Fetching Data .

Loading verse structure and chapter context.

GyanDweepBeta
HomeLearnLibrary
eGurukulsDiscoverTemplesPanchanga
Sign Up
Sign Up

kavaca

mahāvidyākavacam

महाविद्याकवचम्

Verse

श‍णुदेवि प्रवक्ष्यामि कवचं सर्वसिद्धिदम् । आद्याया महाविद्यायाः सर्वाभीष्टफलप्रदम् ॥१॥

Verse

कवचस्य ऋषिर्देवी सदाशिव इतीरितः । छन्दोऽनुष्टुप् देवता च महाविद्या प्रकीर्तितः ॥२॥

Verse

धर्मार्थकाममोक्षाणां विनियोगश्च साधने ॥३॥

Verse

ऐंकारः पातु शीर्षे मां कामबीजं तथा हृदि । रमाबीजं सदापातु नाभौ गुह्ये च पादयोः ॥४॥

Verse

ललाटे सुन्दरी पातु उग्रा मां कण्ठदेशतः । भगमाला सर्वगात्रे लिङ्गे चैतन्यरूपिणी ॥५॥

Verse

पूर्वे मां पातु वाराही ब्रह्माणी दक्षिणे तथा । उत्तरे वैष्णवी पातु चेन्द्राणी पश्चिमेऽवतु ॥६॥

Verse

माहेश्वरी च आग्नेयां नैरृते कमला तथा वायव्यां पातु कौमारी चामुण्डा ईशकेऽवतु ॥७॥

Verse

var ऐशनेऽवतु इदं कवचमज्ञात्वा महाविद्याञ्च यो जपेत् । न फलं जायते तस्य कल्पकोटिशतैरपि ॥८॥

Verse

इति श्रीरुद्रयामले महाविद्याकवचं सम्पूर्णम् ॥

mahāvidyākavacam
śrīmahāvidyā vaiṣṇavī kavacastotram

Read next

More on महाविद्याकवचम्

  • श्रीदशमहाविद्याकवचम्Kavach
  • महाविद्याकवचम्Kavach

सा विद्या या विमुक्तये

Built with Sankalpa at Gyaandweep

Gyaandweep

© 2022-2026 Granthajyoti Pvt Ltd.

Privacy & Terms