Fetching Data .

Loading verse structure and chapter context.

GyanDweepBeta
HomeLearnLibrary
eGurukulsDiscoverTemplesPanchanga
Sign Up
Sign Up

kavaca

śrīsarasvatīkavacaṃ brahmavaivartāntargatam

श्रीसरस्वतीकवचं ब्रह्मवैवर्तान्तर्गतम्

Verse

ब्रह्मोवाच । श‍ृणु वत्स प्रवक्ष्यामि कवचं सर्वकामदम् । श्रुतिसारं श्रुतिसुखं श्रुत्युक्तं श्रुतिपूजितम् ॥६३॥

Verse

उक्तं कृष्णेन गोलोके मह्यं वृन्दावने वने । रासेश्वरेण विभुना रासे वै रासमण्डले ॥६४॥

Verse

अतीव गोपनीयं च कल्पवृक्षसमं परम् । अश्रुताद्भुतमन्त्राणां समूहैश्च समन्वितम् ॥६५॥

Verse

यद्धृत्वा पठनाद्ब्रह्मन्बुद्धिमांश्च बृहस्पतिः । यद्धृत्वा भगवाञ्छुक्रः सर्वदैत्येषु पूजितः ॥६६॥

Verse

पठनाद्धारणाद्वाग्मी कवीन्द्रो वाल्मिको मुनिः । स्वायंभुवो मनुश्चैव यद्धृत्वा सार्वपूजितः ॥६७॥

Verse

कणादो गौतमः कण्वः पाणिनिः शाकटायनः । ग्रन्थं चकार यद्धृत्वा दक्षः कात्यायनः स्वयम् ॥६८॥

Verse

धृत्वा वेदविभागं च पुराणान्यखिलानि च । चकार लीलामात्रेण कृष्णद्वैपायनः स्वयम् ॥६९॥

Verse

शातातपश्च संवर्तो वसिष्ठश्च पराशरः । यद्धृत्वा पठनाद्ग्रन्थं याज्ञवल्क्यश्चकार सः ॥७०॥

Verse

ऋष्यश‍ृङ्गो भरद्वाजश्चाऽऽस्तीको देवलस्तथा । जैगीषव्योऽथ जाबालिर्यत्द्धृत्वा सर्वपूजितः ॥७१॥

Verse

कवचस्यास्य विप्रेन्द्र ऋषिरेष प्रजापतिः । स्वयं बॄहस्पतिश्छन्दो देवो रासेश्वरः प्रभुः ॥७२॥

Verse

सर्वतत्त्वपरिज्ञाने सर्वार्थेऽपि च साधने । कवितासु च सर्वासु विनियोगः प्रकीर्तितः ॥७३॥

Verse

ओं ह्रीं सरस्वत्यै स्वाहा शिरो मे पातु सर्वतः । श्रीं वाग्देवतायै स्वाहा भालं मे सर्वदाऽवतु ॥७४॥

Verse

ओं सरस्वत्यै स्वाहेति श्रोत्रं पातु निरन्तरम् । ओं श्रीं ह्रीं भार्त्यै स्वाहा नेत्रयुग्मं सदाऽवतु ॥७५॥

Verse

ओं ह्रीं वाग्वादिन्यै स्वाहा नासां मे सर्वतोऽवतु । ह्रीं विद्याधिष्ठातृदेव्यै स्वाहा श्रोत्रं सदाऽवतु ॥७६॥

Verse

ओं श्रीं ह्रीं ब्राह्म्यै स्वाहेति दन्तपङ्क्तीः सदाऽवतु । ऐमित्येकाक्षरो मन्त्रो मम कण्ठं सदाऽवतु ॥७७॥

Verse

ओं श्रीं ह्रीं पातु मे ग्रीवां स्कन्धं मे श्रीं सदाऽवतु । श्रीं विद्याधिष्ठातृदेव्यै स्वाहा वक्षः सदाऽवतु ॥७८॥

Verse

ओं ह्रीं विद्यास्वरूपायै स्वाहा मे पातु नाभिकाम् । ओं ह्रीं क्लीं वाण्यै स्वाहेति मम प्र्ष्ठं सदाऽवतु ॥७९॥

Verse

ओं सर्ववर्णात्मिकायै पादयुग्मं सदाऽवतु । ओं वागधिष्ठातृदेव्यै सर्वाङ्गं मे सदाऽवतु ॥८०॥

Verse

ओं सर्वकण्ठवासिन्यै स्वाहा प्रच्यां सदाऽवतु । ओं ह्रीं जिह्वाग्रवासिन्यै स्वाहाऽग्निदिशि रक्षतु ॥८१॥

Verse

ओं ऐं श्रीं ह्रीं सरस्वत्यै बुधजनन्यै स्वाहा । सततं मन्त्रराजोऽयं दक्षिणे मां सदाऽवतु ॥८२॥

Verse

ओं ह्रीं श्रीं त्र्यक्षरो मन्त्रो नैरॄत्यां मे सदाऽवतु । कविजिह्वाग्रवासिन्यै स्वाहा मां वारुणेऽवतु ॥८३॥

Verse

ओं सदम्बकायै स्वाहा वायव्यै मां सदाऽवस्तु । ओं गद्यपद्यवासिन्यै स्वाहा मामुत्तरेऽवतु ॥८४॥

Verse

ओं सर्वशास्त्रवासिन्यै स्वाहैशान्यां सदाऽवतु । ओं ह्रीं सर्वपूजितायै स्वाहा चोर्ध्वं सदाऽवतु ॥८५॥

Verse

ओं ह्रीं पुस्तकवासिन्यै स्वाहाऽधो मां सदाऽवतु । ओं ग्रन्थबीजरूपायै स्वाहा मां सर्वतोऽवतु ॥८६॥

Verse

इति ते कथितं विप्र सर्वमन्त्रौघविग्रहम् । इदं विश्वजयं नाम कवचं ब्रह्मारूपकम् ॥८७॥

Verse

पुरा श्रुतं धर्मवक्त्रात्पर्वते गन्ध्मादने । तव स्नेहान्मयाऽऽख्यातं प्रवक्तव्यं न कस्यचित् ॥८८॥

Verse

गुरुमभ्यर्च्य विधिवद्वस्त्रालंकारचन्दनैः । प्रणम्य दण्डवद्भूमौ कवचं धारयेत्सुधीः ॥८९॥

Verse

पञ्चलक्षजपेनैव सिद्धं तु कवचं भवेत् । यदि स्यात्सिद्धकवचो बृहस्पतिसमो भवेत् ॥९०॥

Verse

महावाग्मी कवीन्द्रश्च त्रैलोक्यविजयी भवेत् । शक्नोति सर्व्ं जेतुं स कवचस्य प्रभावतः ॥९१॥

Verse

इदं ते काण्वशाखोक्तं कथितं कवचं मुने । स्तोत्रं पूजाविधानं च ध्यानं वै वन्दनं तथा ॥९२॥

Verse

इति श्री ब्रह्मवैवर्ते महापुराणे प्रकृतिखण्डे नारदनारायणसंवादे सरस्वतीकवचं नाम चतुर्थोऽध्यायः ॥४॥

saptamukhīhanumatkavacam
śrīsarasvatīkavacam

सा विद्या या विमुक्तये

Built with Sankalpa at Gyaandweep

Gyaandweep

© 2022-2026 Granthajyoti Pvt Ltd.

Privacy & Terms