Fetching Data .

Loading verse structure and chapter context.

GyanDweepBeta
HomeLearnLibrary
eGurukulsDiscoverTemplesPanchanga
Sign Up
Sign Up

kavaca

śrīgaṇeśāya namaḥ ।

श्रीगणेशाय नमः ।

Verse

लोपामुद्रा उवाच । कुम्भोद्भव दयासिन्धो श्रुतं हनुमतः परम् । यन्त्रमन्त्रादिकं सर्वं त्वन्मुखोदीरितं मया ॥१॥

Verse

दयां कुरु मयि प्राणनाथ वेदितुमुत्सहे । कवचं वायुपुत्रस्य एकादशमुखात्मनः ॥२॥

Verse

इत्येवं वचनं श्रुत्वा प्रियायाः प्रश्रयान्वितम् । वक्तुं प्रचक्रमे तत्र लोपामुद्रां प्रति प्रभुः ॥३॥

Verse

अगस्त्य उवाच । नमस्कृत्वा रामदूतां हनुमन्तं महामतिम् । ब्रह्मप्रोक्तं तु कवचं श्रृणु सुन्दरि सादरम् ॥४॥

Verse

सनन्दनाय सुमहच्चतुराननभाषितम् । कवचं कामदं दिव्यं रक्षःकुलनिबर्हणम् ॥५॥

Verse

सर्वसम्पत्प्रदं पुण्यं मर्त्यानां मधुरस्वरे । ॐ अस्य श्रीकवचस्यैकादशवक्त्रस्य धीमतः ॥६॥

Verse

हनुमत्स्तुतिमन्त्रस्य सनन्दन ऋषिः स्मृतः । प्रसन्नात्मा हनूमांश्च देवता परिकीर्तिता ॥७॥

Verse

छन्दोऽनुष्टुप् समाख्यातं बीजं वायुसुतस्तथा । मुख्यः प्राणः शक्तिरिति विनियोगः प्रकीर्तितः ॥८॥

Verse

सर्वकामार्थसिद्धयर्थं जप एवमुदीरयेत् । ॐ स्फ्रेंबीजं शक्तिधृक् पातु शिरो मे पवनात्मजः ॥९॥

Verse

क्रौंबीजात्मा नयनयोः पातु मां वानरेश्वरः । क्षंबीजरूपः कर्णौ मे सीताशोकविनाशनः ॥१०॥

Verse

ग्लौंबीजवाच्यो नासां मे लक्ष्मणप्राणदायकः । वंबीजार्थश्च कण्ठं मे पातु चाक्षयकारकः ॥११॥

Verse

ऐंबीजवाच्यो हृदयं पातु मे कपिनायकः । वंबीजकीर्तितः पातु बाहू मे चाञ्जनीसुतः ॥१२॥

Verse

ह्रांबीजो राक्षसेन्द्रस्य दर्पहा पातु चोदरम् । ह्रसौंबीजमयो मध्यं पातु लङ्काविदाहकः ॥१३॥

Verse

ह्रींबीजधरः पातु गुह्यं देवेन्द्रवन्दितः । रंबीजात्मा सदा पातु चोरू वार्धिलंघनः ॥१४॥

Verse

सुग्रीवसचिवः पातु जानुनी मे मनोजवः । पादौ पादतले पातु द्रोणाचलधरो हरिः ॥१५॥

Verse

आपादमस्तकं पातु रामदूतो महाबलः । पूर्वे वानरवक्त्रो मामाग्नेय्यां क्षत्रियान्तकृत् ॥१६॥

Verse

दक्षिणे नारसिंहस्तु नैऋर्त्यां गणनायकः । वारुण्यां दिशि मामव्यात्खगवक्त्रो हरीश्वरः ॥१७॥

Verse

वायव्यां भैरवमुखः कौबेर्यां पातु मां सदा । क्रोडास्यः पातु मां नित्यमैशान्यं रुद्ररूपधृक् ॥१८॥

Verse

ऊर्ध्वं हयाननः पातु गुह्याधः सुमुखस्तथा । रामास्यः पातु सर्वत्र सौम्यरूपो महाभुजः ॥१९॥

Verse

इत्येवं रामदूतस्य कवचं यः पठेत्सदा । एकादशमुखस्यैतद्गोप्यं वै कीर्तितं मया ॥२०॥

Verse

रक्षोघ्नं कामदं सौम्यं सर्वसम्पद्विधायकम् । पुत्रदं धनदं चोग्रशत्रुसंघविमर्दनम् ॥२१॥

Verse

स्वर्गापवर्गदं दिव्यं चिन्तितार्थप्रदं शुभम् । एतत्कवचमज्ञात्वा मन्त्रसिद्धिर्न जायते ॥२२॥

Verse

चत्वारिंशत्सहस्राणि पठेच्छुद्धात्मको नरः । एकवारं पठेन्नित्यं कवचं सिद्धिदं पुमान् ॥२३॥

Verse

द्विवारं वा त्रिवारं वा पठन्नायुष्यमाप्नुयात् । क्रमादेकादशादेवमावर्तनजपात्सुधीः ॥२४॥

Verse

वर्षान्ते दर्शनं साक्षाल्लभते नात्र संशयः । यं यं चिन्तयते चार्थं तं तं प्राप्नोति पूरुषः ॥२५॥

Verse

ब्रह्मोदीरितमेतद्धि तवाग्रे कथितं महत ॥२६॥

Verse

इत्येवमुक्त्वा वचनं महर्षिस्तूष्णीं बभूवेन्दुमुखीं निरीक्ष्य । संहृष्टचित्तापि तदा तदीयपादा ननामातिमुदा स्वभर्तुः ॥२७॥

Verse

॥ इत्यगस्त्यसारसंहितायामेकादशमुखहनुमत्कवचं सम्पूर्णम् ॥

āñjaneya kavacam
śrīgaṇeśāya namaḥ ।

Read next

More on श्रीगणेशाय नमः

  • श्रीगणेशाय नमः ॥Ashtakam
  • श्रीगणेशाय नमः ॥Ashtakam
  • श्रीगणेशाय नमः ॥Ashtakam
  • श्रीगणेशाय नमः ॥Ashtakam
  • श्रीगणेशाय नमः ॥Ashtakam
  • श्रीगणेशाय नमः ॥Ashtakam

सा विद्या या विमुक्तये

Built with Sankalpa at Gyaandweep

Gyaandweep

© 2022-2026 Granthajyoti Pvt Ltd.

Privacy & Terms