Preparing Your Space .

Settling the page into your current context.

GyanDweepBeta
HomeLearnLibrary
eGurukulsDiscoverTemplesPanchanga
Sign Up
Sign Up

pujavidhanam

bhīṣma-tarpaṇam

भीष्म-तर्पणम्

Verse

अष्टमीदिवसे चैव भीष्मतर्पणमाचरेत् दद्यात् प्रदद्याद् भीष्माय तर्पणं प्रतिवत्सरम्

Verse

तेन तर्पणमात्रेण सहस्रद्विजभोजने यत्फलं कथितं सद्भिस्तदवाप्नोत्यसंशयः

Verse

शुक्लाष्टम्यां तु माघस्य दद्याद्भीष्माय यो जलम् संवत्सरकृतं पापं तत्क्षणादेव नश्यति

Verse

ब्राह्मणाद्याश्च ये वर्णाः दद्युर्भीष्माय नो जलम् संवत्सरकृतं तेषां पुण्यं नश्यति सत्तम

Verse

शुक्लाम्बरधरं विष्णुं शशिवर्णं चतुर्भुजम् प्रसन्नवदनं ध्यायेत् सर्वविघ्नोपशान्तये

Verse

प्राणान् आयम्य।

Verse

ममोपात्त-समस्त-दुरित-क्षयद्वारा श्री-परमेश्वर-प्रीत्यर्थं शुभे शोभने मुहूर्ते अद्य ब्रह्मणः द्वितीयपरार्धे श्वेतवराहकल्पे वैवस्वतमन्वन्तरे अष्टाविंशतितमे कलियुगे प्रथमे पादे जम्बूद्वीपे भारतवर्षे भरतखण्डे मेरोः दक्षिणे पार्श्वे शकाब्दे अस्मिन् वर्तमाने व्यावहारिकाणां प्रभवादीनां षष्ट्याः संवत्सराणां मध्ये

Verse

[[samvatsara]] नाम संवत्सरे उत्तरायणे शिशिर -ऋतौ मकर-माघ -मासे शुक्ल पक्षे अष्टम्यां शुभतिथौ [[vasara]] -वासरयुक्तायां [[nakshatra]] -नक्षत्र- [[yoga]] -योग- भद्रा/बव -करण-युक्तायां च एवं गुण-विशेषण-विशिष्टायाम् अस्याम् अष्टम्यां शुभतिथौ

Verse

ममोपात्त-समस्त-दुरितक्षयद्वारा श्रीपरमेश्वर-प्रीत्यर्थं भीष्माष्टमी-पुण्यकाले भीष्मतर्पणम् अर्घ्यदानं च करिष्ये।

Verse

Verse

वैयाघ्रपादगोत्राय साङ्कृत्यप्रवराय च गङ्गापुत्राय भीष्माय प्रदास्येऽहं तिलोदकम् अपुत्राय ददाम्येतत् सलिलं भीष्मवर्मणे भीष्मं तर्पयामि। भीष्मं तर्पयामि। भीष्मं तर्पयामि॥

Verse

सत्यव्रताय शुचये गाङ्गेयाय महात्मने अर्घ्यं ददामि भीष्माय सोमवंशोद्भवाय च

Verse

भीष्माय नमः इदमर्घ्यम्। भीष्माय नमः इदमर्घ्यम्। भीष्माय नमः इदमर्घ्यम्।

Verse

वसूनामवताराय शन्तनोरात्मजाय च अर्घ्यं ददामि भीष्माय आजन्मब्रह्मचारिणे

Verse

भीष्माय नमः इदमर्घ्यम्। भीष्माय नमः इदमर्घ्यम्। भीष्माय नमः इदमर्घ्यम्।

Verse

भीष्मः शान्तनवो वीरः सत्यवादी जितेन्द्रियः आभिरद्भिरवाप्नोतु पुत्रपौत्रोचिताः क्रियाः

Verse

कायेन वाचा मनसेन्द्रियैर्वा बुद्‌ध्याऽऽत्मना वा प्रकृतेः स्वभावात् करोमि यद्यत् सकलं परस्मै नारायणायेति समर्पयामि

Verse

अनेन मया कृतेन भीष्माष्टमी-पुण्यकाले भीष्मतर्पणेन परमात्मा सुप्रीतः सुप्रसन्नो वरदो भवतु॥

Verse

ॐ तत्सद्ब्रह्मार्पणमस्तु॥

Verse

Verse

kṛṣṇāṅgāraka-caturdaśī-yama-tarpaṇam

सा विद्या या विमुक्तये

Built with Sankalpa at Gyaandweep

Gyaandweep

© 2022-2026 Granthajyoti Pvt Ltd.

Privacy & Terms