Preparing Your Space .

Settling the page into your current context.

GyanDweepBeta
HomeLearnLibrary
eGurukulsDiscoverTemplesPanchanga
Sign Up
Sign Up

pujavidhanam

kalaśa-pūjā

कलश-पूजा

Verse

ॐ कलशाय नमः दिव्यगन्धान् धारयामि।

Verse

गङ्गे च यमुने चैव गोदावरि सरस्वति नर्मदे सिन्धुकावेरि जलेऽस्मिन् सन्निधिं कुरु

Verse

ॐ गङ्गायै नमः। ॐ यमुनायै नमः। ॐ गोदावर्यै नमः। ॐ सरस्वत्यै नमः। ॐ नर्मदायै नमः। ॐ सिन्धवे नमः। ॐ कावेर्यै नमः। ॐ सप्तकोटिमहातीर्थान्यावाहयामि।

Verse

(अथ कलशं स्पृष्ट्वा जपं कुर्यात्) आपो॒ वा इ॒दꣳ सर्वं॒ विश्वा॑ भू॒तान्यापः॑ प्रा॒णा वा आपः॑ प॒शव॒ आपोऽन्न॒मापोऽमृ॑त॒मापः॑ स॒म्राडापो॑ वि॒राडापः॑ स्व॒राडाप॒श्छन्दा॒ꣴ॒स्यापो॒ ज्योती॒ꣴ॒ष्यापो॒ यजू॒ꣴ॒ष्यापः॑ स॒त्यमापः॒ सर्वा॑ दे॒वता॒ आपो॒ भूर्भुवः॒ सुव॒राप॒ ओम्॥

Verse

कलशस्य मुखे विष्णुः कण्ठे रुद्रः समाश्रितः मूले तत्र स्थितो ब्रह्मा मध्ये मातृगणाः स्मृताः

Verse

कुक्षौ तु सागराः सर्वे सप्तद्वीपा वसुन्धरा ऋग्वेदोऽथ यजुर्वेदः सामवेदोऽप्यथर्वणः अङ्गैश्च सहिताः सर्वे कलशाम्बुसमाश्रिताः

Verse

सर्वे समुद्राः सरितः तीर्थानि च ह्रदा नदाः आयान्तु देवपूजार्थं दुरितक्षयकारकाः

Verse

ॐ भूर्भुवः॒ सुवो॒ भूर्भुवः॒ सुवो॒ भूर्भुवः॒ सुवः॑।

Verse

(इति कलशजलेन सर्वोपकरणानि आत्मानं च प्रोक्ष्य।)

ghaṇṭā-pūjā
ātma-pūjā

सा विद्या या विमुक्तये

Built with Sankalpa at Gyaandweep

Gyaandweep

© 2022-2026 Granthajyoti Pvt Ltd.

Privacy & Terms