kavaca
śrīmātaṅgī kavacam
श्रीमातङ्गी कवचम्
Verse
अस्य श्रीमातङ्गीकवचमन्त्रस्य महायोगीश्वरऋषिः अनुष्टुप् छन्दः श्रीराजमातङ्गीश्वरी श्रीमनङ्गीप्रसादसिद्ध्यर्थे जपे विनियोगः ॥
Verse
नीलोत्पलप्रतीकाशामञ्जनाद्रिसमप्रभाम् । वीणाहस्तां गानरतां मधुपात्रं च बिभ्रतीम् ॥१॥
Verse
सर्वालङ्कारसंयुक्तां श्यामलां मदशालिनीम् । नमामि राजमातङ्गीं भक्तानामिष्टदायिनीम् ॥२॥
Verse
एवं ध्यात्वा जपेन्नित्यं कवचं सर्वकामदम् । शिखां मे श्यामला पातु मातङ्गी मे शिरोऽवतु ॥३॥
Verse
ललाटं पातु चण्डाली भ्रुवौ मे मदशालिनी । var चण्डेशी कर्णौ मे पातु मातङ्गी शङ्खौ कुण्डलशोभिता ॥४॥
Verse
नेत्रे मे पातु रक्ताक्षी नासिकां पातु मे शिवा । गण्डौ मे पातु देवेशी ओष्ठौ बिम्बफलाधरा ॥५॥
Verse
जिह्वां मे पातु वागीशी दन्तान् कल्याणकारिणी । पातु मे राजमातङ्गी वदनं सर्वसिद्धिदा ॥६॥
Verse
कण्ठं मे पातु हृद्याङ्गी वीणाहस्ता करौ मम । हृदयं पातु मे लक्ष्मीर्नाभिं मे विशवनायिका ॥७॥
Verse
मम पार्श्वद्वयं पातु सूक्ष्ममध्या महेश्वरी । शुकश्यामा कटिं पातु गुह्यं मे लोकमोहिनी ॥८॥
Verse
ऊरू मे पातु भद्राङ्गी जानुनी पातु शाङ्करी । जङ्घाद्वयं मे लोकेशी पादौ मे परमेश्वरी ॥९॥
Verse
प्रागादिदिक्षु मां पातु सर्वैश्वर्यप्रदायिनी । रोमाणि पातु मे कृष्णा भार्यां मे भववल्लभा ॥१०॥
Verse
शङ्करी सर्वतः पातु मम सर्ववशङ्करी । महालक्ष्मीर्मम धनं विश्वमाता सुतान् मम ॥११॥
Verse
श्रीमातङ्गीश्वरी नित्यं मां पातु जगदीश्वरी । मातङ्गी कवचं नित्यं य एतत्प्रपठेन्नरः ॥१२॥
Verse
सुखित्वं सकलान् लोकान् दासीभूतान्करोत्यसौ । प्राप्नोति महतीं कान्तिं भवेत्काम शतप्रभः ॥१३॥
Verse
लभते महतीं लक्ष्मीं त्रैलोक्ये चापि दुर्लभाम् । अणिमाद्यष्टसिद्धं यं सञ्चरत्येष मानवः ॥१४॥
Verse
सर्वविद्यानिधिरयं भवेद्वागीश्वरेश्वरः । ब्रह्मराक्षसवेतालभूतप्रेत पिशाचकैः ॥१५॥
Verse
ज्वलन्वह्निरिव शस्यैर्वेश्यते भूतपूर्वकैः । परमं योगमाप्नोति दिव्यज्ञानं समश्नुते ॥१६॥
Verse
पुत्रान् पौत्रानवाप्नोति श्रीर्विद्याकान्ति संयुतान् । तद्भार्या दुर्भगा चापि कान्त्या रतिसमाभवेत् ॥१७॥
Verse
सर्वान् कामानवाप्नोति महाभोगांश्च दुर्लभान् । महाभोगान् सुदुर्लभान् भुक्तिमन्ते समाप्नोति साक्षात्परशिवो भवेत् ॥१८॥
Verse
इति श्री महाऽऽगमरहस्ये दत्तात्रेय वामदेव संवादे सप्तमपरिच्छेदे श्रीमातङ्गी कवचं सम्पूर्णम् ॥
