Fetching Data .

Loading verse structure and chapter context.

GyanDweepBeta
HomeLearnLibrary
eGurukulsDiscoverTemplesPanchanga
Sign Up
Sign Up

kavaca

śrī pratyaṅgirā sarvārthasādhakakavacam

श्री प्रत्यङ्गिरा सर्वार्थसाधककवचम्

Verse

देव्युवाच । भगवन् सर्वधर्मज्ञ सर्वशास्त्रार्थपारग । देव्याः प्रत्यङ्गिरायाश्च कवचं यत्प्रकाशितम् ॥१॥

Verse

सर्वार्थसाधनं नाम कथयस्व मयि प्रभो । भैरव उवाच । श‍ृणु देवि प्रवक्ष्यामि कवचं परमाद्भुतम् ॥२॥

Verse

सर्वार्थसाधनं नाम त्रैलोक्ये चाऽतिदुर्लभम् । सर्वसिद्धिमयं देवि सर्वैश्वर्यप्रदायकम् ॥३॥

Verse

पठनाच्छ्र्वणान्मर्त्यस्त्रैलोक्यैश्वर्यभाग्भवेत् । सर्वार्थसाधकस्याऽस्य कवचस्य ऋषिः शिवः ॥४॥

Verse

छन्दो विराट् पराशक्तिर्जगद्धात्री च देवता । धर्माऽर्थकाममोक्षेषु विनियोगः प्रकीर्तितः ॥५॥

Verse

विनियोगः- ॐ श्रीसर्वार्थसाधककवचस्य शिव ऋषिः । विराट् छन्दः । श्रीमत्प्रत्यङ्गिरा देवता । ऐं बीजम् । ह्रीं शक्तिः । श्रीं कीलकं श्रीसदाशिवदेवता प्रीत्यर्थे पाठे विनियोगः ॥

Verse

ॐ प्रणवं मे शिरः पातु वाग्भवं च ललाटकम् । ह्रीं पातु दक्षनेत्रं मे लक्ष्मीर्वाम सुरेश्वरी ॥१॥

Verse

प्रत्यङ्गिरा दक्षकर्ण वामे कामेश्वरी तथा । लक्ष्मीः प्राणं सदा पातु वदनं पातु केशवः ॥२॥

Verse

गौरी तु रसनां पातु कण्ठं पातु महेश्वरः । स्कन्धदेशं रतिः पातु भुजौ तु मकरध्वजः ॥३॥

Verse

शङ्खनिधिः करौ पातु वक्षः पद्मनिधिस्तथा । ब्राह्मी मध्यं सदा पातु नाभिं पातु महेश्वरी ॥४॥

Verse

कौमारी पृष्ठदेशं तु गुह्यं रक्षतु वैष्णवी । वाराही च कटिम्पातु चैन्द्री पातु पदद्वयम् ॥५॥

Verse

भार्यां रक्षतु चामुण्डा लक्ष्मी रक्षतु पुत्रकान् । इन्द्रः पूर्वे सदा पातु आग्नेय्यां अग्निदेवता ॥६॥

Verse

याम्ये यमः सदा पातु नैरृत्यां निरृतिस्तथा । पश्चिमे वरुणः पातु वायव्यां वायुदेवता ॥७॥

Verse

सौम्यां सोमः सदा पातु चैशान्यामीश्वरो विभुः । ऊर्ध्वं प्रजापतिः पातु ह्यधश्चाऽनन्तदेवता ॥८॥

Verse

राजद्वारे श्मशाने तु अरण्ये प्रान्तरे तथा । जले स्थले चाऽन्तरिक्षे शत्रूणां निग्रहे तथा ॥९॥

Verse

एताभिः सहिता देवी चतुर्बीजा महेश्वरी । प्रत्यङ्गिरा महाशक्तिः सर्वत्र मां सदाऽवतु ॥१०॥

Verse

फलश्रुतिः । इति ते कथितं देवि सारात्सारं परात्परम् । सर्वार्थसाधनं नाम कवचं परमाद्भुतम् ॥१॥

Verse

अस्याऽपि पठनात्सद्यः कुबेरोऽपि धनेश्वरः । इन्द्राद्याः सकला देवाः धारणात्पठनाद्यतः ॥२॥

Verse

सर्वसिद्धीश्वरो सन्तः सर्वैश्वर्यमवाप्नुयुः । प्रीतिमन्येऽन्यतः कृत्वा कमला निश्चला गृहे ॥३॥

Verse

वाणी च निवसेद्वक्त्रे सत्यं सत्यं न संशयः । यो धारयति पुण्यात्मा सर्वार्थसाधनाभिधम् ॥४॥

Verse

कवचं परमं पुण्यं सोऽपि पुण्यवतां वरः । सर्वैश्वर्ययुतो भूत्वा त्रैलोक्यविजयी भवेत् ॥५॥

Verse

पुरुषो दक्षिणे बाहौ नारी वामभुजे तथा । बहुपुत्रवती भूयाद्वन्ध्याऽपि लभते सुतम् ॥६॥

Verse

ब्रह्मास्त्रादीनि शस्त्राणि नैव कृन्तन्ति तत्तनुम् । एतत्कवचमज्ञात्वा यो जपेत्परमेश्वरीम् ॥७॥

Verse

दारिद्र्यं परमं प्राप्य सोऽचिरान्मृत्युमाप्नुयात् ॥

Verse

श्री रुद्रयामल तन्त्रे पञ्चाङ्गखण्डे प्रत्यङ्गिरायाः सर्वार्थसाधनं नामकं कवचं परिपूर्णम् ॥

puruṣottamakavacam
śrībagalāpañjarastotram athavā śrīpītāmbarāpañjarastotram

सा विद्या या विमुक्तये

Built with Sankalpa at Gyaandweep

Gyaandweep

© 2022-2026 Granthajyoti Pvt Ltd.

Privacy & Terms