Fetching Data .

Loading verse structure and chapter context.

GyanDweepBeta
HomeLearnLibrary
eGurukulsDiscoverTemplesPanchanga
Sign Up
Sign Up

kavaca

śrībālāmantrakavacastotram

श्रीबालामन्त्रकवचस्तोत्रम्

Verse

ॐ अस्य श्रीबालात्रिपुरसुन्दरीकवचमहामन्त्रस्य श्रीदुर्वासा ऋषिः, अनुष्टुप् छन्दः, श्रीबालात्रिपुरसुन्दरी देवता, ऐं बीजं, क्लीं शक्तिः, सौः कीलकं, धर्मार्थ-काम-मोक्षप्रसादसिद्ध्यर्थे जपे विनियोगः ॥

Verse

अथ करन्यासः । ॐ ऐं अङ्गुष्ठाभ्यां नमः । ॐ क्लीं तर्जनीभ्यां नमः । ॐ सौः मध्यमाभ्यां नमः । ॐ ऐं अनामिकाभ्यां नमः । ॐ क्लीं कनिष्ठिकाभ्यां नमः । ॐ सौः करतलकरपृष्ठाभ्यां नमः ॥

Verse

अथाङ्गन्यासः । ॐ ऐं हृदयाय नमः । ॐ क्लीं शिरसे स्वाहा । ॐ सौः शिखायै वषट् । ॐ ऐं कवचाय हुम् । ॐ क्लीं नेत्रत्रयाय वौषट् । ॐ सौः अस्त्राय फट् ॥

Verse

अथ ध्यानम् । अरुणकिरणजालै रञ्जिताशावकाशा विधृतजपवटीका पुस्तकाभीतिहस्ता । इतरकरवराढ्या फुल्लकह्लारसंस्था निवसतु हृदि बाला नित्यकल्याणरूपा ॥

Verse

ॐ ऐं, क्लीं, सौः, ऐं, क्लीं, सौः स्वाहा । ॐ आधारे तरुणार्कबिम्बरुचिरं हेमप्रभाभास्वरं बीजं मान्मथमिन्द्रगोपसदृशं हृत्पङ्कजे संस्थिताम् । रन्ध्रे ब्रह्मपदं च शाक्तमपरं हेमप्रभाभास्वरं ये ध्यायन्ति पदद्वयं तव शिवे ते यान्ति शैवं पदम् ॥

Verse

(एवं ध्यात्वा जपेद्वर्म सर्वकर्मसमृद्धये ।) ऐङ्कारी मे शिरः पातु क्लीं कारी हृदयं मम । सौः पातु पादयुग्मं मे सर्वाङ्गं सकलाऽवतु ॥१॥

Verse

वाग्देवी मे शिरः पातु भालं पातु कुमारिका । भ्रूयुग्मं शाङ्करी पातु श्रुतियुग्मं गिरीश्वरी ॥२॥

Verse

नेत्रे त्रिनेत्रवरदा नासिकां मे महेश्वरी । ओष्ठौ मे सुभगा पातु चुबुकं नववार्षिका ॥३॥

Verse

कपोले कमनीयाऽव्यात्कण्ठे कामार्चिताऽवतु । बाहू पातु वराभीतिधारिणी संप्रदायिनी ॥४॥

Verse

वक्षस्त्रिकं च पद्माक्षी कुचौ काञ्चीनिवासिनी । उदरं सुन्दरी पातु नाभिं नागेन्द्रवन्दिता ॥५॥

Verse

पार्श्वे पाशवहा पातु पृष्ठं पापविनाशिनी । कटीं कर्पूरहृद्देशी (विद्येशी) जघनं ललिताम्बिका ॥६॥

Verse

मेढ्रं महेशरमणी पातु मां भाललोचना । जानुनी जयदा पातु गुह्यं विद्याप्रदायिनी ॥७॥

Verse

पादौ निशार्चिता पातु प्रपदं त्रिपुरेश्वरी । सर्वाङ्गं सर्वदा पातु बाला त्रिपुरसुन्दरी ॥८॥

Verse

वित्तं वित्तेश्वरी पातु पशून्पशुपतिप्रिया । पुत्रान् पुत्रप्रदा पातु दानधर्मप्रदायिनी ॥९॥

Verse

क्षेत्रं क्षेत्रेशवनिता गेहं गम्भीरनादिनी । पातु धर्ममयी सर्वं शर्वसर्वेश्वरी रमा ॥१०॥

Verse

इत्येतत्कवचं पुण्यं सर्वपापप्रणाशनम् । सर्वसौभाग्यजनकं सर्वरोगनिबर्हणम् ॥११॥

Verse

फलश्रुतिः - विषज्वरहरं भूतवेतालादिनिबर्हणम् । अपस्मारगदाशूलनेत्ररोगादिनाशनम् ॥१२॥

Verse

पठ्यमानं तु सततं बहुदुःखापहं नृणाम् । जपेत्कुमारीकवचं त्रिकालेषु त्रिमासकम् ॥१३॥

Verse

मुच्यते सकलाद्रोगात् कञ्चुकादिव पन्नगः । पठेद्यः प्रयतो वर्षं कुमारी तस्य सिद्धिदा ॥१४॥

Verse

गङ्गातरङ्गविलसच्छीकराक्तमुखाम्बुजा । निष्कलङ्का प्रसन्नास्या सुधासिन्धुसमुज्ज्वला ॥१५॥

Verse

अनेकमन्त्रराजोऽयमशेषं यो जपेन्नरः । तस्य संरक्षणं मन्त्रं वर्षमात्रस्य संशयः ॥१६॥

Verse

प्रातःकाले तु सलिलं ब्राह्मणः प्रयतः शुचिः । मन्त्रं जपन् त्रिरावृत्त्या वर्मसिद्धो भवेन्नरः ॥१७॥

Verse

अस्य मन्त्रप्रभावेन व्याख्याता स भवेद्ध्रुवम् । यद्दुस्साध्यतमं कार्यं तत्तु साध्यं भवेज्जपात् ॥१८॥

Verse

तत्तस्तोत्रेण लभते नात्र कार्या विचारणा । करस्थं काञ्चनं कृत्वा कवचं स महान्भावेत् ॥१९॥

Verse

बहुनाऽत्र किमुक्तेन सर्वकार्येषु सर्वदा । यद्यदर्थे प्रयत्नः स्यात्तत्तदर्थमिदं जपेत् ॥२०॥

Verse

इति श्रीबालामन्त्रकवचस्तोत्रं सम्पूर्णम् । बालात्रिपुरसुन्दरीकवचम् च ॥

śrībālātrailokyavijayakavacam
budhakavacam

सा विद्या या विमुक्तये

Built with Sankalpa at Gyaandweep

Gyaandweep

© 2022-2026 Granthajyoti Pvt Ltd.

Privacy & Terms