kavaca
hākinīśaktikavacam
हाकिनीशक्तिकवचम्
Verse
अथ चतुरशीतितमः पटलः श्रीआनन्दभैरव उवाच अथादौ कथयानन्दभैरवि प्राणवल्लभे । कवचं हाकिनीदेव्याः परमानन्दवर्धनम् ॥८४-१॥
Verse
हेतुयुक्तं श्रद्धया मे करुणासागरस्थिते । शीघ्रं विरचयानन्द कवचं सारमङ्गलम् ॥८४-२॥
Verse
श्रीआनन्दभैरवी उवाच आदौ शृणु महावीर परमानन्दसागर । कवचं हाकिनीदेव्याः संसारार्णवतारकम् ॥८४-३॥
Verse
यस्य स्मरणमात्रेण योगी योगस्थिरो भवेत् । अन्तरिक्षे च भूलोके पाताले ये चराचराः ॥८४-४॥
Verse
स्तम्भिता वेपमानाः स्युर्विद्याज्ञानादिपाठतः । कवचध्वनिमात्रेण भूतप्रेतपिशाचकाः ॥८४-५॥
Verse
विद्रवन्ति भयार्ता वै कालरुद्रप्रभावतः । यथाऽऽलोको वह्निमध्ये स्थिरो भवति निश्चितम् ॥८४-६॥
Verse
ॐ अस्याः श्रीहाकिनीदेव्याः सानन्दसारमङ्गलस्य महाकवचस्य सदाशिव ऋषिर्गायत्रीच्छन्दः श्रीहाकिनीपरदेवता क्लीं बीजं स्वाहा शक्तिः सिद्धलक्ष्मीमूलकीलकं देहान्तर्गत महाकामसिद्ध्यर्थे जपे विनियोगः । ॐ पातु शीर्षचक्रं मे क्लीं पातु भालमण्डलम् । स्वमूलं पातु मे नित्यं लोचनत्रितयं मम ॥८४-६॥
Verse
गण्डयुग्मं सदा पातु वाग्भवाद्या मनोरमा । श्रीं ह्रीं पातु कर्णयुग्मं हाकिनी परदेवता ॥८४-७॥
Verse
महाविद्या सदा पातु ममोष्ठाधरसम्पुटम् । दन्तावलियुगं पातु ह्रीं श्रीं स्वाहा परेश्वरी ॥८४-९॥
Verse
क्लीं ह्रीं श्रीं हाकिनीदेवी स्वाहा पातु रसप्रियाम् । सृक्कनीं पातु सततं शक्तिः कामवरा मधुः ॥८४-१०॥
Verse
स्वाहा पातु शिखा शक्तिर्भ्रूमध्यं पातु सर्वदा । हाकिनी मण्डलं पातु परानाथेश्वरी परा ॥८४-११॥
Verse
सुन्दरी सर्वदा पातु द्विदलं कामसुन्दरी । अमृताख्या सदा पातु भ्रूप्रकाशस्थलं मम ॥८४-१२॥
Verse
वह्निज्वाला सदा पातु भ्रूश्मशानस्थलं मम । सुरभी पातु मायास्त्रं स्वाहा मे भ्रूगतच्छदम् ॥८४-१३॥
Verse
त्रिकोणं पातु कामाख्या हाकिनी परमेश्वरी । त्रिपुरा सुन्दरी पातु द्विषट्कोणं सदा मम ॥८४-१४॥
Verse
हिङ्गुलादेश्वरी पातु षट्कोणबिन्दुमण्डलम् । सप्तभूबिम्बमापातु भूतलान्तःप्रकाशिनी ॥८४-१५॥
Verse
महाशतदलं पातु शतकोटिमरुप्रिया । गुरुविद्यामयी पातु वाणी मे मत्तगामिनी ॥८४-१६॥
Verse
चतुर्द्वारं सर्वचक्रं पातु मे परमेश्वरी । अत्यन्तदुःखहन्त्री मे मनश्चक्रं सदाऽवतु ॥८४-१७॥
Verse
शब्दब्रह्ममयी पातु चन्द्रमण्डलमेव मे । अकालतारिणी दुर्गा सर्गस्थित्यन्तकारिणी ॥८४-१८॥
Verse
महापुरुषसंस्थानं हाकिनी मण्डलं मम । पातु वर्णमयी तारा चन्द्रार्धं मे सुरेश्वरी ॥८४-१९॥
Verse
उन्मनीनगरं पातु वह्निकुण्डनिवासिनी । मदिरा पातु सततं भालं विषहरा मम ॥८४-२०॥
Verse
धर्मदा ज्ञानदा पातु धर्मज्ञानपदं मम । तालपत्नीश्वरी पातु अमृतानन्दकारिणी ॥८४-२१॥
Verse
वैराग्यनिकरं पातु बिन्दुस्थानं महाबला । त्रितारी कूटशक्तिर्मे सदा पातु विशुद्धकम् ॥८४-२२॥
Verse
शाकिनीशं सदा पातु शाकिनी कुलभैरवी । सप्तद्वीपेश्वरी पातु मम षोडशपङ्कजम् ॥८४-२३॥
Verse
शाकिनी भैरवी पातु चण्डदुर्गा सरस्वती । कुमारी कुलजा लक्ष्मीः सिद्धार्थं मे सदाऽवतु ॥८४-२४॥
Verse
हृदयं पातु सततं शाकिनी परमेश्वरी । बीजरूपा सदा देवी महामहिषघातिनी ॥८४-२५॥
Verse
उदरं पातु सततं योगिनीकोटिभिः सह । उमा महेश्वरी पातु प्रचण्डा मम पृष्ठकम् ॥८४-२६॥
Verse
चामुण्डा भैरवी बाला पार्श्वयुग्मं सदाऽवतु । परमा चेश्वरी पातु देवमाता स्तनद्वयम् ॥८४-२७॥
Verse
सौभाग्यहाकिनी देवी पायात्तु यक्षसः प्रियम् । आद्या देवी शिखारूपा भुजयुग्मं सदाऽवतु ॥८४-२८॥
Verse
सर्वापराधहर्त्री मे कामविद्या दशच्छदम् । मणिपूरं सदा पातु दशवर्णात्मिका शिवा ॥८४-२९॥
Verse
नाभिचक्रं सदा पातु लाकिनी पद्मवासिनी । नित्यदेशदलं पातु पार्वती वेदपालिनी ॥८४-३०॥
Verse
महारुद्रेश्वरी पातु पीठरूपं मणिं मम । तेजोमण्डलमापातु रुद्राणी शूलधारिणी ॥८४-३१॥
Verse
अभया सर्वदा पातु योगविद्या नितम्बकम् । नितम्बाधारचक्रं मे पातु शैलं नितम्बिनीम् ॥८४-३२॥
Verse
तरुणी मन्त्रजालस्था वैष्णवी लिङ्गमण्डलम् । सदा पातु हाकिनीशा महाविष्णुस्थलं मम ॥८४-३३॥
Verse
वैष्णवी ललिता माया रमादेवी कटिं मम । स्वाधिष्ठानं सदा पातु गुह्यरूपा सरस्वती ॥८४-३४॥
Verse
भवानी भगवत्पत्नी श्मशानकालिका गुदम् । पातु मे रणमातङ्गी राकिनी कुलमण्डलम् ॥८४-३५॥
Verse
व्यक्ताव्यक्तस्वरूपा मे मूलाधारं सदाऽवतु । चतुर्दलं चतुर्वर्णं पातु मे ज्ञानकुण्डली ॥८४-३६॥
Verse
तपस्विनी सदा पातु पावनी मूलमावतु । रतिका घटिका वेश्या धरिणी कामसुन्दरी ॥८४-३७॥
Verse
वह्निकान्ता सदा पातु ममोरुयुगलं सदा । उल्कामुखी क्षेत्रसिद्धा जङ्घायुग्मं सदाऽवतु ॥८४-३८॥
Verse
बालामुखी पातु सम्पत्प्रदा श्रीकुलभैरवी । पादाम्बुजद्वयं पातु सर्वाङ्गं परहाकिनी ॥८४-३९॥
Verse
मदना मेदिनी धन्या चामुण्डा मुण्डमालिनी । रमा कामकला ज्येष्ठा तथाज्ञा रतिसुन्दरी ॥८४-४०॥
Verse
मनोयोगा सदा पातु निर्मला विमलामला । काञ्चनी बगला रात्रिः पञ्चमी रतिसुन्दरी ॥८४-४१॥
Verse
सर्वत्र सर्वदा पातु योगाद्या प्रेमकातरा । पर्वते विपिने शून्ये रणे घोरतरे भवे ॥८४-४२॥
Verse
श्मशानवासिनी पातु सर्ववाहनवाहना । सर्वास्त्रधारिणी पातु पञ्चमी पञ्चमप्रिया ॥८४-४३॥
Verse
चतुर्भुजा सदा पातु हाकिनी देहदेवता । सहस्रायुतकोटीन्दुवदना परमेश्वरी ॥८४-४४॥
Verse
योगिनीभिः सदा पातु सर्वदेशे तु सर्वदा । अनन्ता सर्वदा पातु महाविघ्नविनाशिनी ॥८४-४५॥
Verse
जले चानलगर्ते वा व्याधिभीतौ रिपोर्भये । व्याघ्रभीतौ चौरभीतौ महोन्मादभयादिषु ॥८४-४६॥
Verse
ग्रहभीतौ देवभीतौ दानवाद्रिभयेषु च । अभया निर्भया भीतिहारिणी भयनाशिनी ॥८४-४७॥
Verse
महाभीमा भद्रकाली भैरवी मारकामला । महाभूतेश्वरी माता जगद्धात्री सदाऽवतु ॥८४-४८॥
Verse
सर्वदेशे सर्वपीठे मातृका पातु नित्यशः । इत्येतत् कवचं सर्वसिद्धिदं दुःखनाशनम् ॥८४-४९॥
Verse
कथितं तव यत्नेन महाकाल प्रभो ! हर । यः पठेत् प्रातरुत्थाय कवचं देवदुर्लभम् ॥८४-५०॥
Verse
स भवेत् कालजेताऽपि स देवो न तु मानुषः । ध्यानात्मा साधकः श्रीमान् परमात्मा भवेत् स्वयम् ॥८४-५१॥
Verse
आज्ञापद्मे स्थिरो भूत्वा नित्यो भवति निश्चितम् । अकालमृत्युहरणं संसारार्णवतारणम् ॥८४-५२॥
Verse
कवचं देवदेवेश चानन्दसारमङ्गलम् । यः पठेदतिभक्त्या च जीवन्मुक्तो भवेद् ध्रुवम् ॥८४-५३॥
Verse
चतुर्विधा मुक्तिमाला तद्गले संस्थिरा ध्रुवम् । भवन्ति योगमुख्यानां गुरुर्वेदान्तपारगः ॥८४-५४॥
Verse
सर्वशास्त्रार्थवेत्ता स्याद् यामलार्थज्ञ ईश्वरः । शान्तिं विद्यां प्रतिष्ठाञ्च निवृत्तिं प्राप्य निर्मलः ॥८४-५५॥
Verse
योगात्मा चेश्वरत्वं हि प्राप्नोति नात्र संशयः । कुजे वा शनिवारे वा सङ्क्रान्त्यां रविवासरे ॥८४-५६॥
Verse
अमावास्यासु रिक्तायां धारयेत् कवचं शुभम् । पुरुषो दक्षिणे हस्ते वामा वामभुजे तथा ॥८४-५७॥
Verse
सर्वसिद्धिमवाप्नोति यद्यन्मनसि वर्तते । गोरोचनाकुङ्कुमेन चालक्तेन विलिख्य च ॥८४-५८॥
Verse
अवश्यं सिद्धिमाप्नोति हाकिनीयोगजापतः ॥८४-५९॥
Verse
इति श्रीरुद्रयामले उत्तरतन्त्रे महातन्त्रोद्दीपने सिद्धमन्त्रप्रकरणे भैरवीभैरवसंवादे हाकिनीकवचं नाम चतुरशीतितमः पटलः ॥८४॥
