Fetching Data .

Loading verse structure and chapter context.

GyanDweepBeta
HomeLearnLibrary
eGurukulsDiscoverTemplesPanchanga
Sign Up
Sign Up

kavaca

reṇukākavacaṃ ḍāmareśvaratantre ṣaṣṭhitamo'dhyāyaḥ

रेणुकाकवचं डामरेश्वरतन्त्रे षष्ठितमोऽध्यायः

Verse

॥श्री गणेशाय नमः ॥

Verse

श‍ृणु देवि प्रवक्ष्यामि रेणुकाकवचं परम् । येन विज्ञानमात्रेण सान्निध्यं रेणुका भवेत् ॥

Verse

रेणुकाकवचस्यास्य भार्गवस्तु ऋषिः स्मृतः । छन्दोऽनुष्टुप् तथा देवी रेणुका देवता मम ॥

Verse

इष्ट-काम्यार्थ-सिद्ध्यर्थे विनियोगो वरानने । रेणुका मे शिरः पातु परा शक्तिस्वरूपिणी ॥

Verse

भालं रक्षतु भुवनेशी लोचनं मे त्रिलोचनी । मुखं मे रेणुका पातु नासिकां कालनाशिनी ॥

Verse

भ्रुवौ सुभ्रूलता पातु दन्तान्मे कुन्ददन्तिका । ओष्ठं बिम्बोष्ठिका पातु जिंह्वां पातु सुरेश्वरी ॥

Verse

ग्रीवां रक्षतु इन्द्राणी कुक्षौ रक्षेत्कुलेश्वरी । गण्डं मे पातु चामुण्डा महालक्ष्मीस्तु कन्धरम् ॥

Verse

असौ हंसप्रिया पातु बाहू सायुधवाहुका । वाणीं वक्षस्थलं पातु हृदयं हृदयेश्वरी ॥

Verse

जघने घनवाहा मे गुह्यं गुह्येश्वरी मम । ऊरू वरोरुका पातु श्रीदेवी सिद्धिदेवता ॥

Verse

सर्वाङ्गं सर्वदा पातु सर्वाणी रूपिणी वरा । इति श्रीरेणुका वर्म दुष्कर्म त्रासनं सदा ॥

Verse

स्तुतिमात्रेण भक्तानां संरक्षणविचक्षणम् । जप्त्वा तु कवचं देव्याः यत्र तत्र तु गच्छति ॥

Verse

तत्र तत्र जयो लाभः कार्यसिद्धिश्च जायते । ॥ इति श्री डामरेश्वरतन्त्रे रेणुकाकवचं नाम षष्ठितमोऽध्यायः ॥

reṇukākavacaṃ bhairavarudrayāmāle
reṇukākavacaṃ ḍāmareśvaratantre ṣaṣṭhitamo'dhyāyaḥ

Read next

More on रेणुकाकवचं डामरेश्वरतन्त्रे षष्ठितमोऽध्यायः

  • रेणुकाकवचं डामरेश्वरतन्त्रे षष्ठितमोऽध्यायःKavach

सा विद्या या विमुक्तये

Built with Sankalpa at Gyaandweep

Gyaandweep

© 2022-2026 Granthajyoti Pvt Ltd.

Privacy & Terms