Fetching Data .

Loading verse structure and chapter context.

GyanDweepBeta
HomeLearnLibrary
eGurukulsDiscoverTemplesPanchanga
Sign Up
Sign Up

kavaca

śrīrāghavendrabandhamocanakavacam

श्रीराघवेन्द्रबन्धमोचनकवचम्

Verse

अथ श्रीराघवेन्द्रार्यकवचं मन्त्रनामजम् । कलौ प्रत्यक्षफलदं बह्वायासेन वै विना ॥१॥

Verse

गुरोः पुत्रोऽवधूतोऽहं वक्ष्ये छन्दस्यनुष्टुभिः । रां बीजं च नमः शक्ती राघवेन्द्राय कीलकम् ॥२॥

Verse

श्रितजनसुरधेनौ श्रीसुधीन्द्रार्यसूनौ दुरिततिमिरभानौ दुर्दशायाः कृशानौ । विरचितभयहानौ वामहस्तेऽत्र जानौ मम वसतु यतीन्द्रे मानसं राघवेन्द्रे ॥३॥

Verse

ॐ श्रीं श्रीराघवेन्द्रार्यगुरुराजः शिरोऽवतु । ॐ रां राममहावीराराधकोऽवतु सोऽलिकम् ॥४॥

Verse

ॐ घं घनतरापत्तिहरणो रक्षतु भ्रुवौ । ॐ वें वेङ्कटशैलेशपूजकोऽवतु चाक्षिणे ॥५॥

Verse

ॐ द्रां द्रावयितारातिः कर्णाववतु सन्ततम् । ॐ यं यतीश्वरो नासां ॐ नं नम्यः कपोलकौ ॥६॥

Verse

ॐ मं मान्नोऽवताज्जिह्वां ॐ मं मस्करभृद्गलम् । ॐ नं नारायणप्रेष्ठः स्कन्धदेशं सदाऽवतु ॥७॥

Verse

ॐ यं यक्षादिभयहा वक्षः पातु निरन्तरम् । ॐ द्रां द्राक् छिन्नसर्वारिबन्धनोऽव्याद्भुजौ सदा ॥८॥

Verse

ॐ वें वेपितशत्रुश्च हस्तौ रक्षतु सर्वदा । ॐ घं घोरविषबाधापरिहर्ताऽवतूदरम् ॥९॥

Verse

ॐ रां राजादि निर्बन्धछेदकृत्पातु पार्श्वयोः । ॐ श्रीं श्रीहनुमद्भक्तः कटिं मध्यं च रक्षतु ॥१०॥

Verse

ॐ श्रीं श्रीलजनस्तुत्यो गुह्यं रक्षतु शाश्वतम् । ॐ रां राष्ट्रक्षेमकरो ऊरू रक्षतु जानुनी ॥११॥

Verse

ॐ घं घनाङ्गो जङ्घे च ॐ वें वेदान्तवेदकः । ॐ गुल्मौ रक्षतु पादौ तु ॐ द्रां द्रुतगतिप्रदः ॥१२॥

Verse

ॐ यं यमनिधिः पृष्ठं ॐ नं चित्तं नताखिलः । ॐ मं मातृदोषघ्नः सर्वाङ्गान्यपि रक्षतु ॥१३॥

Verse

मालामन्त्रस्तोत्रं - ॐ नमः श्रीराघवेन्द्राय नमो भगवते रां राघवभक्ताय, घं घनानन्दाय, वें वेतालादि भयहारिणे, द्रां द्राक् प्रपन्नाय, यं यक्षरक्षोविनाशाय, नं नामसङ्कीर्तनतुष्टाय, मं महामोदप्रदाय स्वाहा । स्मरणमात्रसन्निहितायऽमित्रान्मित्रीकुरु मित्रीकुरु, वौषढाकृष्टाष्टैश्वर्यचर्याय परमन्त्र-तन्त्र-पाशादि बन्धं छिन्धि छिन्धि । हुँ भक्तवज्रकवचरूपाय, परकृतशस्त्रास्त्रविश्वचेष्टकं भञ्जय भञ्जय । वषट् प्रकाशरूपाय, मम सुदैवं प्रकाशय प्रकाशय । फट् दण्डधराय, श‍ृङ्खलाबन्धनं स्फोटय स्फोटय । भेदय, भेदय, मां रक्ष, मां रक्ष, सर्वविपदः शमय, शमय सर्वसम्पदः सम्पादय सम्पादय हुं फट् स्वाहा ओम् ॥१४॥

Verse

ॐ एतच्छ्रीराघवेन्द्रार्यगुरुराजः कृपानिधिः । मालामन्त्रात्मकं स्तोत्रं सपादद्विशतार्णकम् ॥१५॥

Verse

मन्त्रराजात्मकं बन्धमोचकं कवचं शुभम् । शत्रुकृत्यादिशमनं त्रिवारं पठतां दिने ॥१६॥

Verse

यथायोग्यं सप्तकं वा द्विसप्तकमथाऽपि वा । त्रिसप्तकं मण्डलं वा त्रिपक्षं वा विचक्षणः ॥१७॥

Verse

ताम्रपत्रे चन्दनेन परिलिप्तेऽष्टकोणकम् । पद्मं लिखित्वा तत्पत्रे मन्त्रमष्टाक्षरं गुरोः ॥१८॥

Verse

अनुलोमाल्लिखित्वाऽथ तद्वहिश्च विलोमतः । लिखित्वा कर्णिकायां तु रां बीजं विलिखेत् गुरोः ॥१९॥

Verse

विलिखेत् रां चतुर्दिक्षु विलिखेन्मं विदिक्षु च । आवाह्य पूजयेत् तत्र राघवेन्द्रगुरुं तथा ॥२०॥

Verse

हनूमन्तं राघवं च प्रज्वाल्य घृतदीपकम् । वर्तिकाष्टकसंयुक्तं गन्धपुष्पाक्षतादिभिः ॥२१॥

Verse

सम्पूज्य फलपानीयैर्नित्यमष्टोत्तरं शतम् । पश्चिमाभिमुखो जप्त्वा मुच्यते सर्वबन्धनात् ॥२२॥

Verse

अप्पण्णार्यस्तवं पूर्वं ततश्चाष्टाक्षरं मनुम् । अष्टोत्तरं जपित्वाऽथ समन्त्रकवचं जपेत् ॥२३॥

Verse

प्रदोषेह्यर्थरात्रे वा श‍ृङ्खलादिकबन्धतः । मुच्यते नात्र सन्देहो गुरुराजप्रसादतः ॥२४॥

Verse

प्रजपेत् पूर्ववन्नित्यं मालामन्त्रार्णसङ्ख्यया । महानिर्बन्धतो मुच्येदवधूतवचो यथा ॥२५॥

Verse

सकृद्वा यः पठेन्नित्यं प्रदोषे गुरुसन्निधौ । मार्गेऽ।रण्ये द्विषन्मध्ये चोरसर्पादि बन्धने ॥२६॥

Verse

प्रभाते वा निशायां वा मुच्यते सर्वतो भयात् । सन्ततिं सम्पदं सौख्यं लभते तत्प्रसादतः ॥२७॥

Verse

श्रीराघवेन्द्रं धृतदृष्टदण्डं काषायवस्त्रं कमनीयवेषम् । भजेत् सदा भक्त भयौघनाश- बद्धादरं रामकपीशभक्तम् ॥२८॥

Verse

इति श्रीमत्कृष्णावधूतपण्डितकृतौ श्रीराघवेन्द्रतन्त्रे श्रीराघवेन्द्रबन्धमोचनकवचं नाम षष्ठपटलः सम्पूर्णः ॥

śrīrāghavendrakavacam
śrīrāghavendrarakṣākavacam

सा विद्या या विमुक्तये

Built with Sankalpa at Gyaandweep

Gyaandweep

© 2022-2026 Granthajyoti Pvt Ltd.

Privacy & Terms