Fetching Data .

Loading verse structure and chapter context.

GyanDweepBeta
HomeLearnLibrary
eGurukulsDiscoverTemplesPanchanga
Sign Up
Sign Up

kavaca

śrībagalāmukhīśatruvināśakakavacam

श्रीबगलामुखीशत्रुविनाशककवचम्

Verse

श्रीगणेशाय नमः । श्रीपीताम्बरायै नमः । श्रीदेव्युवाच - नमस्ते शम्भवे तुभ्यं नमस्ते शशिशेखर । त्वत्प्रसादाच्छ्रुतं सर्वमधुना कवचं वद ॥१॥

Verse

श्रीशिव उवाच - श‍ृणु देवि प्रवक्ष्यामि कवचं परमाद्भुतम् । यस्य स्मरणमात्रेण रिपोः स्तम्भो भवेत् क्षणात् ॥२॥

Verse

कवचस्य च देवेशि महामायाप्रभावतः । पङ्क्तिः छन्दः समुद्दिष्टं देवता बगलामुखी ॥३॥

Verse

धर्मार्थकाममोक्षेषु विनियोगः प्रकीर्तितः । ॐकारो मे शिरः पातु ह्रीङ्कारो वदनेऽवतु ॥४॥

Verse

बगलामुखी दोर्युग्मं कण्ठे सर्वदाऽवतु । दुष्टानां पातु हृदयं वाचं मुखं ततः पदम् ॥५॥

Verse

उदरे सर्वदा पातु स्तम्भयेति सदा मम । जिह्वां कीलय मे मातर्बगला सर्वसदाऽवतु ॥६॥

Verse

बुद्धिं विनाशय पादौ तु ह्लीं ॐ मे दिग्विदिक्षु च । स्वाहा मे सर्वदा पातु सर्वत्र सर्वसन्धिषु ॥७॥

Verse

इति ते कथितं देवि कवचं परमाद्भुतम् । यस्य स्मरणमात्रेण सर्वस्थम्भो भवेत् क्षणात् ॥८॥

Verse

यद् धृत्वा विविधा दैत्या वासवेन हताः पुरा । यस्य प्रसादात् सिद्धोऽहं हरिः सत्त्वगुणान्वितः ॥९॥

Verse

वेधा सृष्टिं वितनुते कामः सर्वजगज्जयी । लिखित्वा धारयेद्यस्तु कण्ठे वा दक्षिणे भुजे ॥१०॥

Verse

षट्कर्मसिद्धीस्तस्याशु मम तुल्यो भवेद्ध्रुवम् । अज्ञात्वा कवचं देवि तस्य मन्त्रो न सिध्यति ॥११॥

Verse

इति श्रीबगलामुखीशत्रुविनाशकं कवचं समाप्तम् ॥

bagalāmukhīvarṇakavaca
śrībaṭukabhairavakavacam

सा विद्या या विमुक्तये

Built with Sankalpa at Gyaandweep

Gyaandweep

© 2022-2026 Granthajyoti Pvt Ltd.

Privacy & Terms