kavaca
śrīkṛṣṇa / trailokyavijayaṃ nāmakavacam
श्रीकृष्ण / त्रैलोक्यविजयं नामकवचम्
Verse
नारद उवाच । भगवञ्छ्रोतुमिच्छामि किं मन्त्रं भगवान्हरः । कृपया-ऽदात् परशुरामाय स्तोत्रं च वर्म च ॥१॥
Verse
कोवाऽस्य मन्त्रस्याराध्यः किं फलं कवचस्य च । स्तवनस्य फलं किं वा तद्भवान्वक्तुमर्हसि ॥२॥
Verse
नारायण उवाच । मन्त्राराध्यो हि भगवान् परिपूर्णतमः स्वयम् । गोलोकनाथः श्रीकृष्णो गोप-गोपीश्वरः प्रभुः ॥३॥
Verse
त्रैलोक्यविजयं नाम कवचं परमाद्भुतम् । स्तवराजं महापुण्यं भूतियोग-समुद्भवम् ॥४॥
Verse
मन्त्रं कल्पतरुं नाम सर्वकाम-फलप्रदम् । ददौ परशुरामाय रत्नपर्वत-सन्निधौ ॥५॥
Verse
स्वयंप्रभा-नदीतीरे पारिजात-वनान्तरे । आश्रमे लोकदेवस्य माधवस्य च सन्निधौ ॥६॥
Verse
महादेव उवाच । वत्सागच्छ महाभाग भृगुवंश-समुद्भव । पुत्राधिकोऽसि प्रेम्णा मे कवचग्रहणं कुरु ॥७॥
Verse
शृणु राम प्रवक्ष्यामि ब्रह्माण्डे परमाद्भुतम् । त्रैलोक्यविजयं नाम श्रीकृष्णस्य जयावहम् ॥८॥
Verse
श्रीकृष्णेन पुरा दत्तं गोलोके राधिकाश्रमे । रासमण्डल-मध्ये च मह्यं वृन्दावने वने ॥९॥
Verse
अतिगुह्यतरं तत्त्वं सर्व-मन्त्रौघविग्रहम् । पुण्यात्पुण्यतरं चैव परं स्नेहाद्वदामि ते ॥१०॥
Verse
यद्धृत्वा पठनाद्देवी मूलप्रकृतिरीश्वरी । शुंभं निशुंभं महिषं रक्तबीजं जघान ह ॥११॥
Verse
यद्धृत्वाऽहं च जगतां संहर्ता सर्वतत्ववित् । अवध्यं त्रिपुरं पूर्वं दुरन्तमपि लीलया ॥१२॥
Verse
यद्धृत्वा पठनाद्ब्रह्मा ससृजे सृष्टिमुत्तमाम् । यद्धृत्वा भगवाञ्छेषो विधत्ते विश्वमेव च ॥१३॥
Verse
यद्धृत्वा कूर्मराजश्च शेषं धत्ते हि लीलया । यद्धृत्वा भगवान्वायुः विश्वाधारो विभुः स्वयम् ॥१४॥
Verse
यद्धृत्वा वरुणः सिद्धः कुबेरश्च धनेश्वरः । यद्धृत्वा पठनादिन्द्रो देवानामधिपः स्वयम् ॥१५॥
Verse
यद्धृत्वा भाति भुवने तेजोराशिः स्वयं रविः । यद्धृत्वा पठनाच्चन्द्रो महाबल-पराक्रमः ॥१६॥
Verse
अगस्त्यः सागरान्सप्त यद्धृत्वा पठनात्पपौ । चकार तेजसा जीर्णं दैत्यं वातापिसंज्ञकम् ॥१७॥
Verse
यद्धृत्वा पठनाद्देवी सर्वाधारा वसुन्धरा । यद्धृत्वा पठनात्पूता गङ्गा भुवनपावनी ॥१८॥
Verse
यद्धृत्वा जगतां साक्षी धर्मो धर्मभृतां वरः । सर्व-विद्याधिदेवी सा यच्च धृत्वा सरस्वती ॥१९॥
Verse
यद्धृत्वा जगतां लक्ष्मी-रन्नदात्री परात्परा । यद्धृत्वा पठनाद्वेदान् सावित्री सा सुषाव च ॥२०॥
Verse
वेदाश्च धर्मवक्तारो यद्धृत्वा पठनाद् भृगो । यद्धृत्वा पठनाच्छुद्ध-स्तेजस्वी हव्यवाहनः । सनत्कुमारो भगवान्यद्धृत्वा ज्ञानिनां वरः ॥२१॥
Verse
दातव्यं कृष्ण-भक्ताय साधवे च महात्मने । शठाय परशिष्याय दत्वा मृत्युमवाप्नुयात् ॥२२॥
Verse
त्रैलोक्यविजयस्यास्य कवचस्य प्रजापतिः । ॠषिश्छन्दश्च गायत्री देवो रासेश्वरः स्वयम् ॥२३॥
Verse
त्रैलोक्यविजय-प्राप्तौ विनियोगः प्रकीर्तितः । परात्परं च कवचं त्रिषु लोकेषु दुर्लभम् ॥२४॥
Verse
ॐ प्रणवो मे शिरः पातु श्रीकृष्णाय नमः सदा । पायात्कपालं कृष्णाय स्वाहा पञ्चाक्षरः स्मृतः ॥२५॥
Verse
कृष्णेति पातु नेत्रे च कृष्ण स्वाहेति तारकम् । हरये नम इत्येवं भ्रूलतां पातु मे सदा ॥२६॥
Verse
ॐ गोविन्दाय स्वाहेति नासिकां पातु सन्ततम् । गोपालाय नमो गण्डौ पातु मे सर्वतः सदा ॥२७॥
Verse
ॐ नमो गोपाङ्गनेशाय कर्णौ पातु सदा मम । ॐ कृष्णाय नमः शश्वत्पातु मेऽधर-युग्मकम् ॥२८॥
Verse
ॐ गोविन्दाय स्वाहेति दन्तौघं मे सदाऽवतु । पातु कृष्णाय दन्ताधो दन्तोर्ध्वं क्लीं सदाऽवतु ॥२९॥
Verse
ॐ श्रीकृष्णाय स्वाहेति जिह्विकां पातु मे सदा । रासेश्वराय स्वाहेति तालुकं पातु मे सदा ॥३०॥
Verse
राधिकेशाय स्वाहेति कण्ठं पातु सदा मम । नमो गोपाङ्गनेशाय वक्षः पातु सदा मम ॥३१॥
Verse
ॐ गोपेशाय स्वाहेति स्कन्धं पातु सदा मम । नमः किशोर-वेषाय स्वाहा पृष्टं सदाऽवतु ॥३२॥
Verse
उदरं पातु मे नित्यं मुकुन्दाय नमः सदा । ॐ ह्रीं क्लीं कृष्णाय स्वाहेति करौ पातु सदा मम ॥३३॥
Verse
ॐ विष्णवे नमो बाहुयुग्मं पातु सदा मम । ॐ ह्रीं भगवते स्वाहा नखं पातु मे सदा ॥३४॥
Verse
ॐ नमो नारायणायेति नखरन्ध्रं सदाऽवतु । ॐ श्रीं क्लीं पद्मनाभाय नाभिं पातु सदा मम ॥३५॥
Verse
(ह्रीं ह्रीं) ॐ सर्वेशाय स्वाहेति कङ्कालं पातु मे सदा । ॐ गोपीरमणाय स्वाह नितम्बं पातु मे सदा ॥३६॥
Verse
ॐ गोपीरमणनाथाय पादौ पातु सदा मम । ॐ ह्रीं श्रीं रसिकेशाय स्वाहा सर्वं सदाऽवतु।३७ ॥
Verse
ॐ केशवाय स्वाहेति मम केशान्सदाऽवतु । नमः कृष्णाय स्वाहेति ब्रह्मरन्ध्रं सदाऽवतु ॥३८॥
Verse
ॐ माधवाय स्वाहेति मे लोमानि सदाऽवतु । ॐ ह्रीं श्रीं रसिकेशाय स्वाहा सर्वं सदाऽवतु ॥३९॥
Verse
परिपूर्णतमः कृष्णः प्राच्यां मां सर्वदाऽवतु । स्वयं गोलोकनाथो मामाग्नेयां दिशि रक्षतु ॥४०॥
Verse
पूर्णब्रह्मस्वरूपश्च दक्षिणे मां सदाऽवतु । नैरॄत्यां पातु मां कृष्णः पश्चिमे पातु मां हरिः ॥४१॥
Verse
गोविन्दः पातु मां शश्वद्वायव्यां दिशि नित्यशः । उत्तरे मां सदा पातु रसिकानां शिरोमणिः ॥४२॥
Verse
ऐशान्यां मां सदा पातु वृन्दावन-विहारकृत् । वृन्दावनी-प्राणनाथः पातु मामूर्ध्वदेशतः ॥४३॥
Verse
सदैव माधवः पातु बलिहारी महाबलः । जले स्थले चान्तरिक्षे नृसिंहः पातु मां सदा ॥४४॥
Verse
स्वप्ने जागरणे शश्वत्पातु मां माधवः सदा । सर्वान्तरात्मा निर्लिप्तः पातु मां सर्वतो विभुः ॥४५॥
Verse
इति ते कथितं वत्स सर्वमन्त्रौघ-विग्रहम् । त्रैलोक्यविजयं नाम कवचं परमाद्भुतम् ॥४६॥
Verse
मया श्रुतं कृष्ण-वक्त्रात् प्रवक्तव्यं न कस्यचित् । गुरुमभ्यर्च्य विधिवत् कवचं धारयेत् यः ॥४७॥
Verse
कण्ठे वा दक्षिणे बाहौ सोऽपि विष्णुर्न संशयः । स च भक्तो वसेद्यत्र लक्ष्मीर्वाणी वसेत्ततः ॥४८॥
Verse
यदि स्यात्सिद्धकवचो जीवन्मुक्तो भवेत्तु सः । निश्चितं कोटिवर्षाणां पूजायाः फलमाप्नुयात् ॥४९॥
Verse
राजसूय-सहस्राणि वाजपेय-शतानि च । अश्वमेधायुतान्येव नरमेधायुतानि च ॥५०॥
Verse
महादानानि यान्येव प्रादक्षिण्यं भुवस्तथा । त्रैलोक्यविजयस्यास्य कलां नार्हन्ति षोडशीम् ॥५१॥
Verse
व्रतोपवास-नियमं स्वाध्यायाध्ययनं तपः । स्नानं च सर्वतीर्थेषु नास्यार्हन्ति कलामपि ॥५२॥
Verse
सिद्धत्वममरत्वं च दासत्वं श्रीहरेरपि । यदि स्यात्सिद्धकवचः सर्वं प्राप्नोति निश्चितम् ॥५३॥
Verse
स भवेत्सिद्धकवचो दशलक्षं जपेत्तु यः । यो भवेत्सिद्धकवचः सर्वज्ञः स भवेद्ध्रुवम् ॥५४॥
Verse
इदं कवच-मज्ञात्वा भजेत्कृष्णं सुमन्दधीः । कोटिकल्पं प्रजप्तोऽपि न मन्त्रः सिद्धि-दायकः ॥५५॥
Verse
गृहीत्वा कवचं वत्स महीं निःक्षत्रियं कुरु । त्रिस्सप्तकृत्वो निश्शंकः सदानन्दो हि लीलया ॥५६॥
Verse
राज्यं देयं शिरो देयं प्रणा देयाश्च पुत्रक । एवंभूतं च कवचं न देयं प्राणसंकटे ॥५७॥
Verse
॥ इति श्रीब्रह्मवैवर्ते महापुराणे तृतीये गणपतिखण्डे नारद-नारायणसंवादे परशुरामाय श्रीकृष्णकवच- प्रदानं नाम एकत्रिंशत्तमोऽध्ययः ॥
