kavaca
rudrakavacam
रुद्रकवचम्
Verse
॥अथ श्री रुद्रकवचम् ॥
Verse
ॐ अस्य श्रीरुद्रकवचस्तोत्रमहामन्त्रस्य दुर्वासा ऋषिः । अनुष्टुप्छन्दः । त्र्यम्बकरुद्रो देवता । ह्रां बीजम् । श्रीं शक्तिः । ह्रीं कीलकम् । मम मानसाभीष्टसिद्ध्यर्थे जपे विनियोगः ॥
Verse
ह्रामित्यादि षड्दीर्घेष्षडङ्गन्यासः ॥
Verse
॥ध्यानम् ॥
Verse
शान्तं पद्मासनस्थं शशिधरमकुटं पञ्चवक्त्रं त्रिनेत्रं शूलं वज्रञ्च खड्गं परशुमभयदं दक्षभागे महन्तम् । (दक्षिणाङ्गैर्वहन्तम्) नागं पाशं च घण्टां प्रलय हुतवहं साङ्कुशं वामभागे (घण्टां डमरुकसहितं) नानालङ्कारयुक्तं स्फटिकमणिनिभं पार्वतीशं नमामि ॥(नानालङ्कारदीप्तं) ॥दुर्वासा उवाच ॥
Verse
प्रणम्य शिरसा देवं स्वयम्भुं परमेश्वरम् । एकं सर्वगतं देवं सर्वदेवमयं विभुम् ॥१॥
Verse
(एवं) रुद्रवर्मं प्रवक्ष्यामि अङ्गप्राणस्य रक्षये । अहोरात्रमयं देवं रक्षार्थं निर्मितं पुरा ॥२॥
Verse
रुद्रो मे चाग्रतः पातु पातु पार्श्वौ हरस्तथा । शिरो मे ईश्वरः पातु ललाटं नीललोहितः ॥३॥
Verse
नेत्रयोस्त्र्यम्बकः पातु मुखं पातु महेश्वरः । कर्णयोः पातु मे शम्भुर्नासिकायां सदाशिवः ॥४॥
Verse
वागीशः पातु मे जिह्वामोष्ठौ पात्वम्बिकापतिः । श्रीकण्ठः पातु मे ग्रीवां बाहूचैव पिनाकधृत् ॥५॥
Verse
हृदयं मे महादेव ईश्वरोऽव्यात्स्तनान्तरम् । नाभिं कटिं च वक्षश्च पातु शर्व उमापतिः ॥६॥
Verse
बाहुमध्यान्तरं चैव सूक्ष्मरूपस्सदाशिवः । सर्वं रक्षतु मे शर्वो गात्राणि च यथा क्रमम् ॥७॥
Verse
वज्रं च शक्तिदं चैव पाशाङ्कुशधरं तथा । गण्डशूलधरान्नित्यं रक्षतु त्रिदशेश्वरः ॥८॥
Verse
प्रस्थानेषु पदे चैव वृक्षमूले नदीतटे । सन्ध्यायां राजभवने विरूपाक्षस्तु पातु माम् ॥९॥
Verse
शीतोष्णादथ कालेषु तुहिनद्रुमकण्टके । निर्मनुष्ये समे मार्गे पाहि मां वृषभध्वज ॥१०॥
Verse
इत्येतद्रुद्रकवचं पवित्रं पापनाशनम् । महादेवप्रसादेन दुर्वासोमुनिकल्पितम् ॥११॥
Verse
ममाख्यातं समासेन न भयं तेन विद्यते । (विन्दति) प्राप्नोति परमारोग्यं पुण्यमायुष्यवर्धनम् ॥१२॥
Verse
(वरमारोग्यं) विद्यार्थी लभते विद्यां धनार्थी लभते धनम् । कन्यार्थी लभते कन्यां न भयं विन्दते क्वचित् ॥१३॥
Verse
अपुत्रो लभते पुत्रं मोक्षार्थी मोक्षमाप्नुयात् । त्राहि त्राहि महादेव त्राहि त्राहि त्रयीमय ॥१४॥
Verse
त्राहि मां पार्वतीनाथ त्राहि मां त्रिपुरान्तक । पाशं खट्वाङ्गदिव्यास्त्रं त्रिशूलं रुद्रमेव च ॥१५॥
Verse
नमस्करोमि देवेश त्राहि मां जगदीश्वर । शत्रुमध्ये सभामध्ये ग्राममध्ये गृहान्तरे ॥१६॥
Verse
गमनेऽगमने चैव त्राहि मां भक्तवत्सल । त्वं चित्वमादितश्चैव त्वं बुद्धिस्त्वं परायणम् ॥१७॥
Verse
(चित्वं त्वं मानसं च) कर्मणा मनसा चैव त्वं बुद्धिश्च यथा सदा । सर्वज्वरभयं छिन्धि सर्वज्वरभयं छिन्धि ॥१८॥
Verse
सर्वग्रहभयं छिन्धि सर्वग्रहभयं छिन्धि । सर्वशत्रून्निवक्त्यापि सर्वव्याधिनिवारणम् । रुद्रलोकं सगच्छति रुद्रलोकं सगच्छत्योन्नम इति ॥
Verse
॥ इति (श्रीस्कन्दपुराणे?) दुर्वासः प्रोक्तं रुद्रकवचं सम्पूर्णम् ॥
