kavaca
śrīvīrabhadrakavacam
श्रीवीरभद्रकवचम्
Verse
ॐ अस्य श्री वीरभद्रकवचमहामन्त्रस्य पशुपति ऋषिः अनुष्टुप्छन्दः, श्रीभद्रकालीसमेत वीरभद्रो देवता, ह्रां बीजं ह्रीं शक्तिः क्लीं किलकं, श्रीभद्रकालीसमेत वीरभद्रेश्वरप्रसादसिद्ध्यर्थे जपे विनियोगः ॥
Verse
ध्यानम् - रुद्ररौद्रावतारं हुतवहनयनं चोर्ध्वकेशं सुदंष्ट्रं व्योमाङ्गं भीमरूपं किणिकिणिरमसज्वालमाला वृताङ्गम् । भूतप्रेताधिनाथं करकमलयुगे खड्गपात्रे वहन्तं वन्दे लोकैकवीरं त्रिभुवनविनुतं श्यामलं वीरभद्रम् ॥
Verse
अथ कवचम् - ॐ ललाटं वीरभद्रोऽव्याच्चक्षुषी चोर्ध्वकेशभृत् । भ्रूमध्यं भूतनाथोऽव्यान्नासिकां वीरविग्रहः ॥१॥
Verse
कपाली कर्णयुगलं कन्धरं नीलकन्धरः । वदनं भद्रकालीशो चुबुकं चन्द्रखण्डभृत् ॥२॥
Verse
करौ पाशकरः पातु बाहू पातु महेश्वरः । ऊरुस्थलं चोग्रदंष्ट्राऽऽनन्दात्मा हृदम्बुजम् ॥३॥
Verse
रुद्रमूर्तिर्नाभिमध्यं कटिं मे पातु शूलभृत् । मूर्धानं पञ्चमूर्धाऽव्यान्निटलं निर्मलेन्दुभृत् ॥४॥
Verse
कपोलयुग्मं कापाली जिह्वां मे जीवनायकः । स्तनद्वयं पशुपतिर्लिङ्गं मे लिङ्गरूपधृत् ॥५॥
Verse
सर्वाङ्गुलीः सर्वनाथो नखान्मे नागभूषणः । पार्श्वयुग्मं शक्तिहस्तो सर्वाङ्गं देववल्लभः ॥६॥
Verse
सर्वकार्येषु मां पायात् भद्रकालीमनोहरः । ब्रह्मराक्षसपैशाचवेतालरणभूमिषु ॥७॥
Verse
सर्वेश्वरः सदा पातु सर्वदेवमदापहः । शीतोष्णयोश्चान्धकारे निम्नोन्नतभुविस्थले ॥८॥
Verse
कण्टकेष्वपि दुर्गेषु पर्वतेऽपि च दुर्गमे । शस्त्रास्त्रमुखभल्लूकव्याघ्रचोरभयेषु च ॥९॥
Verse
राजाद्युपद्रवे चैव पायाच्छरभरूपधृत् । य एतद्वीरभद्रस्य कवचं पठते नरः ! शोकजं मृत्युभयं मुक्त्वा सुखं प्राप्नोति निश्चयम् ॥१०॥
Verse
मोक्षार्थी मोक्षमाप्नोति धनार्थी लभते धनं ! विद्यार्थी लभते विद्यां जयार्थी जयमाप्नुयात् !! देहान्ते शिवसायुज्यमवाप्नोति न संशयम् । एतत्कवचमीशानि न देयं यस्य कस्य चित् ॥११॥
Verse
सुकुलीनाय शान्ताय शिवभक्तिरताय च । शिष्याय गुरुभक्ताय दातव्यं परमेश्वरि ॥१२॥
Verse
तव स्नेहान्मया प्रोक्तमेतत्ते कवचं महत् । गोपनीयं प्रयत्नेन त्वयैवं कुलसुन्दरि ॥१३॥
Verse
॥ इति श्रीवीरभद्रकवचं सम्पूर्णम् ॥
