्ञ संशयं छिन्धि शङ्क्रर ॥३॥
Verse
श्रीमहादेव उवाच – धन्यासि कृतपुण्यासि पार्वति प्राणवल्लभे । रहस्यातिरहस्यं च यत्पृच्छसि वरानने ॥४॥
Verse
स्त्रीस्वभावान्महादेवि पुनस्त्वं पारिपृच्छसि । गोपनीयं गोपनीयं गोपनीयं प्रयत्नतः ॥५॥
Verse
दत्ते च सिद्धिहानि स्यात्तस्माद्यत्नेन गोपयेत् । इदं रहस्यं परमं पुरुषार्थप्रदायकम् ॥६॥
Verse
धनरत्नौघमाणिक्यतुरङ्गमगजादिकम् । ददाति स्मरणादेव महामोक्षप्रदायकम् ॥७॥
Verse
तत्तेऽहं संप्रवक्ष्यामि शृणुष्वावहिता प्रिये । योऽसौ निरञ्जनो देवश्चित्स्वरूपी जनार्दनः ॥८॥
Verse
संसारसागरोत्तारकारणाय सदा नृणाम् । श्रीरंगादिकरूपेण त्रैलोक्यं व्याप्य तिष्ठति ॥९॥
Verse
ततो लोका महामूढा विष्णुभक्तिविवर्जिताः निश्चयं नाधिगच्छन्ति पुनर्नारायणो हरिः ॥१०॥
Verse
निरञ्जनो निराकारो भक्तानां प्रीतिकामदः । वृन्दावनविहाराय गोपालं रूपमुद्वहन् ॥११॥
Verse
मुरलीवादनाधारी राधायै प्रीतिमावहन् । अंशांशेभ्यः समुन्मील्य पूर्णरूपकलायुतः ॥१२॥
Verse
श्रीकृष्णचन्द्रो भगवान् नन्दगोपवरोद्यतः । धरणीरूपिणी माता यशोदानन्ददायिनी ॥१३॥
Verse
द्वाभ्यां प्रयाचितो नाथो देवक्यां वसुदेवतः । ब्रह्मणाभ्यर्थितो देवो देवैरपि सुरेश्वरि ॥१४॥
Verse
जातोऽवन्यां मुकुन्दोऽपि मुरलीवेदरेचिका । तया सार्धं वचः कृत्वा ततो जातो महीतले ॥१५॥
Verse
संसारसारसर्वस्वं श्यामलं महदुज्ज्वलम् । एतज्ज्योतिरहं वेद्यं चिन्तयामि सनातनम् ॥१६॥
Verse
गौरतेजो विना यस्तु श्यामतेजः समर्चयेत् । जपेद्वा ध्ययते वापि स भवेत्पातकी शिवे ॥१७॥
Verse
स ब्रह्महा सुरापी च स्वर्णस्तेयी च पञ्चमः । एतैर्दोषैर्विलिप्येत तेजोभेदान्महेश्वरि ॥१८॥
Verse
तस्माज्ज्योतिरभूद्द्वेधा रधामाधवरूपकम् । तस्मादिदं महादेवि गोपालेनैव भाषितम् ॥१९॥
Verse
दुर्वाससो मुनेर्मोहे कार्तिक्यां रासमण्डले । ततः पृष्टवती राधा सन्देहं भेदमात्मनः ॥२०॥
Verse
निरञ्जनात्समुत्पन्नं मयाधीतं जगन्मयि । श्रीकृष्णेन ततः प्रोक्तं राधायै नारदाय च ॥२१॥
Verse
ततो नारदतः सर्वं विरला वैष्णवास्तथा । कलौ जानन्ति देवेशि गोपनीयं प्रयत्नतः ॥२२॥
Verse
शठाय कृपणायाथ दाम्भिकाय सुरेश्वरि । ब्रह्महत्यामवाप्नोति तस्माद्यत्नेन गोपयेत् ॥२३॥
Verse
ध्यानम् कस्तूरीतिलकं ललाटपटले वक्षःस्थले कौस्तुभं नासाग्रे नवमौक्तिकं करतले वेणुः करे कङ्कणम् । सर्वाङ्गे हरिचन्दनं सुललितं कण्ठे च मुक्तावली गोपस्त्रीपरिवेष्टितो विजयते गोपालचूडामणिः ॥१॥
Verse
फुल्लेन्दीवरकान्तिमिन्दुवदनं बर्हावतंसप्रियं श्रीवत्साङ्कमुदारकौस्तुभधरं पीताम्बरं सुन्दरम् । गोपीनां नयनोत्पलार्चिततनुं गोगोपसङ्घावृतं गोविन्दं कलवेणुवादनपरं दिव्याङ्गभूषं भजे ॥२॥
Verse
ऊं क्लीं देवः कामदेवः कामबीजशिरोमणिः । श्रीगोपालो महीपालः सर्ववेदाङ्गपारगः ॥१॥
Verse
धरणीपालको धन्यः पुण्डरीकः सनातनः । गोपतिर्भूपतिः शास्ता प्रहर्तावितोश्वमुखः ॥२॥
Verse
आदिकर्ता महाकर्ता महाकालः प्रतापवान् । जगज्जीवो जगद्धाता जगद्भर्ताजगद्वसुः ॥३॥
Verse
मत्स्यो भीमः कुहूभर्ता हर्ता वाराहमूर्तिमान् । नारायणो हृषीकेशो गोविन्दो गरुडध्वजः ॥४॥
Verse
गोकुलेन्द्रो महाचन्द्रः शर्वरीप्रियकारकः । कमलामुखलोलाक्षः पुण्डरीकशुभावहः ॥५॥
Verse
दुर्वासाः कपिलो भौमः सिन्धुसागरसङ्गमः । गोविन्दो गोपतिर्गोत्रः कालिन्दीप्रेमपूरकः ॥६॥
Verse
गोपस्वामी गोकुलेन्द्रो गोवर्धनवरप्रदः । नन्दादिगोकुलत्राता दाता दारिद्र्यभञ्जनः ॥७॥
Verse
सर्वमङ्गलदाता च सर्वकामप्रदायकः । आदिकर्ता महीभर्ता सर्वसागरसिन्धुजः ॥८॥
Verse
गजगामी गजोद्धारी कामी कामकलानिधिः । कलङ्करहितश्चन्द्रो बिम्बास्यो बिम्बसत्तमः ॥९॥
Verse
मालाकारः कृपाकारः कोकिलास्वरभूषणः । रामो नीलाम्बरो देवो हली दुर्दममर्दनः ॥१०॥
Verse
सहस्राक्षपुरीभेत्ता महामारीविनाशनः । शिवः शिवतमो भेत्ता बलारातिप्रपूजकः ॥११॥
Verse
कुमारीवरदायी च वरेण्यो मीनकेतनः । नरो नारायणो धीरो राधापतिरुदारधीः ॥१२॥
Verse
श्रीपतिः श्रीनिधिः श्रीमान् मापतिः प्रतिराजहा । वृन्दापतिः कुलग्रामी धामी ब्रह्म सनातनः ॥१३॥
Verse
रेवतीरमणो रामश्चञ्चलश्चारुलोचनः । रामायणशरीरोऽयं रामी रामः श्रियःपतिः ॥१४॥
Verse
शर्वरः शर्वरी शर्वः सर्वत्र शुभदायकः । राधाराधयितो राधी राधाचित्तप्रमोदकः ॥१५॥
Verse
राधारतिसुखोपेतो राधामोहनतत्परः । राधावशीकरो राधाहृदयाम्भोजषट्पदः ॥१६॥
Verse
राधालिङ्गनसम्मोहो राधानर्तनकौतुकः । राधासञ्जातसंप्रीती राधाकामफलप्रदः ॥१७॥
Verse
वृन्दापतिः कोशनिधिः कोकशोकविनाशकः । चन्द्रापतिश्चन्द्रपतिश्चण्डकोदण्डभञ्जनः ॥१८॥
Verse
रामो दाशरथी रामो भृगुवंशसमुद्भवः । आत्मारामो जितक्रोधो मोहो मोहान्धभञ्जनः ॥१९॥
Verse
वृषभानुर्भवो भावः काश्यपिः करुणानिधिः । कोलाहलो हली हाली हेली हलधरप्रियः ॥२०॥
Verse
राधामुखाब्जमार्ताण्डो भास्करो रविजो विधुः विधिर्विधाता वरुणो वारुणो वारुणीप्रियः ॥२१॥
Verse
रोहिणीहृदयानन्दी वसुदेवात्मजो बली । नीलाम्बरो रौहिणेयो जरासन्धवधोऽमलः ॥२२॥
Verse
नागो नवाम्भोविरुदो वीरहा वरदो बली । गोपथो विजयी विद्वान् शिपिविष्टः सनातनः ॥२३॥
Verse
परशुरामवचोग्राही वरग्राही शृगालहा । दमघोषोपदेष्टा च रथग्राही सुदर्शनः ॥२४॥
Verse
वीरपत्नीयशस्त्राता जराव्याधिविघातकः । द्वारकावासतत्त्वज्ञो हुताशनवरप्रदः ॥२५॥
Verse
यमुनावेगसंहारी नीलाम्बरधरः प्रभुः । विभुः शरासनो धन्वी गणेशो गणनायकः ॥२६॥
Verse
लक्ष्मणो लक्षणो लक्ष्यो रक्षोवंशविनाशनः । वामनो वामनीभूतो वमनो वमनारुहः ॥२७॥
Verse
यशोदानन्दनः कर्ता यमलार्जुनमुक्तिदः उलूखली महामानी दामबद्धाह्वयी शमी ॥२८॥
Verse
भक्तानुकारी भगवान् केशवोऽचलधारकः । केशिहा मधुहा मोही वृषासुरविघातकः ॥२९॥
Verse
अघासुरविघाती च पूतनामोक्षदायकः । कुब्जाविनोदी भगवान् कंसमृत्युर्महामखी ॥३०॥
Verse
अश्वमेधो वाजपेयो गोमेधो नरमेधवान् । कन्दर्पकोटिलावण्यश्चन्द्रकोटिसुशीतलः ॥३१॥
Verse
रविकोटिप्रतीकाशो वायुकोटिमहाबलः । ब्रह्मा ब्रह्माण्डकर्ता च कमलावाञ्छितप्रदः ॥३२॥
Verse
कमला कमलाक्षश्च कमलामुखलोलुपः । कमलाव्रतधारी च कमलाभः पुरन्दरः ॥३३॥
Verse
सौभाग्याधिकचित्तोऽयं महामायी महोत्कटः । तारकारिः सुरत्राता मारीचक्षोभकारकः ॥३४॥
Verse
विश्वामित्रप्रियो दान्तो रामो राजीवलोचनः । लङ्काधिपकुलध्वंसी विभीषणवरप्रदः ॥३५॥
Verse
सीतानन्दकरो रामो वीरो वारिधिबन्धनः । खरदूषणसंहारी साकेतपुरवासनः ॥३६॥
Verse
चन्द्रावलीपतिः कूलः केशी कंसवधोऽमरः । माधवो मधुहा माध्वी माध्वीको माधवो मधुः ॥३७॥
Verse
मुञ्जाटवीगाहमानो धेनुकारिर्धरात्मजः । वंशीवटविहारी च गोवर्धनवनाश्रयः ॥३८॥
Verse
तथा तालवनोद्देशी भाण्डीरवनशङ्खहा । तृणावर्तकथाकारी वृषभानुसुतापतिः ॥३९॥
Verse
राधाप्राणसमो राधावदनाब्जमधुव्रतः । गोपीरञ्जनदैवज्ञो लीलाकमलपूजितः ॥४०॥
Verse
क्रीडाकमलसन्दोहो गोपिकाप्रीतिरञ्जनः । रञ्जको रञ्जनो रङ्गो रङ्गी रङ्गमहीरुहः ॥४१॥
Verse
कामः कामारिभक्तोऽयं पुराणपुरुषः कविः । नारदो देवलो भीमो बालो बालमुखाम्बुजः ॥४२॥
Verse
अम्बुजो ब्रह्मसाक्षी च योगी दत्तवरो मुनिः । ऋषभः पर्वतो ग्रामो नदीपवनवल्लभः ॥४३॥
Verse
पद्मनाभः सुरज्येष्ठो ब्रह्मा रुद्रोऽहिभूषितः । गणानां त्राणकर्ता च गणेशो ग्रहिलो ग्रही ॥४४॥
Verse
गणाश्रयो गणाध्यक्षः क्रोडीकृतजगत्त्रयः । यादवेन्द्रो द्वारकेन्द्रो मथुरावल्लभो धुरी ॥४५॥
Verse
भ्रमरः कुन्तली कुन्तीसुतरक्षी महामखी । यमुनावरदाता च काश्यपस्य वरप्रदः ॥४६॥
Verse
शङ्खचूडवधोद्दामो गोपीरक्षणतत्परः । पाञ्चजन्यकरो रामी त्रिरामी वनजो जयः ॥४७॥
Verse
फाल्गुनः फाल्गुनसखो विराधवधकारकः । रुक्मिणीप्राणनाथश्च सत्यभामाप्रियंकरः ॥४८॥
Verse
कल्पवृक्षो महावृक्षो दानवृक्षो महाफलः । अंकुशो भूसुरो भामो भामको भ्रामको हरिः ॥४९॥
Verse
सरलः शाश्वतो वीरो यदुवंशी शिवात्मकः । प्रद्युम्नो बलकर्ता च प्रहर्ता दैत्यहा प्रभुः ॥५०॥
Verse
महाधनो महावीरो वनमालाविभूषणः । तुलसीदामशोभाढ्यो जालन्धरविनाशनः ॥५१॥
Verse
शूरः सूर्यो मृकण्डश्च भास्करो विश्वपूजितः । रविस्तमोहा वह्निश्च वाडवो वडवानलः ॥५२॥
Verse
दैत्यदर्पविनाशी च गरुडो गरुडाग्रजः । गोपीनाथो महीनाथो वृन्दानाथोऽवरोधकः ॥५३॥
Verse
प्रपञ्ची पञ्चरूपश्च लतागुल्मश्च गोपतिः । गङ्गा च यमुनारूपो गोदा वेत्रवती तथा ॥५४॥
Verse
कावेरी नर्मदा तापी गण्डकी सरयूस्तथा । राजसस्तामसः सत्त्वी सर्वाङ्गी सर्वलोचनः ॥५५॥
Verse
सुधामयोऽमृतमयो योगिनीवल्लभः शिवः । बुद्धो बुद्धिमतां श्रेष्ठो विष्णुर्जिष्णुः शचीपतिः ॥५६॥
Verse
वंशी वंशधरो लोको विलोको मोहनाशनः । रवरावो रवो रावो बालो बालबलाहकः ॥५७॥
Verse
शिवो रुद्रो नलो नीलो लाङ्गली लाङ्गलाश्रयः पारदः पावनो हंसो हंसारूढो जगत्पतिः ॥५८॥
Verse
मोहिनीमोहनो मायी महामायो महामखी । वृषो वृषाकपिः कालः कालीदमनकारकः ॥५९॥
Verse
कुब्जाभाग्यप्रदो वीरो रजकक्षयकारकः । कोमलो वारुणो राजा जलजो जलधारकः ॥६०॥
Verse
हारकः सर्वपापघ्नः परमेष्ठी पितामहः । खड्गधारी कृपाकारी राधारमणसुन्दरः ॥६१॥
Verse
द्वादशारण्यसम्भोगी शेषनागफणालयः । कामः श्यामः सुखः श्रीदः श्रीपतिः श्रीनिधिः कृतिः ॥६२॥
Verse
हरिर्हरो नरो नारो नरोत्तम इषुप्रियः । गोपालीचित्तहर्ता च कर्ता संसारतारकः ॥६३॥
Verse
आदिदेवो महादेवो गौरीगुरुरनाश्रयः । साधुर्मधुर्विधुर्धाता भ्राता क्रूरपरायणः ॥६४॥
Verse
रोलम्बी च हयग्रीवो वानरारिर्वनाश्रयः । वनं वनी वनाध्यक्षो महावन्द्यो महामुनिः ॥६५॥
Verse
स्यमन्तकमणिप्राज्ञो विज्ञो विघ्नविघातकः । गोवर्धनोवर्धनीयो वर्धनी वर्धनप्रियः ॥६६॥
Verse
वर्धन्यो वर्धनो वर्धी वार्धिन्यः सुमुखप्रियः । वर्धितो वृद्धको वृद्धोवृन्दारकजनप्रियः ॥६७॥
Verse
गोपालरमणीभर्ता साम्बकुष्ठविनाशनः । रुक्मिणीहरणः प्रेम प्रेमी चन्द्रावलीपतिः ॥६८॥
Verse
श्रीकर्ता विश्वभर्ता च नरो नारायणो बली । गणो गणपतिश्चैव दत्तात्रेयो महामुनिः ॥६९॥
Verse
व्यासो नारायणो दिव्यो भव्यो भावुकधारकः । स्वः श्रेयसं शिवं भद्रं भावुकं भविकं शुभम् ॥७०॥
Verse
शुभात्मकः शुभः शास्ता प्रशास्ता मेघनादहा । ब्रह्मण्यदेवो दीनानामुद्धारकरणक्षमः ॥७१॥
Verse
कृष्णः कमलपत्राक्षः कृष्णः कमललोचनः । कृष्णः कामी सदाकृष्णः समस्तप्रियकारकः ॥७२॥
Verse
नन्दो नन्दी महानन्दी मादी मादनकः किली । मिली हिली गिली गोली गोलालयो गुली ॥७३॥
Verse
गुग्गुली मारकीशाखी वटः पिप्पलकः कृती । म्लेच्छहा कालहर्ता च यशोदायश एव च ॥७४॥
Verse
अच्युतः केशवो विष्णुर्हरिः सत्यो जनार्दनः । हंसो नारायणो लीलो नीलो भक्तिपरायणः ॥७५॥
Verse
जानकीवल्लभो रामो विरामो विघ्ननाशनः । सहस्रांशुर्महाभानुर्वीरबाहुर्महोदधिः ॥७६॥
Verse
समुद्रोऽब्धिरकूपारः पारावारः सरित्पतिः । गोकुलानन्दकारीच प्रतिज्ञापरिपालकः ॥७७॥
Verse
सदारामः कृपारामोमहारामो धनुर्धरः । पर्वतः पर्वताकारो गयो गेयो द्विजप्रियः ॥७८॥
Verse
कम्बलाश्वतरो रामो रामायणप्रवर्तकः । द्यौर्दिवो दिवसो दिव्यो भव्यो भाविभयापहः ॥७९॥
Verse
पार्वतीभाग्यसहितो भ्राता लक्ष्मीविलासवान् । विलासी साहसी सर्वी गर्वी गर्वितलोचनः ॥८०॥
Verse
मुरारिर्लोकधर्मज्ञो जीवनो जीवनान्तकः यमो यमारिर्यमनो यामी यामविधायकः ॥८१॥
Verse
वंसुली पांसुली पांसुः पाण्डुरर्जुनवल्लभः । ललिताचन्द्रिकामाली माली मालाम्बुजाश्रयः ॥८२॥
Verse
अम्बुजाक्षो महायक्षो दक्षश्चितामणिः प्रभुः । मणिर्दिनमणिश्चैव केदारो बदराश्रयः ॥८३॥
Verse
बदरीवनसंप्रीतो व्यासः सत्यवतीसुतः । अमरारिनिहन्ता च सुधासिन्धुर्विधूदयः ॥८४॥
Verse
चन्द्रो रविः शिवः शूली चक्री चैव गदाधरः । श्रीकर्ता श्रीपतिः श्रीदः श्रीदेवो देवकीसुतः ॥८५॥
Verse
श्रीपतिः पुण्डरीकाक्षः पद्मनाभो जगत्पतिः । वासुदेवोऽप्रमेयात्मा केशवो गरुडध्वजः ॥८६॥
Verse
नारायणः परं धाम देवदेवो महेश्वरः । चक्रपाणिः कलापूर्णो वेदवेद्यो दयानिधिः ॥८७॥
Verse
भगवान्सर्वभूतेशो गोपालः सर्वपालकः । अनन्तो निर्गुणोऽनन्तो निर्विकल्पो निरज्जनः ॥८८॥
Verse
निराधारो निराकारो निराभासो निराश्रयः । पुरुषः प्रणवातीतो मुकुन्दः परमेश्वरः ॥८९॥
Verse
क्षणावनिः सार्वभौमो वैकुण्ठो भक्तवत्सलः । विष्णुर्दामोदरः कृष्णो माधवो मथुरापतिः ॥९०॥
Verse
देवकीगर्भसंभूतो यशोदावत्सलो हरिः । शिवः सङ्कर्षणः शम्भुर्भूतनाथो दिवस्पतिः ॥९१॥
Verse
अव्ययः सर्वधर्मज्ञो निर्मलो निरुपद्रवः । निर्वाणनायको नित्यो नीलजीमूतसन्निभः ॥९२॥
Verse
कलाक्षयश्च सर्वज्ञः कमलारूपतत्परः । हृषीकेशः पीतवासो वसुदेवप्रियात्मजः ॥९३॥
Verse
नन्दगोपकुमारार्यो नवनीताशनः प्रभुः । पुराणपुरुषः श्रेष्ठः शङ्खपाणिः सुविक्रमः ॥९४॥
Verse
अनिरुद्धश्चक्ररथः शार्ङ्गपाणिश्चतुर्भुजः । गदाधरः सुरार्तिघ्नो गोविन्दो नन्दकायुधः ॥९५॥
Verse
वृन्दावनचरः शौरिर्वेणुवाद्यविशारदः तृणावर्तान्तको भीमो साहसो बहुविक्रमः ॥९६॥
Verse
शकटासुरसंहारी बकासुरविनाशनः । धेनुकासुरसङ्घातः पूतनारिर्नृकेसरी ॥९७॥
Verse
पितामहो गुरुः साक्षी प्रत्यगात्मा सदाशिवः । अप्रमेयः प्रभुः प्राज्ञोऽप्रतर्क्यः स्वप्नवर्धनः ॥९८॥
Verse
धन्यो मान्यो भवो भावः धीरः शान्तो जगद्गुरुः । अन्तर्यामीश्वरो दिव्यो दैवज्ञो देवतागुरुः ॥९९॥
Verse
क्षीराब्धिशयनो धाता लक्ष्मीवान् लक्ष्मणाग्रजः । धात्रीपतिरमेयात्मा चन्द्रशेखरपूजितः ॥१००॥
Verse
लोकसाक्षी जगच्चक्षुः पुण्यचारित्रकीर्तनः । कोटिमन्मथसौन्दर्यो जगन्मोहनविग्रहः ॥१०१॥
Verse
मन्दस्मिततमो गोपो गोपिकापरिवेष्टितः । फुल्लारविन्दनयनश्चाणूरान्ध्रनिषूदनः ॥१०२॥
Verse
इन्दीवरदलश्यामो बर्हिबर्हावतंसकः । मुरलीनिनदाह्लादो दिव्यमाल्याम्बराश्रयः ॥१०३॥
Verse
सुकपोलयुगः सुभ्रूयुगलः सुललाटकः । कम्बुग्रीवो विशालाक्षो लक्ष्मीवान् शुभलक्षणः ॥१०४॥
Verse
पीनवक्षाश्चतुर्बाहुश्चतुर्मूर्तिस्त्रिविक्रमः । कलङ्करहितः शुद्द्धो दुष्टशत्रुनिबर्हणः ॥१०५॥
Verse
किरीटकुण्डलधरः कटकाङ्गदमण्डितः । मुद्रिकाभरणोपेतः कटिसूत्रविराजितः ॥१०६॥
Verse
मञ्जीररञ्जितपदः सर्वाभरणभूषितः । विन्यस्तपादयुगलो दिव्यमङ्गलविग्रहः ॥१०७॥
Verse
गोपिकानयनानन्दः पूर्णचन्द्रनिभाननः । समस्तजगदानन्दः सुन्दरो लोकनन्दनः ॥१०८॥
Verse
यमुनातीरसञ्चारी राधामन्मथवैभवः । गोपनारीप्रियो दान्तो गोपीवस्त्रापहारकः ॥१०९॥
Verse
शृङ्गारमूर्तिः श्रीधाम तारको मूलकारणम् । सृष्टिसंरक्षणोपायः क्रूरासुरविभञ्जनः ॥११०॥
Verse
नरकासुरहारी च मुरारिर्वैरिमर्दनः । आदितेयप्रियो दैत्यभीकरश्चेन्दुशेखरः ॥१११॥
Verse
जरासन्धकुलध्वंसी कंसारातिः सुविक्रमः । पुण्यश्लोकः कीर्तनीयो यादवेन्द्रो जगन्नुतः ॥११२॥
Verse
रुक्मिणीरमणः सत्यभामाजाम्बवतीप्रियः । मित्रविन्दानाग्नजितीलक्ष्मणासमुपासितः ॥११३॥
Verse
सुधाकरकुलेजातोऽनन्तप्रबलविक्रमः । सर्वसौभाग्यसंपन्नो द्वारकायामुपस्थितः ॥११४॥
Verse
भद्रासूर्यसुतानाथो लीलामानुषविग्रहः । सहस्रषोडशस्त्रीशो भोगमोक्षैकदायकः ॥११५॥
Verse
वेदान्तवेद्यः संवेद्यो वैद्यो ब्रह्माण्डनायकः । गोवर्धनधरो नाथः सर्वजीवदयापरः ॥११६॥
Verse
मूर्तिमान्सर्वभूतात्मा आर्तत्राणपरायणः । सर्वज्ञः सर्वसुलभः सर्वशास्त्रविशारदः ॥११७॥
Verse
षड्गुणैश्वर्यसंपन्नः पूर्णकामो धुरन्धरः । महानुभावः कैवल्यदायको लोकनायकः ॥११८॥
Verse
आदिमध्यान्तरहितः शुद्धसात्त्विकविग्रहः । असमानः समस्तात्मा शरणागवत्सलः ॥११९॥
Verse
उत्पत्तिस्थितिसंहारकारणंसर्वकारणम् । गम्भीरः सर्वभावज्ञःसच्चिदानन्दविग्रहः ॥१२०॥
Verse
विष्वक्सेनः सत्यसंधः सत्यवान्सत्यविक्रमः । सत्यव्रतः सत्यसंज्ञः सर्वधर्मपरायणः ॥१२१॥
Verse
आपन्नार्तिप्रशमनो द्रौपदीमानरक्षकः । कन्दर्पजनकः प्राज्ञो जगन्नाटकवैभवः ॥१२२॥
Verse
भक्तिवश्यो गुणातीतः सर्वैश्वर्यप्रदायकः । दमघोषसुतद्वेषी बाणबाहुविखण्डनः ॥१२३॥
Verse
भीष्मभक्तिप्रदो दिव्यः कौरवान्वयनाशनः । कौन्तेयप्रियबन्धुश्च पार्थस्यन्दनसारथिः ॥१२४॥
Verse
नारसिंहो महावीरः स्तम्भजातो महाबलः । प्रह्लादवरदः सत्यो देवपूज्योऽभयङ्करः ॥१२५॥
Verse
उपेन्द्र इन्द्रावरजो वामनो बलिबन्धनः । गजेन्द्रवरदः स्वामी सर्वदेवनमस्कृतः ॥१२६॥
Verse
शेषपर्यङ्कशयनो वैनतेयरथो जयी । अव्याहतबलैश्वर्यसंपन्नः पूर्णमानसः ॥१२७॥
Verse
योगेश्वरेश्वरः साक्षी क्षेत्रज्ञो ज्ञानदायकः । योगिहृत्पङ्कजावासो योगमायासमन्वितः ॥१२८॥
Verse
नादबिन्दुकलातीतश्चतुर्वर्गफलप्रदः । सुषुम्णामार्गसञ्चारी देहस्यान्तरसंस्थितः ॥१२९॥
Verse
देहेन्द्रियमनःप्राणसाक्षी चेतःप्रसादकः । सूक्ष्मः सर्वगतो देही ज्ञानदर्पणगोचरः ॥१३०॥
Verse
तत्त्वत्रयात्मकोऽव्यक्तः कुण्डलीसमुपाश्रितः । ब्रह्मण्यः सर्वधर्मज्ञः शान्तो दान्तो गतक्लमः ॥१३१॥
Verse
श्रीनिवासः सदानन्दो विश्वमूर्तिर्महाप्रभुः । सहस्रशीर्षा पुरुषः सहस्राक्षः सहस्रपात् ॥१३२॥
Verse
समस्तभुवनाधारः समस्तप्राणरक्षकः । समस्तसर्वभावज्ञो गोपिकाप्राणवल्लभः ॥१३३॥
Verse
नित्योत्सवो नित्यसौख्यः नित्यश्रीर्नित्यमङ्गलः । व्यूहार्चितो जगन्नाथः श्रीवैकुण्ठपुराधिपः ॥१३४॥
Verse
पूर्णानन्दघनीभूतो गोपवेषधरो हरिः । कलापकुसुमश्यामः कोमलः शान्तविग्रहः ॥१३५॥
Verse
गोपाङ्गनावृतोऽनन्तो वृन्दावनसमाश्रयः । वेणुवादरतः श्रेष्ठो देवानां हितकारकः ॥१३६॥
Verse
बालक्रीडासमासक्तो नवनीतस्य तस्करः । गोपालकामिनीजारश्चोरजारशिखामणिः ॥१३७॥
Verse
परं ज्योतिः पराकाशः परावासः परिस्फुटः । अष्टादशाक्षरो मन्त्रो व्यापको लोकपावनः ॥१३८॥
Verse
सप्तकोटिमहामन्त्रशेखरो देवशेखरः । विज्ञानज्ञानसन्धानस्तेजोराशिर्जगत्पतिः ॥१३९॥
Verse
भक्तलोकप्रसन्नात्मा भक्तमन्दारविग्रहः । भक्तदारिद्र्यदमनो भक्तानां प्रीतिदायकः ॥१४०॥
Verse
भक्ताधीनमनाः पूज्यो भक्तलोकशिवङ्करः । भक्ताभीष्टप्रदः सर्वभक्ताघौघनिकृन्तनः ॥१४१॥
Verse
अपारकरुणासिन्धुर्भगवान्भक्ततत्परः ॥१४२॥
Verse
॥इति श्रीसम्मोहनतन्त्रे पार्वतीश्वरसंवादे श्रीगोपालसहस्रनामस्तोत्रं संपूर्णम् ॥
Verse
अथ माहात्म्यम् इति श्रीराधिकानाथसहस्रं नामकीर्तनम् । स्मरणात्पापराशीनां खण्डनं मृत्युनाशनम् ॥१॥
Verse
वैष्णवानां प्रियकरं महारोगनिवारणम् । ब्रह्महत्या सुरापानं परस्त्रीगमनं तथा ॥२॥
Verse
परद्रव्यापहरणं परद्वेषसमन्वितम् । मानसं वाचिकं कायं यत्पापं पापसम्भवम् ॥३॥
Verse
सहस्रनामपठनात्सर्वं नश्यति तत्क्षणात् । महादारिद्र्ययुक्तो यो वैष्णवो विष्णुभक्तिमान् ॥४॥
Verse
कार्तिक्यां संपठेद्रात्रौ शतमष्टोत्तरं क्रमात् । पीताम्बरधरो धीमान्सुगन्धिपुष्पचन्दनैः ॥५॥
Verse
पुस्तकं पूजयित्वा तु नैवेद्यादिभिरेव च । राधाध्यानाङ्कितो धीरो वनमालाविभूषितः ॥६॥
Verse
शतमष्टोत्तरं देवि पठेन्नामसहस्रकम् । तुलसीमालया युक्तो वैष्णवो भक्तितत्परः ॥७॥
Verse
रविवारे च शुक्रे च द्वादश्यां श्राद्धवासरे । ब्राह्मणं पूजयित्वा च भोजयित्वा विधानतः ॥८॥
Verse
यः पठेद्वैष्णवो नित्यं स याति हरिमन्दिरम् । कृष्णेनोक्तं राधिकायै मयि प्रोक्तं पुरा शिवे ॥९॥
Verse
नारदाय मया प्रोक्तं नारदेन प्रकाशितम् । मया त्वयि वरारोहे प्रोक्तमेतत्सुदुर्लभम् ॥१०॥
Verse
गोपनीयं प्रयत्नेन न प्रकाश्यं कथञ्चन । शठाय पापिने चैव लम्पटाय विशेषतः ॥११॥
Verse
न दातव्यं न दातव्यं न दातव्यं कदाचन । देयं शिष्याय शान्ताय विष्णुभक्तिरताय च ॥१२॥
Verse
गोदानब्रह्मयज्ञादेर्वाजपेयशतस्य च । अश्वमेधसहस्रस्य फलं पाठे भवेद् ध्रुवम् ॥१३॥
Verse
एकादश्यां नरः स्नात्वा सुगन्धिद्रव्यतैलकैः । आहारं ब्राह्मणे दत्त्वा दक्षिणां स्वर्णभूषणम् ॥१४॥
Verse
तत आरम्भकर्ताऽस्मात् सर्वं प्राप्नोति मानवः । शतावृत्तं सहस्रं च यः पठेद्वैष्णवो जनः ॥१५॥
Verse
श्रीवृन्दावनचन्द्रस्य प्रसादात्सर्वमाप्नुयात् । यद्गृहे पुस्तकं देवि पूजितं चैव तिष्ठति ॥१६॥
Verse
न मारी न च दुर्भिक्षं नोपसर्गभयं क्वचित् । सर्पादिभूतयक्षाद्या नश्यन्ति नात्र संशयः ॥१७॥
Verse
श्रीगोपालो महादेवि वसेत्तस्य गृहे सदा । गृहे यत्र सहस्रं च नाम्नां तिष्ठति पूजितम् ॥१८॥
Verse
॥इति श्रीसम्मोहनतन्त्रे पार्वतीश्वरसंवादे श्रीगोपालसहस्रनामस्तोत्रस्य माहात्म्यं संपूर्णम् ॥
