kavaca
śrītulajābhavānīkavacam athavā turajākavacam
श्रीतुलजाभवानीकवचम् अथवा तुरजाकवचम्
Verse
श्रीगणेशाय नमः । श्रीसरस्वत्यै नमः । श्री शङ्कराय नमः । अथ ध्यानम् । श्यामां पूर्णेन्दुवदनां श्वेताम्बरधरां शिवाम् । महामेघ निनादातां निर्वाते दीपवत्स्थिताम् ॥१॥
Verse
भुजाष्टकयुक्ता बाणां चापशूलगदाधराम् । खड्गशङ्खगदाचक्रवरदाभयधारिणीम् ॥२॥
Verse
अथ तुरजा कवचम् । श्रीदेव्युवाच - देवेश परमेशान भक्तानुग्रहकारक । तुरजाकवचं वक्ष्ये मम प्रीत्या महेश्वर ॥
Verse
श्री ईश्वरोवाच - शृणु देवि महागुह्यमतिगुह्यतरं महत् । तुरजाकवचं वक्ष्ये न देयं कस्यचित् कदा ॥
Verse
ॐ अस्य श्रीतुरजाकवचमालामन्त्रस्य श्रीरामचन्द्र ऋषिः । श्रीतुरजा देवता । अनुष्टुप्छन्दः । श्रीतुरजाप्रसादसिद्ध्यर्थे जपे विनियोगः । श्रीशङ्कर उवाच - तुरजा मे शिरः पातु भाले तु परमेश्वरी । नेत्रे नारायणी रक्षेत्कर्णमूले तु शाङ्करी ॥१॥
Verse
मुखम्पातु महामाया कण्ठं भुवनसुन्दरी । बाहुद्वयं विश्वमाता हृदयं शिववल्लभा ॥२॥
Verse
नाभिं कुण्डलिनी पातु जानुनी जाह्नवी तथा । पादयोः पापनाशीञ्च पादाग्रं सर्वतीर्थवत् ॥३॥
Verse
इन्द्रायणी पातु पूर्वे आग्नेय्यामग्निदेवता । दक्षिणे नारसिंही च नैरृत्यां खड्गधारिणी ॥४॥
Verse
पश्चिमे वारुणी पातु वायव्यां वायुरूपिणी । उदीच्या पाशहस्ता च ईशान्ये ईश्वरी तथा ॥५॥
Verse
ऊर्ध्वं ब्रह्मणि मे रक्षेदधास्या वैष्णवी तथा । एवं दशदिशो रक्षेत् सर्वाङ्गे भुवनेश्वरी ॥६॥
Verse
इदं तु कथितं दिव्यं कवचं सर्वदेहिकम् । भूतग्रहहरं नित्यं ग्रहपीडा तथैव च ॥७॥
Verse
सर्वपापहरे देवि अन्ते सायुज्यं प्राप्नुयात् । यत्र तत्र न वक्तव्यं यदिच्छेदात्मनो हितम् ॥८॥
Verse
शठाय भक्तिहीनाय विष्णुद्वेषाय वै तथा । शिष्याय भक्तियुक्ताय साधकाय प्रकाशयेत् ॥९॥
Verse
दध्यात् कवचमित्युक्तं तत्पुण्यं शृणु पार्वति । अश्वमेधसहस्राणि कन्याकोटीशचानि च ॥१०॥
Verse
गवां लक्षसहस्राणि तत्पुण्यं लभते नरः । अष्टम्यां चतुर्दश्यां नवम्यां चैक चेतसा ॥११॥
Verse
सर्वपापविशुद्धात्मा सर्वलोकसनातनम् । वने रणे महाघोरे भयवादे महाहवे ॥१२॥
Verse
जपेत्कवच मा देवि सर्वविघ्नविनाशिनी । भौमवारे महापुण्ये पठेत्कवचमाहितः ॥१३॥
Verse
सर्वबाधाप्रशमनं रहस्यं सर्वदेहिनाम् । किमत्र बहुनोक्तेन देवि सायुज्यं प्राप्नुयात् ॥१४॥
Verse
इति श्रीस्कन्दपुराणे सहयाद्रिखण्डे तुरजामाहात्म्ये ईश्वरपार्वतीसंवादे श्रीतुरजाकवचं सम्पूर्णम् । श्रीउमारामेश्वरार्पणमस्तु ॥
