Fetching Data .

Loading verse structure and chapter context.

GyanDweepBeta
HomeLearnLibrary
eGurukulsDiscoverTemplesPanchanga
Sign Up
Sign Up

kavaca

mahiṣamardinī kavacam

महिषमर्दिनी कवचम्

Verse

अथ वक्ष्ये महेशानि कवचं सर्वकामदम् । (महादेवी) यस्य प्रसादमासाद्य भवेत् साक्षात् सदाशिवः ॥१॥

Verse

ॐकारं पूर्वमुच्चार्य मन्त्री मन्त्रस्य सिद्धये । प्रपठेत् कवचं नित्यं मन्त्रवर्णस्य सिद्धये ॥२॥

Verse

विनियोगः- ॐ महिषमर्दिन्याः कवचस्य भगवान्महाकालऋषिः अनुष्टुप् छन्दः, आद्याशक्तिः, महिषमर्द्दिनी देवता, चतुर्वर्गफलाप्त्यर्थे विनियोगः ॥

Verse

ॐ क्लीं पातु मस्तके देवी कामिनी कामदायिनी । मकारे पातु मां देवी चक्षुर्युग्मं महेश्वरी ॥३॥

Verse

हिकारे पातु वदने हिङ्गुला-सुर -नायिका । शकारे पातु मां श्वेता जिह्वायां चापराजिता ॥४॥

Verse

त्वपराजिता) मकारे पातु मां देवी मर्दिनी सुरनायिका । दिकारे पातु मां देवी सावित्री फलदायीनी ॥५॥

Verse

(सावित्री कालनाशिनी) निकारे पातु मां नित्या हृदये वासपार्श्वयोः । नाभौ लिङ्गे गुदे कण्ठे कर्णयोस्पृष्टयोस्तथा ॥६॥

Verse

(कर्णयोः पार्श्वयोस्तथा) शिखायां कवचे पातु मुश्वजङ्घायुगे तथा । सर्वाङ्गे पातु मां स्वाहा सर्वशक्तिसमन्विता ॥७॥

Verse

कामाद्या पातु मां स्वाहा सर्वाङ्गे पातु मर्दिनी । दशाक्षरी महाविद्या सर्वाङ्गे पातु मर्दिनी ॥८॥

Verse

मर्दिनी पातु सततं मर्दिनी रक्षयेत् सदा । राजस्थाने तथा दुर्गे सिंहव्याघ्रभयादिषु ॥९॥

Verse

श्मशाने प्रान्तरे दुर्गे नौकायां वह्निमध्यतः । दुर्गा पातु सदा देवी आर्या पातु सदाशिवा ॥१०॥

Verse

प्रभा पातु महेशानी गगने पातु सर्वदा । (कनका पातु) नन्दिनी पातु सततं मुद्राः पातु सदा मम । कृत्तिका पातु सततमभया सर्वदाऽवतु ॥११॥

Verse

प्रभा पातु महामाया माया पातु सदा मम । नन्दिनी पातु सततं सुप्रभा सर्वदाऽवतु ॥१२॥

Verse

विजया पातु सर्वत्र देव्यङ्गे नवशक्तयः । शक्तयः पातु सततं मुद्राः पातु सदा मम ॥१३॥

Verse

जया पातु सदा सूक्ष्मा विशुद्धा पातु सर्वदा । (सदा लक्ष्मी) डाकिन्याः पातु सततं सिद्धाः पातु सदा मम ॥१४॥

Verse

सर्वत्र सर्वदा पातु देवी महिषमर्दिनी । इति ते कवचं दिव्यं कथितं सर्वकामदम् ॥१५॥

Verse

यत्र तत्र न वक्तव्यं गोपितव्यं प्रयत्ततः । गोपितं सर्वतन्त्रेषु विश्वसारे प्रकाशितम् ॥१६॥

Verse

सर्वत्र सुलभा विद्या कवचं दुर्लभं महत् ॥

Verse

शठाय भक्तिहीनाय निन्दकाय महेश्वरि ॥१७॥

Verse

न्यूनाङ्गे ह्यतिरिक्ताङ्गे क्रूरे मिथ्यातिभाषिणि । न स्तवं दर्शयेद्दिव्यं कवचं सुरदुर्लभम् ॥१८॥

Verse

यत्र तत्र न वक्तव्यं शङ्करेण च भाषितम् । दत्त्वा तेभ्यो महेशानि नश्यन्ति सिद्धयः क्रमात् ॥१९॥

Verse

मन्त्राः पराङ्मुखा यान्ति शापं दत्त्वा सुदारुणम् । अशुभं च भवेत्तस्य तस्माद्यत्नेन गोपयेत् ॥२०॥

Verse

गोरोचना कुकुमेन भूर्जपत्रे महेश्वरि । लिखित्वा शुभयोगेन ब्राह्मैन्द्रे वैधृतौ तथा ॥२१॥

Verse

आयुष्मत्सिद्धियोगे च बालवे कौलवेपि वा । वाणिजे श्रवणायां च रेवत्यां वा पुनर्वसौ ॥२२॥

Verse

उत्तरात्रययोगेषु तथा पूर्वात्रयेषु च । अश्विन्यां वाऽथ रोहिण्यां तृतीया-नवमीतिथौ ॥२३॥

Verse

अष्टम्यां वा चतुर्दश्यां षष्ठ्यां वा पञ्चमीतिथौ । अमायां वा पूर्णिमायां निशायां प्रान्तरे तथा ॥२४॥

Verse

एकलिङ्गे श्मशाने च शून्यागारे शिवालये । गुरुणां वैष्णवैर्वापि स्वयम्भू कुसुमैस्तथा ॥२५॥

Verse

शुक्लैर्वा रक्तकुसुमैश्चन्दनै रक्तसंयुतैः । ( शवाङ्गारचितावस्त्रे लिखित्वा धारयेत्पुनः ॥२६॥

Verse

तस्य सर्वार्थसिद्धिः स्याच्छङ्करेणैव भाषितम् । कुमारीं पूजयित्वा च देवीसूक्तं निवेद्य च ॥२७॥

Verse

पठित्वा पूजयेद्विप्रान्धनवान्वेद पारगान् । आखेटकमुपाख्यानं कुमार्यैव दिनत्रयम् ॥२८॥

Verse

तदा धरेन्महारक्षां कवचं सर्वकामदम् । (तदा भवेन्) नाधयो व्याधयस्तस्य दुःखशोकैर्भयं क्वचित् ॥२९॥

Verse

वादी मूको भवेदृष्टवा राजा च सेवकायते । मासमेकं पठेद्यस्तु प्रत्यहं नियतः शुचिः ॥३०॥

Verse

दिवा भवेद्धविष्याशी रात्रौ शक्तिः परायणः । षट्सहस्र प्रमाणेन प्रत्यहं प्रजपेत्सदा ॥३१॥

Verse

षण्मासैर्वा त्रिभिर्मासैर्विद्वरो भवति ध्रुवम् । अपुत्रो लभते पुत्रं निर्धनो धनमाप्नुयात् ॥३२॥

Verse

अरोगी बलवांश्चैव राजा ता दासतामियात् । रजस्वलाभगे नित्यं जपेद्विद्यां समाहितः । एवं यः कुरुते धीमान्स एवं श्रीसदाशिवः ॥३३॥

Verse

(आगमकल्पलता १५-३१७)॥

Verse

इति विश्वसारतन्त्रे महिषमर्दिन्यां कवचं समाप्तम् ॥

śrīmahāśāstranugrahakavacamstotram
mahiṣamardinīkavacam

Read next

More on महिषमर्दिनी

  • महिषमर्दिनीकवचम्Kavach

सा विद्या या विमुक्तये

Built with Sankalpa at Gyaandweep

Gyaandweep

© 2022-2026 Granthajyoti Pvt Ltd.

Privacy & Terms