Fetching Data .

Loading verse structure and chapter context.

GyanDweepBeta
HomeLearnLibrary
eGurukulsDiscoverTemplesPanchanga
Sign Up
Sign Up

kavaca

mohanakavacam

मोहनकवचम्

Verse

ईश्वर उवाच - त्रिकालं गोपितं देवि कलिकाले प्रकाशितम् । न वक्तव्यं न द्रष्टव्यं तव स्नेहात् प्रकाश्यते ॥१॥

Verse

काली दिगम्बरी देवि जगन्मोहनकारिणी । तच्छृणुष्व महादेवि त्रैलोक्यमोहनन्त्विदम् ॥२॥

Verse

अस्य महाकालभैरव ऋषिः, अनुष्टुप्छन्दः, श्मशानकालिका देवता, सर्वमोहने विनियोगः । ऐं क्रीं क्रूं क्रः स्वाहा विवादे पातु मां सदा । क्लीं दक्षिणकालिकादेवतायै सभामध्ये जयप्रदा ॥३॥

Verse

क्रीं क्रीं श्यामाङ्गिन्यै शत्रु मारय मारय । ह्रीं क्रीं क्रीं क्लीं त्रैलोक्यं वशमानय ॥४॥

Verse

ह्रीं श्रीं क्री मां रक्ष रक्ष विवादे राजगोचरे । द्वाविंशत्यक्षरी ब्रह्म सर्वत्र रक्ष मां सदा ॥५॥

Verse

कवचे वर्जिते यत्र तत्र मां पातु कीलका । सर्वत्र रक्ष मां देवि श्यामा तूग्रस्वरूपिणी ॥६॥

Verse

एतेषां परमं मोहं भवद्भाग्ये प्रकाशितं सदा यस्तु पठेद्वापि त्रैलोक्यं वशमानयेत् ॥७॥

Verse

इदं कवचमज्ञात्वा पूजयेद्घोररूपिणीम् । सर्वदा स महाव्याधिपीडितो नात्र संशयः ॥८॥

Verse

अल्पायुः स भवेद्रोगी कथितं तव नारद । धारणं कवचस्यास्य भूर्जपत्रे विशेषतः ॥९॥

Verse

सयन्त्रं कवचं धृत्वा इच्छासिद्धिः प्रजायते । शुक्लाष्टम्यां लिखेन्मन्त्रं धारयेत् स्वर्णपत्रके ॥१०॥

Verse

कवचस्यास्य माहात्म्यं नाहं वक्तुं महामुने । शिखायां धारयेद्योगी फलार्थी दक्षिणे भुजे ॥११॥

Verse

इदं कल्पद्रुमं देवि तव स्नेहात् प्रकाश्यते । गोपनीयं प्रयत्नेन पठनीयं महामुने ॥१२॥

Verse

श्रीविष्णुरुवाच - इत्येवं कवचं नित्यं महालक्ष्मि प्रपठ्यताम् । अवश्यं वशमायाति त्रैलोक्यं सचराचरम् ॥१३॥

Verse

शिवेन कथितं पूर्वं नारदे कलहास्पदे । तत्पाठान्नारदेनापि मोहितं सचराचरम् ॥१४॥

Verse

इति क्रियोड्डीशे महातन्त्रराजे देवीश्वरसंवादे मोहनकवचं समाप्तम् । चतुर्दशः पटलः ॥

mṛtyurakṣākārakaṃ kavacam
mohinīkavacam

Read next

More on मोहनकवचम्

  • ईश्वरसम्मोहनकवचम्Kavach
  • श्रीमन्गणपतेः त्रैलोक्यमोहनकवचम्Kavach
  • श्रीदक्षिणकालिकायाः त्रैलोक्यमोहनकवचम्Kavach
  • श्रीभुवनेश्वरी त्रैलोक्यमोहनकवचम्Kavach

सा विद्या या विमुक्तये

Built with Sankalpa at Gyaandweep

Gyaandweep

© 2022-2026 Granthajyoti Pvt Ltd.

Privacy & Terms