Fetching Data .

Loading verse structure and chapter context.

GyanDweepBeta
HomeLearnLibrary
eGurukulsDiscoverTemplesPanchanga
Sign Up
Sign Up

kavaca

mahāśāstranugrahakavacam

महाशास्त्रनुग्रहकवचम्

Verse

श्रीगणेशाय नमः । अथ महाशास्त्रनुग्रहकवचं प्रारभ्यते ॥

Verse

श्रीदेव्युवाच भगवन् देवदेवेश सर्वज्ञ त्रिपुरान्तक । प्राप्ते कलियुगे घोरे महाभूतैः समावृते ॥१॥

Verse

महाव्याधिमहाव्याळघोरराजैः समावृते । दुःस्वप्नघोरसन्तापैः दुर्विनीतैः समावृते ॥२॥

Verse

स्वधर्मविरते मार्गे प्रवृत्ते हृदि सर्वदा । तेषां सिद्धिं च मुक्तिं च त्वं मे ब्रूहि वृषध्वज ॥३॥

Verse

ईश्वर इवाच श‍ृणु देवि महाभागे सर्वकल्याणकारणे । महाशास्तुश्च देवेशि कवचं पुण्यवर्धनम् ॥४॥

Verse

अग्निस्तम्भजलस्तम्भसेनास्तम्भविधायकम् । महाभूतप्रशमनं महाव्याधिनिवारणम् ॥५॥

Verse

महाज्ञानप्रदं पुण्यं विशेषात्कलितापहम् । सर्वरक्षाकरं दिव्यमायुरारोग्यवर्धनम् ॥६॥

Verse

किमतो बहुनोक्तेन यं यं कामयते द्विजः । तं तमाप्नोत्यसन्देहो महाशास्तुः प्रसादतः ॥७॥

Verse

कवचस्य ऋषिर्ब्रह्मा गायत्रीश्छन्द उच्यते । देवता श्रीमहाशास्ता देवो हरिहरात्मजः ॥८॥

Verse

षडङ्गमाचरेद्भक्त्या मात्रया जातियुक्तया । ध्यानमस्य प्रवक्ष्यामि श‍ृणुष्वावहिता प्रिये ॥९॥

Verse

अस्य श्रीमहाशास्तुः कवचस्तोत्रमहामन्त्रस्य ब्रह्मा ऋषिः । गायत्रीः छन्दः । महाशास्ता देवता । (ह्रां)प्रां बीजम् । (ह्रीं)प्रीं शक्तिः । (ह्रूं)प्रूं कीलकं श्रीमहाशास्तुः प्रसादसिद्धर्थे जपे विनियोगः । (ह्रां)प्रां इत्यादि षडङ्गन्यासः ॥

Verse

अथ ध्यानम् । तेजोमण्डलमध्यगं त्रिनयनं दिव्याम्बरालङ्कृतं देवं पुष्पशरेक्षुकार्मुकलसन्माणिक्यपात्राभयम् । बिभ्राणं करपङ्कजे मदगजस्कन्धाधिरूढं विभुं शास्तारं शरणं व्रजामि सततं त्रैलोक्यसम्मोहनम् ॥

Verse

(लमित्यादि पञ्चोपचारपूजा ।) महाशास्ता शिरः पातु भालं हरिहरात्मजः । कामरूपी दृशौ पातु सर्वज्ञो मे श्रुती सदा ॥१॥

Verse

घ्राणं पातु कृपाध्यक्षो मुखं गौरीप्रियः सदा । वेदाध्यायी च मे जिह्वां पातु मे चिबुकं गुरुः ॥२॥

Verse

कण्ठं पातु विशुद्धात्मा स्कन्धौ पातु सुरार्चितः । बाहू पातु विरूपाक्षः करौ तु कमलाप्रियः ॥३॥

Verse

भूताधिपो मे हृदयं मध्यं पातु महाबलः । नाभिं पातु महावीरः कमलाक्षोऽवतात्कटिम् ॥४॥

Verse

अपानं पातु विश्वात्मा गुह्यं गुह्यार्थवित्तमः । (समीपं पातु विश्वेशो गुह्यं गुह्यार्थवित्सदा) ऊरू पातु गजारूढो वज्रधारी च जानुनी ॥५॥

Verse

जङ्घे पाशाङ्कुशधरः पादौ पातु महामतिः । सर्वाङ्गं पातु मे नित्यं महामायाविशारदः ॥६॥

Verse

इतीदं कवचं पुण्यं सर्वाघौघनिकृन्तनम् । महाव्याधिप्रशमनं महापातकनाशनम् ॥७॥

Verse

ज्ञानवैराग्यदं दिव्यमणिमादिविभूषितम् । आयुरारोग्यजननं महावश्यकरं परम् ॥८॥

Verse

यं यं कामयते कामं तं तं प्राप्नोत्यसंशयः । त्रिसन्ध्यं यः पठेद्विद्वान् स याति परमां गतिम् ॥९॥

Verse

इति श्रीगुह्यरत्नचिन्तामणौ श्रीमहाशास्त्रनुग्रहकवचं सम्पूर्णम् ॥

śrīmahāvidyā vaiṣṇavī kavacastotram
śrīmahāśāstranugrahakavacamstotram

सा विद्या या विमुक्तये

Built with Sankalpa at Gyaandweep

Gyaandweep

© 2022-2026 Granthajyoti Pvt Ltd.

Privacy & Terms