Fetching Data .

Loading verse structure and chapter context.

GyanDweepBeta
HomeLearnLibrary
eGurukulsDiscoverTemplesPanchanga
Sign Up
Sign Up

kavaca

śrīsūryakacacastotram

श्रीसूर्यकचचस्तोत्रम्

Verse

श्रीसूर्यध्यानम् रक्तांबुजासनमशेषगुणैकसिन्धुं भानुं समस्तजगतामधिपं भजामि । पद्मद्वयाभयवरान् दधतं कराब्जैः माणिक्यमौलिमरुणाङ्गरुचिं त्रिनेत्रम्॥

Verse

श्रीसूर्यप्रणामः जपाकुसुमसङ्काशं काश्यपेयं महाद्युतिम् । ध्वान्तारिं सर्वपापघ्नं प्रणतोऽस्मि दिवाकरम्॥

Verse

श्रीसूर्यकवचम् याज्ञवल्क्य उवाच शृणुष्व मुनिशार्दूल सूर्यस्य कवचं शुभम् । शरीरारोग्यदं दिव्यं सर्वसौभाग्यदायकम् ॥१॥

Verse

देदीप्यमानमुकुटं स्फुरन्मकरकुण्डलम् । ध्यात्वा सहस्रकिरणं स्तोत्रमेतदुदीरयेत् ॥२॥

Verse

शिरो मे भास्करः पातु ललाटं मेऽमितद्युतिः । नेत्रे दिनमणिः पातु श्रवणे वासरेश्वरः ॥३॥

Verse

प्राणं घर्मघृणिः पातु वदनं वेदवाहनः । जिह्वा मे मानदः पातु कण्ठं मे सुरवन्दितः ॥४॥

Verse

स्कन्धौ प्रभाकरः पातु वक्षः पातु जनप्रियः । पातु पादौ द्वादशात्मा सर्वाङ्गं सकलेश्वरः ॥५॥

Verse

सूर्यरक्षात्मकं स्तोत्रं लिखित्वा भूर्जपत्रके । दधाति यः करे तस्य वशगाः सर्वसिद्धयः ॥६॥

Verse

सुस्नातो यो जपेत् सम्यग् योऽधीते स्वस्थमानसः । स रोगमुक्तो दीर्घायुः सुखं पुष्टिं च विन्दति ॥७॥

śivakavacam
brahmāṇḍapurāṇe prahlādoktaṃ nṛsiṃhakavacam

सा विद्या या विमुक्तये

Built with Sankalpa at Gyaandweep

Gyaandweep

© 2022-2026 Granthajyoti Pvt Ltd.

Privacy & Terms