Fetching Data .

Loading verse structure and chapter context.

GyanDweepBeta
HomeLearnLibrary
eGurukulsDiscoverTemplesPanchanga
Sign Up
Sign Up

kavaca

mṛtavatsā kavacam

मृतवत्सा कवचम्

Verse

ॐ सिद्धिः । ॐ नमो नरसिंहाय । ॐ ॐ हां हां ह्रीं ह्रीं स्वाहा । अथ मृतवत्सा कवचम् । श्रीभैरव उवाच - भगवन् सर्वधर्मज्ञ सर्वशास्त्रार्थपारग । स्त्रीभूत दानमी देव्याः कर्म स्वमय प्रभो । श्रीभगवान् उवाच - स्त्रीभूत दामनी देवी बीजरूपा सदावतु । ह्रीं ऐं श्रीं वैं वैं वैं वैं रक्ष रक्ष सर्वभूतोपद्रवेब्यः स्वाहा ॥

Verse

ह्रीं पातु काली सर्वाङ्गं संसो भटराजाय स्वाहा । ह्रीं पातु वृद्धरूपसमातृका सर्वतोहरतु । इदन्तु परमं गुह्यं साधकाभीष्टदायकम् । सर्वरक्षाकरञ्चैव भूतप्रेतैर्विशेषतः ॥

Verse

अनपत्यया च या नारी मृतवत् सा च या भवेत् । वहूपुत्री जीववत्सा भवत्येव न संशयः । भूतप्रेतपिशाचाश्च ये चान्येऽनिष्टकारकाः । दुरादेव पलायन्ते कवचस्य च धारणात् । भूतानाञ्च प्रकृतिर्मृतवत् साहरा भवेत् । तव धार्यं प्रयत्नेन मृतवत्सा प्रनाशकम् । अवश्यं धारयेत् तस्या मृतवत्सादूरं गता । इति कुब्जिकातन्त्रे मृतवत्सा कवचं नाम सप्तदशः पटलः ॥

mukticintāmaṇi gāyatrīkavacam
mṛtasañjīvanastotram

सा विद्या या विमुक्तये

Built with Sankalpa at Gyaandweep

Gyaandweep

© 2022-2026 Granthajyoti Pvt Ltd.

Privacy & Terms