kavaca
śrīdhūmāvatīkavacam
श्रीधूमावतीकवचम्
Verse
श्रीगणेशाय नमः । अथ धूमावती कवचम् । श्रीपार्वत्युवाच - धूमावत्यर्चनं शम्भो श्रुतं विस्तरतोमया । कवचं श्रोतुमिच्छामि तस्या देव वदस्व मे ॥१॥
Verse
श्रीभैरव उवाच - शृणु देवि परं गुह्यं न प्रकाश्यं कलौ युगे । कवचं श्रीधूमावत्याश्शत्रुनिग्रहकारकम् ॥२॥
Verse
ब्रह्माद्यादेवि सततं यद्वशादरिघातिनः । योगिनो भव शत्रुघ्ना यस्या ध्यान प्रभावतः ॥३॥
Verse
ॐ अस्य श्रीधूमावतीकवचस्य पिप्पलाद ऋषिः अनुष्टुप्छन्दः श्रीधूमावती देवता धूं बीजम् स्वाहा शक्तिः धूमावती कीलकम् शत्रुहनने पाठे विनियोगः । ॐ धूं बीजं मे शिरः पातु धूं ललाटं सदावतु । धूमा नेत्रयुगं पातु वती कर्णौ सदावतु ॥४॥
Verse
दीर्घा तूदरमध्ये तु नाभिं मे मलिनाम्बरा । शूर्पहन्ता पातु गुह्यं रूक्षा रक्षतु जानुनी ॥५॥
Verse
मुखं मे पातु भीमाख्या स्वाहा रक्षतु नासिकाम् । सर्वं विद्यावतु कण्ठं विवर्णा बाहुयुग्मकम् ॥६॥
Verse
चञ्चला हृदयं पातु धृष्टा पार्श्वं सदावतु । धूमहस्ता सदा पातु पादौ पातु भयावहा ॥७॥
Verse
(धूतहस्ता) प्रवृद्धरोमा तु भृशं कुटिला कुटिलेक्षणा । क्षुत्पिपासार्दिता देवी भयदा कलहप्रिया ॥८॥
Verse
सर्वाङ्गं पातु मे देवी सर्वशत्रुविनाशिनी । इति ते कवचं पुण्यं कथितं भुवि दुर्लभम् ॥९॥
Verse
न प्रकाश्यं न प्रकाश्यं न प्रकाश्यं कलौ युगे । पठनीयं महादेवि त्रिसन्ध्यं ध्यानतत्परैः । दुष्टाभिचारो देवेशि तद्गात्रं नैव संस्पृशेत् ॥१०॥
Verse
इति भैरवीभैरव संवादे धूमावतीतत्त्वे धूमावतीकवचं सम्पूर्णम् ॥
